पूर्वम्: २।१।५८
अनन्तरम्: २।१।६०
 
प्रथमावृत्तिः

सूत्रम्॥ क्तेन नञ्विशिष्टेनानञ्॥ २।१।५९

पदच्छेदः॥ क्तेन ३।१ नञ्विशिष्टेन ३।१ अनञ् १।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
क्तेन नञ्विशिष्टेन अनञ् २।१।६०

नञैव विशेषो यस्य, सर्वमन्यत् प्रकृत्यादिकं तुल्यं, तन् नञ्विशिष्टम्, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह अनञ् क्तान्तं समस्यते, तत्पुरुषश्च समासो भवति। कृतं च तदकृतं च कृताकृतम्। भुक्ताभुक्तम्। पीतापीतम्। उदतानुदितम्। नुडिटौ तद्भक्तत्वान्नैव भेदकौ। अशितानशितेन जीवति। क्लिष्टाक्लिशितेन वर्तते। कृतापकृतादीनाम् उपसङ्ह्यानम्। कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम्। गतप्रत्यागतम्। यातानुयातम्। क्रयाक्रयिका। पुटापुटिका। फलाफलिका। मानोन्मानिका। समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् उत्तरपदलोपश्च। शाकप्रधानः पार्थिवः शाकपार्थिवः। कुतपसौश्रुतः। अजातौल्वलिः।
न्यासः
क्तेन नञ्विशिष्टेनानञ्। , २।१।५९

