पूर्वम्: ६।१।८५
अनन्तरम्: ६।१।८७
 
प्रथमावृत्तिः

सूत्रम्॥ एत्येधत्यूठ्सु॥ ६।१।८६

पदच्छेदः॥ एत्येधत्यूठ्सु ७।३ वृद्धिः १।१ ८५ एचि ७।१ ८५ आत् ५।१ ८४ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ अचि ७।१ ७४ संहितायाम् ७।१ ७०

समासः॥

एतिश्च एधतिश्च ऊठ् च एत्येधत्यूठः, तेषु ॰ इतरेतरद्वन्द्वः।

अर्थः॥

अवर्णात् परः यः इण् गतौ इत्येतस्य एच्, एध वृद्धौ ऊठ् इत्येतयोश्च यः अच्, एतेषु च पूर्वः यः अवर्णः, तयोः पूर्वपरयोः अवर्णाचोः स्थाने वृद्धिः एकादेशः भवति, संहितायां विषये॥

उदाहरणम्॥

उपैति, उपैषि, उपैमि। उपैधते, प्रैधते। प्रष्ठोहः, प्रष्ठोहा, प्रष्ठौहे॥
काशिका-वृत्तिः
एत्येधत्यूठ्सु ६।१।८९

वृद्धिरेचि इति वर्तते, आतिति च। तदेततेज्ग्रहणम् एतेरेव विशेषणं , न पुनरेधतेः, अव्यभिचारात्, ऊठश्च सम्भवात्। इण् गतौ इत्येतस्मिन् धातौ एचि, एध वृद्धौ इत्येतस्मिनूठि च पूर्वं यदवर्णं ततश्च परो यो ऽच्, तयोः पूर्वपर्योः अवर्णाचोः स्थाने वृद्धिरेकादेशो भवति। उपैति। उपैषि। उपैमि। उपैधते। प्रैधते। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। ऊठि आद्गुणापवादो वृद्धिर् विधीयते। एत्येधत्योः तु एङि पररूपापवादः। ओमाङोश्च ६।१।९२ इत्येतत् तु पररूपं न बाध्यते, येन न अप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति, पुरस्तादपवादा अनन्तरान् विधीन् बधन्ते इति वा। तेन इह न भवति, उप आ इतः उपेतः इति। एचि इतेव, उप इतः उपेतः। अक्षादूहिन्यां वृद्धिर् वक्तव्या। अक्षौहिणी। स्वादीरेरिण्योर् वृद्धिर् वक्तव्या। स्वैरम्। स्वैरिणी। प्रादूढोढ्येषैष्येषु वृद्धिर् वक्तव्या। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। ऋते च तृतीयासमासे ऽवर्णाद् वृद्धिर् वक्तव्या। सुखेन ऋतः सुखार्तः। दुःखेन ऋतः दुःखार्तः। ऋतः इति किम्? सुखेन इतः सुखेतः। तृतीया इति किम्? परमर्तः। समासे इति किम्? सुखेनर्तः। प्रवत्सतरकम्बलवसनानाम्र्णे वृद्धिर् वक्तव्या। प्र प्रार्णम्। वत्सतर वत्सतरार्णम्। कम्बल कम्बलार्णम्। वसन वसनार्णम्। ऋणदशाभ्यां वृद्धिर् वक्तव्या। ऋणार्णम्। दशार्णम्।
लघु-सिद्धान्त-कौमुदी
एत्येधत्यूठ्सु ३४, ६।१।८६

अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम्? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहन्यामुपिसंख्यानम्)। अक्षौहणी सेना। (प्रादूहोढोढ्येषैष्येषु)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे)। सुखेन ऋतः सुखार्तः। तृतीयेति किम्? परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे)। प्रार्णम्, वत्सतर्राणम्, इत्यादि॥
न्यासः
एत्येधत्यूदसु। , ६।१।८६

सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तौ च सम्भवव्यभिचारावेतादेव धातौ स्तः, नेतरत्रेत्याह--"तदेतदेज्ग्रहणम्()" इत्यादि। "प्रष्ठौहः" इति। प्रष्ठं बहतीति "छन्दसि सहः" ३।२।६३ इति "वहश्च" ३।२।६४ इति ण्विप्रत्ययः "वाह ऊठ्()" (६।४।१३२) इत्यूठ्? सम्प्रसारणसंज्ञकः, "सम्प्रसारणाच्च" ६।१।१०४ इति परपूर्वत्वम्(), ततो वृद्धिः। "एत्येधत्योरेङि पररूपापवादः" इति वृद्धिर्विधीयत इति प्रकृतेन सम्बन्धः। अथ "ओमाङोश्च" ६।१।९२ इत्यस्याप्याङि पररूपापवादो वृद्धिः कस्मान्न भवति, नाप्राप्ते हि पररूप इयं वृद्धिरारभ्यत इति मा यथैङि पररूपं बाधते तथाङि पररूपमपि बाधेत, ततश्चेहापि स्यात्()--आ+इतः=एतः, उप+एतः=उपेतः? इत्यत आह--"ओमाङोश्चेत्येतत्()" इत्यादि। अत्रैव कारणमाह--"येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति" (इति)। नाप्रप्त एङि पररूपे इयं वृद्धिरारभ्यत इति युक्तं यत्? तस्य बाधिका भवति। आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे उप+एति=उपैतीति--अत्र त्वप्राप्ते। तस्मादेषा वृद्धिराङि पररूपत्वं न बाधते। "पुरस्तादपवादाः" इत्यादिना परीहारान्तरमाह--"पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्()" (व्या।प।९) इति, इयं च वृद्धिः पुरस्तादपवादः, अस्याश्()चैहि पररूपमेवानन्तरम्(), अतस्तदेव तया बाध्यते, नाङि पररूपम्(), तस्यान्तरत्वात्()। "अक्षात्()" इत्यादि। "वक्तव्या" इति। व्याख्येयेत्यर्थः। तत्रेदं व्याख्यानम्()--उत्तरसूत्रे चकारोऽधिकविधानार्थः। तेनाक्षशब्दादूहिनीशब्दे परतो वृद्धिर्भविष्यतीति। एवमुत्तरत्रापि वक्तव्यशब्दस्यार्थः, व्याख्यानमप्येवमेव वेदितव्यम्()। अक्षाणामूहः, सोऽस्यास्तीति मत्वर्थीयः इनिः। "ऋन्नेब्यो ङीप्()" ४।१।५ इति ङीप्()--"अक्षौहिणो"। "स्वैरम्()" इति। "ईर गतौ" (धा।पा।१०१८) ईरणमीरः, भावे घञ्? स्वस्य ईरः स्वैरः। क्रियविशेषणत्वात्? स्वैरमिति वृत्तौ नपुंसकलिङ्गेन निर्देशः। क्रिया तु काचिदत्राध्याहत्र्तव्या। अथ वा स्व ईरो यस्य कुलस्य तत्? स्वैरं कुलम्()। नपुंसकस्य कुलादेरन्यपदार्थत्वान्नपुंसकलिङ्गत्वम्()। "स्वैरी" [स्वैरिणी--काशिका] इति। स्वमीरितुं शीलमस्येति "सुप्यजातौ णिनिस्ताच्छील्ये" ३।२।७८ इति णिनिः। ऊढ, ऊढिरिति शब्दौ निष्ठाक्तिन्नन्तौ। "प्रैषः" इति। "इष गतिरहिसादानेषु" (धा।पा।११२७) "इषु इच्छायाम्()" (धा।पा।१३५१) इति वा, अभ्यां प्रपूर्वाभ्यां यदा घञ्? तदा प्रैषः, यदा तु ण्यत्? तदा प्रैष्य इति। "सुखार्त्तः" इति। "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः॥
बाल-मनोरमा
एत्येधत्यूठसु ७४, ६।१।८६

