पूर्वम्: ६।२।४५
अनन्तरम्: ६।२।४७
 
सूत्रम्
कर्मधारयेऽनिष्ठा॥ ६।२।४६
काशिका-वृत्तिः
कर्मधारये ऽनिष्ठा ६।२।४६

कर्मधार्ये समासे क्तान्ते उत्तरपदे ऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति। श्रेणिकृताः। ऊककृताः। पूगकृताः। निधनकृताः। श्रेणिशब्द आद्युदात्तः। ऊकपूगशब्दावन्तोदात्तौ। निधनशब्दो ऽयं मध्योदात्तः। कर्मधारये इति किम्? श्रेण्या कृतं श्रेणिकृतम्। अनिष्ठा इति किम्? कृताकृतम्।
न्यासः
कर्मधारयेऽनिष्ठा। , ६।२।४६

"श्रेणिकृताः" इत्यादि। "श्रेण्यादयः कृतादिभिः" २।१।५८ इति समासः। "श्रेणिशब्द आद्युदात्तः" इति। नित्स्वरेण। स हि "वीज्याज्वरिभ्यो निः" (द।उ।१।१८) इत्यतो निरिति वत्र्तमाने "वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्()" (द।उ।१।२१) ["वहिश्रियुश्रुग्लाहात्वरिभ्यो नित्()" द।उ।] इत्येवं व्युत्पाद्यते, तेनाद्युदात्तः। "पूगशब्दोऽन्तोदात्तः" इति। "मुदिग्रोर्गग्गौ" (द।उ।३।६६) इति बहुलवचनात्? पूञोऽपि गक्()। तेन प्रत्ययस्वरेणान्तोदात्तः। "कृताकृतम्()" इति। कृतञ्च तदकृतं चेति "क्तेन नञ्विविशिष्टेनानञ्()" २।१।५९ इति समासः। एकदेशस्य कृतत्वात्? कृतम्, तदैवैकदेशस्याकृतत्वादकृतम्()॥