अयं विशिष्टशब्दोऽस्त्येव सावधारण आधिक्ये वत्र्तमानः। यथा-- देवदत्तयज्ञदत्तावाढ()आवभिरूपौ प्रेक्षावन्तौ। देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः; स्वाध्यायेनैवाधिक इति गम्यते। अन्ये तु गुणाः समाना एव भवन्ति। अस्ति च निरवधारण आधिक्ये वत्र्तमानः, यथा-- देवदत्तयज्ञदत्तावाढ()आविभिरूपौ प्रेक्षावन्तौ। देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः, स्वाध्यायेनाधिक इति गम्यते। अन्ये तु गुणाः समाना भूयांसो वा, ते न विवक्षिता भवन्ति। यद्यपि चाभिन्नरूपमेव वाक्यद्वयमेतत्, तथापि प्रकरणादेः कुतश्चिदर्थभेदो गम्यते, यथा-- आराच्छब्दे दूरान्तिकार्थभेदः। तत्र यदि निरवधारण आधिक्ये वत्र्तमानो विशिष्टशब्दो गृह्रेत, तदा सिद्धं च तदभुक्तञ्चेत्यत्रापि स्यात्, अस्त्यत्र नञाधिकं क्तान्तम्। तस्मात् सावधारण आधिक्ये वर्तमानं विशिष्टशब्दं परिगृह्राह-- "नञैव विशेषो यस्य" इत्यादि। "प्रकृत्यादिकम्" इति। आदिशब्देन प्रत्ययोपसर्गयोः परिग्रहः। "अनञ्" इति। अविद्यामानो नञ् यस्मिन् क्तान्ते तदनञ्। "कृतञ्च तदकृतञ्च" इति। कथं पुनरेकमेव वस्तु कृतं स्यादकृतञ्च? अवयवधर्मेण समुदायस्य तथा व्यपदेशाददोषः। कृतभागसम्बन्धात् कृतम्, अकृतभागसम्बन्धात् तदेवाकृतमित्यु()च्यते। अथ वा- यदर्थं कृतं तत्रासामथ्र्यादकृतम्, यथा-- पुत्रकार्यासामथ्र्यात् पुत्रोऽप्यपुत्र इति। यदि नञेव विशेषो यस्य सर्वमन्यत् प्रकृत्यादिकं तुल्यं तेन समासः, एवं सति यस्य नुडप्यधिक इडागमो वा, तेन सह समासो न भवतीत्याह-- "नुडिटौ" इत्यादि। यत्तु नञ्विशिष्टं क्तान्तं तद्भक्तौ नुडिटौ, अतस्तद्ग्रहणेन गृह्रेते, अतो नास्य भेदकौ तौ। अभेदकावित्यर्थः। तेन तदधिकमपि नञ्विशिष्टमेव भवतीति तेन समासो भवत्येव। "अशितानशितेन" इति। "तस्मान्नुडचि" ६।३।७३ इति नुट्। "क्लिष्टाक्लिशितेन" ति। "क्लिशः क्त्वानिष्ठयोः" ७।२।५० इति पक्षे इट्। अनञिचि शक्यमकर्तुम्। यदि स नञ् समस्येत तदा नञ्विशिष्टता नोपपद्यते; द्वोयरपि नञ्सम्बन्धात्। तस्मान्नञ्विशिष्टग्रहणादेवानञ् समस्यत इत्येषोऽर्थो लभ्यत इत्यनञ्ग्रहममनर्थकम्। तत् क्रियते विस्पष्टार्थम्। "कृतापकृतादीनाम्" इत्यादि। कृतापकृतप्रभृतीनामुपसंख्यानम् = प्रतिपादनं कत्र्तव्यम्। तत्रेदं प्रतिपादनम्-- बहुलग्रहणमिहानुवत्र्तते, तेन कृतापकृतादीनामपि समासी भवतीति। "कृतापकृतम्" इति। तदेकदेशस्येष्टस्य करणात् कृतम्। अपकृतञ्च तदेकदशस्यानभिमतस्य करणात्। "भुक्तविभुक्तम्" इति। भुक्तं त्वभ्यवह्मतत्वात्, विभुक्तञ्चाशोभनत्वात्। विशब्दोऽत्राशोभवत्वं प्रतिपादयति विरूपवत्। अथ वा- भुक्तञ्च तत्प्रत्यागतञ्चेति "गतप्रत्यागतम्"। यातञ्च तत्पूर्वमनुयातञ्च पश्चात् "यातानुयातम्"। "क्रयाक्रयिका" #इति। महान् क्रयः क्रयशब्दोनोच्यते, अल्पस्तु क्रयिकाशब्देन। क्रयावयवसम्बन्धात् क्रयः, क्रयिकावयवसम्बन्धात् क्रयिता, क्रयश्चासौ क्रयिका चेति क्रयाक्रयिका। "अन्येमामपि दृश्यते" ६।३।१३६ इति दीर्घः। एवं पुटश्चासौ पुटिका चेति "पुटापुटिका"। फलञ्च तत् फलिका चेति "फलफलिका"। मानञ्च तदुन्मानिका चेति "मानोन्मानिका"। "समानाधिकरणाधिकारे" इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु पूर्ववदेव॥ "पूज्यचमानवचनैरिति वचनात्" इत्यादि। पूज्यमनत्वं ह्रवमुत्तरपदस्य भवति यदि पूजावचना भवन्ति, नान्यथा; तस्मात् पूज्यमानग्रहणात् सदादयः पूजावचना विज्ञायन्ते। अत एव सच्छब्देन शतृशानचोग्र्रहणं न भवति, न हि तौ पूजामाहतुः। "उत्कृष्टा गौः कद्र्दमात्" इति। उद्धृतेत्यर्थः। अथ कथं महाद्रुमः, महोदधिरिति समासः, न ह्रत्र पूजा गम्यते, किं तर्हि? प्रमाणातिरेक उत्तरपदार्थस्य? यद्यप्येवम्, तथापि बहुलग्रहणानुवृत्तेर्भविष्यति॥
बाल-मनोरमा
क्तेन नञ्विशिष्टेनाऽनञ् ७२९, २।१।५९

क्तेन नञ्विशिष्टेनानञ्। नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह नञ्रहितं क्तान्तं समस्यते, तत्पुरुष इत्यर्थः। कृतं च तदिति। एकदेशस्य करणात्कृतम्, एकदेशान्तरस्याऽकरणात्तदेवाऽकृतम्। पूर्वनिपातनियमार्थम्। सिद्धं च तदभुक्तं चेत्यत्र तु नायं समासः, विशिष्टशब्दो ह्रत्राधिकवाची। यथा "देवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट" इत्युक्ते अधिक इति गम्यते। नञैव विशिष्टं। नञ्मात्राधिकेन क्तान्तेनेति लभ्यते। एवंच समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम्।

शाकपार्थिवादीनामिति। "वर्णो वर्णेने"ति सूत्रभाष्ये इदं वार्तिकं पठितम्। शाकपार्थिव इति। शाकः प्रियो यस्य स शाकप्रियः। "वा प्रियस्ये"ति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्चेति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः। तत्र पूर्वखण्डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः। देवब्राआहृण इति। देवाः प्रिया यस्य स देवप्रियः, स चासौ ब्राआहृणश्चेति विग्रहः। पूर्ववदुत्तरपदलोपः। देवपूजको ब्राआहृण इति वा विग्रहः।