एत्येधत्यूठसु। एतिश्च एधतिश्च ऊठ्चेति विग्रहः। एतीति एधतीति च "ईक्श्तिपौ धातुनिर्देशे" इति श्तिपा निर्देशः। इण् गताविति, एध वृद्धाविति च धातू विवक्षितौ। एचीत्यनुवर्तते। "यस्मिन्विधि"रिति तदादिग्रहणम्। एजादाविति लभ्यते। तच्च एत्येधत्योरेव विशेषणं, न तूठोऽसंभवात्। "एकः पूर्वपरयो"रित्यधिकृतम्। आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते। तदाह--अवर्णादित्यादिना। उपैतीति। इण्()धातोर्लट्। तिप् शप् लुक्। "सार्वधातुक" इति इकारस्य गुण एकारः। उप-एतीति स्थितेऽनेन वृद्धिः। उपैधत इति। एधधातोर्लट्। आत्मनेपदं तादेशः। शप्। "टित आत्मनेपदाना"मित्येत्वम्। उप एधते इति स्थितेऽनेन वृद्धिः। प्रष्ठौह इति। प्रष्ठं वहतीति प्रष्ठवाट्। "वहश्चे"ति ण्विः। "वेरपृक्तस्ये" इति वलोपः। "अत उपधाया" इति वृद्धिः। ततः शसि "वसोः सम्प्रसारण"मित्यतः संप्रसारणमित्यनुवृत्तौ "वाह ऊठ्" इति संप्रसारण संज्ञकस्य ऊठः "सम्प्रसारणाच्चे"ति पूर्वरूपम्। प्रष्ठ ऊहिति स्थितेऽनेन वृद्धिरौकारः। नन्वत्र एत्येधतिग्रहणं व्यर्थम्, उपैति उपैधत इत्यत्र वृद्धिरैचीत्यनेनैव वृद्धिसंभवात्। ऊठग्रहणमपि व्यर्थं, वृद्धिरेचीत्य#एव सिद्धेः। वाह ऊठग्रहणानार्थक्यं, संप्रासरणेन कृतत्वात्। गुणस्तु प्रत्ययलक्षणत्वात्। एज्ग्रहणाद्वृद्धिः" इति वार्त्तिककृता तथैवोक्तत्वात्। ऊठ्ग्रहणं न कर्तव्यम्। "वाह"इत्येव सूत्पमस्तु। भस्य वाहः संप्रसारणं स्यादिति संप्रसारणमेव विधीयतां, ततश्च वकारस्य उकारे संप्रसारणे पूर्वरूपे सति उहिति स्थिते प्रत्ययलक्षणमाश्रित्य ण्विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ठ-ओहिति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थः। तस्मादेत्येधत्यूठसु इति सूत्रं व्यर्थमित्यत आह-- पररूपगुणापवाद इति। एत्येधत्योरेङि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमपवाद इत्यर्थः। यदि हि बाहः सम्प्रसारणमेव विधीयेत न तूठ्, तर्हि वस्य संप्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपधगुणो न भवति तस्मिन् कर्तव्ये बहिर्भूतशस्प्रत्ययापेक्षभसंज्ञापेक्षसंप्रसारणाश्रित पूर्वरूपस्य बहिरङ्गतयाऽत्राऽसिद्धत्वात्। तथाच गुणाऽभावे प्रष्ठ-उ-आहिति स्थिते पूर्वरूपे प्रष्ठ-उह्? इति स्थिते "आद्गुण" इति गुणे ओकारे "प्रष्ठोह" इति स्यात्। संप्रसारणसंज्ञकस्य ऊठो विधौ तु प्रष्ठ ऊ आहिति स्थिते पूर्वरूपे लघूपधगुणस्याऽप्रसक्ततया ओकारस्याऽभावादूकारस्यैव सत्त्वाद्वृद्धिरेचीत्यस्याऽप्रसक्तेराद्गुण इति प्राप्ते एत्येधत्यूठ्()स्विति वृद्धौ "प्रष्ठौह" इति सिध्यतीत्यूठ्ग्रहणमावश्यकमिति वाहौउठ सूत्रे समुदाह्मतवार्तिकं भाष्ये दूषितमित्यास्तां तावत्। उपेत इति। इण्धातोर्लट् तस्? शप् लुक्। "सार्वधातुकमपि "दिति तसो ङित्त्वात्तास्मिन् परत इकारस्य न गुणः। अत्र इण्()धातोरेजादित्वाऽभावात्तस्मिन्परतो न