निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति। निरुदकम्। निरुलपम्। निरुपलम् इत्यन्ये पठन्ति। निर्मशकम्। निर्मक्षिकम्। एषां प्रादिसमासो बहुव्रीहिर् वा। अव्ययीभावे तु समासान्तोदात्तत्वेन एव सिद्धम्। निष्कालकः। निष्क्रान्तः कालकातिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः। निष्कालिकः इत्यन्ये पथन्ति। निष्पेषः। दुस्तरीपः। अवितृ̄स्तृ̄तन्त्रिभ्य ईः, तरीः। तां पाति इति तरीपः। कुत्सितः तरीपः दुस्तरीपः। निस्तरीपः इति केचित् पठन्ति। अपरे निस्तरीकः इति। ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति। निरजिनम्। उदजिनम्। उपाजिनम्। परेर्हस्तपादकेशकर्षाः। परिहस्तः। परिपादः। परिकेशः। परिकर्षः। निरुदकादिराकृतिगणः।
"निरुदकम्()" इति। निष्क्रान्तमुदकमस्मादिति बहुव्रीहिः, निष्क्रान्तमुदकादिति वा प्रादिसमासः। उदकं कायतीति "आतोऽनुपसर्गे कः"
३।२।३, "उदकस्योदः संज्ञायाम्()"
६।३।५६ इत्युदभावः। तेनोदकमन्तोदात्तम्()। "निरुपलम्()" इति। "विटपविष्टपविशिपोलपाः" (द।उ।७।१२) इत्युपलशब्दोऽन्तोदात्तो निपात्यते। "निरुपलमित्यन्ये" इति। उपपूर्वाल्लातेः "आतश्चोपसर्गे"
३।१।१३६ इति कः। तेनोपलशब्दस्थाथादि
६।२।१४३ स्वरेणाद्युदात्तः। "निर्मक्षिकम्(), निर्मशकमित्यदीनाम्()" इति। मशकमक्षिकाशब्दा(वा)द्युदात्तान्तोदात्तौ। तत्र हि "अथादिः, प्राक्(), शकटेः"(फि।सू।२।२४), "अथ द्वितीयः प्रादीषात्()" (फि।सू।३।५०) ["द्वितीयं"--फि।सू।] इति वर्तते। "एषाम्()" इत्यादि। यदि प्रादिसमासस्तदा निर्गतमुदकं निर्गतं वोदकादिति विग्रहः। यदा तु बहुव्रीहिस्तदा निर्गतमुदकमस्मादिति।
अथाव्ययीभावोऽप्येषां कस्यान्न भवति? इत्याह--"अव्ययी भावे तु" इत्यादि। बहुव्रीहिप्रादिसमासयोस्तु समासान्तोदात्तत्वेन न सिध्यति। तथा हि--"बहुव्रीहौ प्रकृत्या पूर्वपदम्()"
६।२।१ इति समासस्वरापवादः पूर्वपदप्रकृतिस्वरो बहुव्रीहावुक्तः। प्रादिसमासेऽपि "तत्पुरुषे तुल्यार्थ"
६।२।२ इत्यादिना।
"निष्कालकः" इति। कालशब्दः कन्प्रत्ययान्तत्वादाद्युदात्तः। "निष्कालिकः" इति। निष्क्रान्तः कालिकाया इति प्रादिसमासः। कालीति जानपदादिसूत्रेण
४।१।४२ ["द्वितीयं"--फि।सू।] ङीषान्तत्वादन्तोदात्तः, ततः स्वार्थिके कनि कृतेऽप्याद्युदात्त एव भवति।
"निष्पेषः" इति। "विष्लृ सञ्चूर्णने" (धा।पा।१४५२) अस्माद्घञ्()। तेन पेषशब्द आद्युदात्तः। "तरीं पाति" इति। "आतोऽनुपसर्गे कः"
३।२।३ इति तरीपशब्दोऽन्तोदात्तः। कुत्सितस्तरीप इति कुत्सितग्रहणेन दुस्तरीपशब्दे दुःशब्दः कुत्सायां वर्तत इति दर्शयति। "निस्तरीप इति केचित्()" इति। ते च निर्गतस्तरीप इति विगृह्र प्रादिसमासं कुर्वन्ति। "अपरे निस्तरीक इति" इति। पठन्तीति सम्बन्धः।
"निरजिनम्()" इत्यादि। "अजिनमन्तोदात्तम्()" इत्युक्तम्()।
"परेः" इत्यादि। हस्तपादकेशाः "स्वाङ्गशिटामदन्तानाम्()" (फि।सू।२।२९) इत्याद्युदात्ताः। शिटाम्()=सर्वनाम्नामित्यर्थः। कर्षशब्दः "कर्षात्वतो घञोऽन्त उदात्तः"
६।१।१५३ इत्यन्तोदात्तः॥