पूर्वम्: ६।२।१८४
अनन्तरम्: ६।२।१८६
 
सूत्रम्
अपाच्च॥ ६।२।१८५
काशिका-वृत्तिः
अपाच् च ६।२।१८६

अपाच् च उत्तरं मुखम् अन्तोदात्तं भवति। अपमुखः। अपमुखम्। अव्ययीभावो ऽप्यत्र प्रयोजयति। तत्र अपि हि परिप्रत्युपापा वर्ज्यमान। अहोरात्राव्यवेषु ६।२।३३ इत्युक्तम्। योगविभागः उत्तरार्थः।
न्यासः
अपाच्च्। , ६।२।१८५

"अव्ययीभावोऽप्यत्र प्रयोजयति" इति। न केवलं बहुव्रीहितत्पुरुषावित्यपिशब्दार्थः। तत्र यदा बहुव्रीहिस्तदा--अपगतं मुखमस्मादिति विग्रहः। यदा तु प्रादिसमासस्तदा अपगतं मुखमिति। यदा पुनरव्ययीभावस्तदा--अपमुखादिति, मुखं वर्जयित्वेत्यर्थः। अव्ययीभावस्तु "अपपरिबहिरञ्चवः वञ्चम्या" २।१।११ इत्यनेन। कथं पुनरव्ययीभावः प्रयोजयति, यावता समासान्तोदात्तत्वेनैव सिद्धम्()? इत्याह--"तत्रापि हि" इत्यादि। प्रकृतिस्वरत्वमित्यत्राध्याहार्यम्()। तत्राप्यव्ययीभाव "परिप्रत्युपापा" ६।२।३३ इत्यादिना पूर्वपदस्य प्रकृतिस्वरत्वमुक्तं समासस्वरापवादः। तस्मादव्ययीभावोऽपि प्रयोजयति। "योगविबाग उत्तरार्थः" इति। "उत्तरसूत्रेऽपादित्यस्यैवानुवृत्तिर्यथा स्यात्(), अभेर्मा भूत्()। अव्ययपूर्वादपि प्रकृतिस्वरापवादो योगः। एवमुत्तरेऽपि योगाः "द्वित्रिभ्यां पद्दन्मूर्धसु बहुव्रीहौ" (६।२।१९७) इत्यतो योगात्? प्राग्वेदितव्याः॥