वृद्धिः। मा भवान्प्रेदिधदिति। एधधातोर्णिच्। लुङ् तिप्। "नित्यं ङितः" इति इकारलोपः। "णिश्रिद्रुरुआउभ्य" इति चङ्()। "णौ चङ्युपधाया ह्यस्वः"। "चङी"त्यजादेर्द्वितीयस्य धिशब्दस्य द्वित्वम्। "अभ्यासे चर्चे"ति जश्त्वम्। "न माङ्योग" इत्याडभावः। भवच्छब्दयोहगात्प्रथमपुरुषः। तच्च तिङन्ताधिकारे स्पष्टीभविष्यति। प्र-इदिधदिति स्थिते एत्येधतीति न वृद्धिः, एधधातोरेजादित्वाऽभावात्। तत्र एजादित्वविशेषणाऽभावे तु इहापि वृद्धिः स्यात्। न च णौ चङीत्येकारस्य ह्यस्वेन इकारे सति नायमेधधातुरिति वाच्यम्, एकदेशविकृतस्यानन्यत्वात्। अत्र माङं विहाय प्रेदिधदिति न प्रत्युदाह्मतम्। तथा सति आडजादीनामित्याडागमे आटश्चेति वृद्धौ ऐदिधदिति स्यात्। तत्र एधतेरेजादित्वाद्वृद्धिरिष्टैव। भवच्छब्दस्तु चिन्त्यप्रयोजनः। ननु आ इहि, आद्गुणः, एहि, अव-एहीति स्थिते एकादेशस्य गुणस्य एकारस्य अन्तादिवच्चेति परादिवद्भावेन, "आद्यन्तवदेकस्मि"न्निति व्यपदेशिवद्भावेन च , च इण्()धातोरेजादित्वात्तस्मिन् परे "एङिपररूप"मिति पररूपं बाधित्वा एत्येधत्यत्यूठ्()स्विति वृद्धौ "अवैही"ति इष्टं न स्यात्। न च ओमाङोश्चेति पररूपेण तन्निर्वाहः शङ्क्यः। एत्येधतीति वृद्धिर्हि यथा एङि पररूपमित्यस्यापवादस्तथा ओमाङित्यस्याप्यपवादः;येन नाप्राप्तिन्यायसाम्यादित्यत आह--पुरस्तादिति। "पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा"निति न्यायः। पूर्वपठिता अपवादा अव्यवहितानेवोत्तररान्विधीन्बाधन्ते न तु व्यवहितानित्यर्थः। प्रकृते च एत्येधत्यूठ्सु इत्युत्तरं कानिचित् सूत्राणि पठित्वा "एङि पररूप"मिति पठित्वा पुनः कतिपयसूत्राणि पठित्वा पुनः ओमाङोश्चेति पठितम्। ततश्चोक्तन्यायेन "एत्येधती"ति वृद्ध्या "एङि पररूप"मित्येव बाध्यते न त्वोमाङोश्चेति पररूपमपीति भावः। वस्तुतस्तु एत्येधतीति वृद्धिरोमाङोश्चात्यस्यापवाद एव न भवति, उपैतीत्यादावप्राप्तेऽपि तस्मिन्नेत्येधतीति वृद्धेरारम्भात्। अतः पुरस्तादपवादा" इति न्यायस्य नायं विषयः। ततस्च अव-एहीत्यत्र एत्येधतीति बाधित्वा परत्वादोमाङोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम्। अत एव भाष्ये -- नाप्राप्ते एङि पररूपे एत्येधतीति बाधित्वा परत्वादोमाहोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम्। अत एव भाष्ये--"नाप्राप्ते एङि पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवादः। आङि पररूपे तु प्राप्ते चाऽप्राप्ते च आरभ्यमाणा वृद्धिर्नं तदपवाद" इति स्पष्टमेवोक्तम्। यत्तु भाष्ये पक्षान्तरमुक्तम्--"अथवा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्त इत्येवमेत्येधतीति वृद्धिरेङि पररूपमेव बाधते न त्वोमाङोश्चेति पररूपमपी"ति। तत्तु एत्येधतीति वृद्धिरेङि पररूपमोमाङोश्चेति सूत्रद्वयापवादत्वाब्युपगमवादमात्रमाश्रित्य, बाध्यसामान्याचिन्तामाश्रित्य वेत्यलं बहुना।

अक्षादूहिन्यामुपसंख्यानम्। आदिति अचीति वृद्धिरिति चानुवर्तते। "एकः पूर्वपरयो"रिति च। "ऊह वितर्के"। ऊहनमूहः, सोऽस्या अस्तीत्यूहिनी। अक्षशब्दादूहिनीशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः। अक्षौहिणीति मत्वर्थीय इनिः। नान्तत्वान्ङीप्। अक्षाणामूहिनीति विग्रहः। परिमाणविशेषविशिष्टा सेना अक्षोहिणी। "पूर्वपदात्संज्ञाया"मिति णत्वम्। अक्ष--ऊहिनीति स्थिते गुण प्राप्तेऽनेन वार्तिकेन वृद्धिः।

स्वादीरेरिणोः। स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः। स्वैर इति ईरगतौ। भावे घञ्। स्वेन च्छन्देन ईर इति विग्रहः। "कर्तृकरणे कृता बहुल"मिति समासः। स्व--ईर इति स्थिते गुणेप्राप्तेऽनेन वार्तिकेन वृद्धिः। स्वेनेरितुमिति। स्वेनच्छन्देन ईरितुं संचरितुं शीलमस्येत्यर्थे "सुप्यजाता"विति णिनिः। स्वच्छन्दचारीत्यर्थः। उपपदसमासः। स्व--ईरिन्निति स्थिते गुणे प्राप्तेऽनेन वृद्धिः।

प्रादूहोढोढ()एषेष्येषु। प्रेत्युपसर्गात् "ऊह" "ऊढ" "एष""एष्य" एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः। प्रौह इति। ऊहवितर्के। भावे घञ्। गतिसमासः। प्र-ऊह इति स्थितेऽनेन वार्तिकेन वृद्धिः प्रौढ इति। बह प्रापणे। क्तः। "वचिस्वपी"ति सम्प्रसारणम्। पूर्वरूपम्। "हो ढ" इति ढत्वम्। झषस्तथोरिति धत्वम्। ष्टुत्वम्। "ढो ढे लोपः" "ढ्रलोप" इति दीर्घः। प्र-ऊढ इत,#इ स्थिते गुणे प्राप्तेऽनेन वृद्धिः। ननु प्रोढवानित्यत्रापि वहधातोः क्तवतुप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु प्र-ऊढवदिति स्थिते प्रादूहोढेति वृद्धि स्यात्, तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह--अर्थवदिति। अर्थवतः शब्दस्य ग्रहणसम्भवेऽनर्थकस्य शब्दस्य ग्रहणं न भवतीत्यर्थः। इयं परिभाषा"स्वं रूप" मित्यत्र रूपग्रहणात्सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम्। तेनेति। अर्थवत एव ग्रहणनियमेनेत्यर्थः। क्तान्तमेवेति। क्तप्रत्ययस्तावदर्थवान्, भावकर्मणोस्तद्विधानात्। क्तवतुप्रत्ययस्तु कर्तरि विहितः। अतस्तदेकदेशस्य क्तस्यानर्थकत्वात्प्रादूहोढेत्यत्र ऊढग्रहणेन ग्रहणं न भवति, अतस्तस्मिन्, परे वृद्धिर्न भवति, किन्त#उ गुण एवेत्यर्थः। प्रौढिरिति। वहधातोः क्तिन्। ढत्वधत्वष्टुत्वढलोपदीर्घाः। प्र-ऊढिरिति स्थिते गुणं बाधित्वाऽनेन वृद्दिः। इष-इच्छायामित्यादि। गणत्रयेऽपि ह्यस्वोपधा एव एते धातवः। तेषामिति निर्धारणे षष्ठी। तेषां मद्येऽन्यतमाद्व्वञि ण्यति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे। प्र एष प्र एष्य इति स्थिते एङि पररूपं बाधित्वाऽनेन वृद्धिः। #एतेन वृद्धिरेचीत्यनेन एवैषैष्यग्रहणयोर्गतार्थत्वं निरस्तम्। नन्वेवं सति प्रेष इति प्रेष्य इति च कथं प्रयोग इत्यत आह--यस्त्विति। तयोर्दीर्घोपधत्वेन लङूपधगुणाऽभावे ईष ईष्य इति च सिध्यति। तयोस्तु एतद्वार्तिके ग्रहणाऽभावात्तयोः परतो वृद्ध्यभावे "आद्गुण" इति गुणे प्रेषः प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थः। एषशब्दसाहचर्यादेष्यशब्दोऽपि कृदन्त एव गृह्रते। तेन तिङन्ते ल्यबन्ते च न वृद्धिः। अग्नये प्रेष्य दूतम्, प्रेष्य गतः।

ऋते च तृतीयासमासे। तृतीया समासेऽकारादृतशब्दे परे पूर्वपरयोरचोर्वृद्धिः स्यादित्यर्थः। सुखेन ऋत इति विग्रहप्रदर्शनम्। ऋ गतौ। गत्यर्थाकर्मकेति कर्तरि क्तः। प्रकृत्यादित्वात्तृतीया। सुप्सुपेति समासः। सुख-ऋत इति स्थिते गुणे प्राप्तेऽनेन वृद्धिराकारः। रपरत्वे सुखार्त इति रूपम्। समसग्रहणस्योदाह्मतविग्रहवाक्यमेव प्रत्युदाहरणं दर्शितप्रायमिति तृतीयेत्यंशस्य प्रयोजनं पृच्छति--तृतीयेति किमिति। परमर्त इति। परमश्चासौ ऋतश्चेति कर्मधारयः। आद्गुणः।

प्रवत्सतर पञ्चम्यर्थे षष्ठी। "प्र""वत्सतर""कम्बल""वसन""ऋण" "दश" एतेषामृणशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः। प्रार्णामिति। प्रगतमृणमिति विग्रहे, "प्रादयो गताद्यर्थे प्रथमये"ति गतिसमासः। प्र-ऋणिमिति स्थिते गुणं बाधित्वाऽनेन वार्तिकेन वृद्धिराकारः। रपरत्वम्। वत्सतरः=शिशुवत्सः, तस्य ऋणमिति विग्रहः। वत्सतरमधिकृत्य वा तद्ग्रहणार्थं वा यदृणं गृह्रते तद्वत्सतरार्णम्। एवमग्रेऽपि द्रष्टव्यम्। आदिशब्देन कम्बलार्णं वसनार्णं दशामृणार्णमिति च गृह्रते। सर्वत्र षष्ठीसमासः। ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह-ऋणस्येति। देशनदीविशेषयोः कथं दशार्णशब्दप्रवृत्तिरित्यत आह--ऋणशब्द इति। तथा च दश ऋणानि दुर्गभूमयो यस्मिन् देशे स दशार्णो देशविशेषः। दशविधानि ऋणानि जलानि यस्यां नद्यां सा दशार्णेति विग्रहः।

तत्त्व-बोधिनी
एत्येधत्यूठसु ६१, ६।१।८६

एत्येधत्यूठसु। अत्र "एची"त्यनुवर्तते। तच्च एत्येधत्योर्विशेषणं न तूठः, असंभवात्। "आद्गुणः" इत्यत आदित्यनुवर्तत एवाऽतो व्याचष्टे-अवर्णादेजाद्योरिति। प्रष्ठौह इति। प्रष्ठं वहतीति प्रष्ठवाट्। "वहश्चे"ति ण्विः। ततः शसि "वाह ऊठ्"। गुणापवादतयाऽनेन वृद्धिः। प्रेदिधदिति। प्रपूर्वस्यैधतेण्र्यन्तस्य लुङि रूपम्। "न माङ्योगे" इत्याडागमाऽभावः। पुरस्तादिति। "पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा"निति न्यायेनेत्यर्थः। अक्षादिति। "आ"दित्यनुवर्तते, "अची"ति च। तेन पूर्वपरयोर्वर्णयोरेव भवति। एवमन्यत्राप्यूह्रम्।

अक्षादूहिन्यामुपसङ्ख्यानम्। अक्षौहिणीति। ऊहः=समूहः, सोऽस्त्यस्याः सा ऊहिनी। अक्षाणामूहिनीति विग्रहः। परिमाणविशेषविशिष्टा सेना अक्षौहिणी। "पूर्वपदात्संज्ञायाम्-" इति णत्वम्। "अक्षणा"मित्यस्य "ऊह"-शब्देन समासे तत इनौ तु "अक्षौहिणी"त्येव भवति, न तु तत्र वृद्धिः, अन्तरङ्गेण गुणेन बाधात्। अपवादभूताया अपि वृद्धेरूहिनीशब्देन समासे चरितार्थत्वात्। यथोक्तं प्राक् "यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गभ्यां बाध्यते" इति।

स्वादीरेरिणोः। "ईरेरिण्योः इति क्वाचित्कोऽपपाठः। "स्वैरी"ति णिन्यन्तस्य अस्त्रियां वृध्द्यभावप्रसङ्गात्। "ईरि"न्ग्रहणस्य फलमाह-स्वेनेरितुमिति। यदा त्वी(रणमी)र इति घञन्तेन स्वशब्दस्य समासे "स्वादीरे" इति वृद्धौ कृतायां मत्वर्थीय इनिः, यदा वा मत्वर्थीयेनिप्रत्ययान्तेन ईरिञ्शब्देन स्वशब्दस्य समासस्तदापि तदेकदेश ईरशब्दोऽस्त्येवेति पृथगीरिन्ग्रहणं व्यर्थं स्यादिति भावः।स्वैरीति। "सुप्यजातौ" इति णिनिः। उपपदसमासः। स्वैरिणीति। ङीपः प्राग्भागमीरिञ्शब्दमादाय वृद्धिः। केचित्तु लिङ्गविशिष्टपरिभाषयाऽत्र वृद्धिरित्याहुस्तन्निष्फलमिति। भावः।

नानर्थकस्येति। उपस्थितस्याऽर्थस्य शब्दं प्रति विशेषणत्वसंभवे त्यागाऽयोगादिति भावः। प्रैष्य इति। एषसाहचर्यादेष्योऽप्यनव्ययं गृह्रते; तेन ण्यन्तादिषेः त्त्को ल्यपि पररूपमेव, न तु वृद्धिः। प्रेष्य गतः। लघूपधगुणमाशङ्क्याह-तयोर्दीर्घोपधत्वादिति।

प्रवत्सतरेति। इह केचिद्वत्सशब्दं वत्सरशब्दं च प्रक्षिपन्ति, तद्भाष्यादावदृष्टत्वादुपेक्ष्यम्। वत्सतरार्णमिति। तकारमकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि। रेफात्परस्य तु "अचो रहाभ्या"मिति द्वित्वे "यणो मयः" इति वचनान्तरेण पुनर्द्वित्वे एकणं द्विणं त्रिणमिति द्वादश। "खयः शरः" इति सकारद्वित्वे चतुर्विंशतिः(२४)। न चेह "शरोऽची"ति द्वित्वनिषेधः शङ्क्यः, तस्य सौत्रद्वित्वमात्रविषयत्वात्। अतएव "खयः शरः" इति वार्तिकस्य "वत्स्सरः" "अप्स्सराः" इत्युदाहरणं भाष्ये दत्तम्। न च वदेः सरप्रत्यये परतश्चर्त्वे कृते तस्याऽसिद्धत्वात्सस्य खयः परत्वं नेति शङ्क्यम् ; "पूर्वत्रासिद्धीयमद्वित्वे" इत्युक्तेः। अतएव मनोरमायां "षट् सन्तः" इत्यत्र टकारात्परस्य सस्य द्वित्वं स्वीकृतमिति दिक्।