पूर्वम्: ६।३।१०७
अनन्तरम्: ६।३।१०९
 
सूत्रम्
पृषोदरादीनि यथोपदिष्टम्॥ ६।३।१०८
काशिका-वृत्तिः
पृषोदराऽदीनि यथोपदिष्टम् ६।३।१०९

पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्नविकाराः शास्त्रेण न विहिताः दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति। यानि यानि यथोपदिष्टानि, शष्टैरुच्चारितानि प्रयुक्तानि, तानि तथा एव अनुगन्तव्यानि। पृषदुदरं यस्य पृषोदरम्। पृषदुद्वानं यस्य पृषोद्वानम्। अत्र तकारलोपो भवति। वारिवाहकः बलाहकः। पूर्वशब्दस्य बशब्द आदेशः, उत्तरपदादेश्च लत्वम्। जीवनस्य मूतः जीमूतः। वनशब्दस्य लोपः। शवानां शयनम् श्मशानम्। शवशब्दस्य श्मादेशः, शयनशब्दस्य अपि शानशब्द आदेशः। ऊर्ध्वं खमस्य इति उलूखलम्। ऊर्ध्वखशब्दयोः उलू खल इत्येतावादेशौ भवतः। पिशिताशः पिशाचः। पिशिताशशब्दयोर् यथायोगं पिशाचशब्दौ आदेशौ। ब्रुवन्तो ऽस्यां सीदन्ति इति बृसी। सदेरधिकरणे डट् प्रत्ययः। ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति। मह्यां रौति इति मयूरः। रौतेरचि टिलोपः। महीशब्दस्य मयूभावः। एवमन्ये ऽपि अश्वत्थकपित्थप्रभृतयो यथायोगम् अनुगन्तव्याः। दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति। दक्षिणतीरम्, दक्षिणतारम्। उत्तरतीरम्, उत्तरतारम्। वाचो वादे डत्वं च लभावश्च उत्तरपदस्य इञि प्रत्यये भवति। वाचं वदति इति वाग्वादः। तस्यापत्यं वड्वालिः। षष उत्वं दतृदशधासूत्तरपदादेष्टुत्वं च भवति। षड् दन्ता अस्य षोडन्। षट् च दश च षोडश। धासु वा षष उत्वं भवत्युत्तरपदादेश्च ष्टुत्वम्। षोढा, षड्धा कुरु। बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः। इह मा भूत्, षट् दधाति धयति वा षड्धा इति। दुरो दाशनाशदभध्येषूत्वं वक्तव्यम् उत्तरपदादेश्च ष्टुत्वम्। कुच्छ्रेण दाश्यते नाश्यते दभ्यते च यः स दूडाशः। दूणाशः। दूडभ्यः। दम्भेः खल्बनुनासिकलोपो निपातनात्। दुष्टं ध्यायति इति दूढ्यः। दुःशब्दोपपदस्य ध्यायतेः आतश्चोपसर्गे ६।१।१३१ इति कप्रत्ययः। स्वरो रोहतौ छन्दस्युत्वं वक्तव्यम्। जाय एहि सुवो रोहाव। पीवोपवसनादीनां च लोपो वक्तव्यः। पीवोपवसनानाम्। पयोपवसनानाम्। वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्।
न्यासः
पृषोदरादीनि यथोपदिष्टम्?। , ६।३।१०८

"आदिशब्दः प्रकारवचनः" इति। यद्यत्रादिशब्दो व्यवस्थावचन आश्रीयेत, ततो, यान्येव गणे पठ()न्ते तेषामेव साधुत्वं स्यात्(), नान्येषाम्()। प्रकारवचन आदिशब्द आश्रीयमाणे सत्यपरिपठितानामपिमपि साधुभावो भवतीत्येतत्? सर्व चेतसि कृत्वाऽ‌ऽविशब्दोऽयं प्रकारवचन इति दर्शयन्नाह--"पृषोदरप्रकाराणि" इत्यादि। प्रकारः=सादृश्यम्()। अतस्तद्दर्शयितुमाह--"येषु" इत्यादि। यथा पृषोदरशब्दे लोपकार्यं शास्त्रेणाविहितं दृश्यते, तथान्यत्रापि लोपादिकार्यं शास्त्रेणाविहितं दृश्यते। तानि च पृषोदरप्रकाराणि भवन्ति। "यथोपदिष्टम्()" इति। "यथाऽसादृश्यते" २।१।७ इति वीपसायामव्ययीभावः। अत एवास्य विवरणं करोति--"यानि यान्युपदिष्टानि" इत्यादि। दिशिस्त्रोच्चारणक्रियः। उपदिष्टान्युच्चारितानीत्तयर्थः। कैः पुनरुपदिष्टानि? शिष्टैः। शिष्टाः पुनराचारनिवासादिना वेदितव्याः। "तानि तथैवानुमन्तव्यानि" इति। यथा तैः प्रयुक्तानि तथैव तानि साधुत्वेनानुमन्तव्यानीत्यर्थः। यदि शिष्टाः शब्देषु प्रमाणं तद किमनयाऽष्टाध्याय्या, शिष्टवचनादेव हि शब्दानां साधुत्वं विज्ञास्यते? उच्यते; शिष्टपरिज्ञानार्थाऽष्टाध्यायी। अष्टाध्यायीमधीयानोऽनधीताष्टाध्यायीकमपि येऽस्यामष्टाध्याय्यां विहिताः शब्दास्तान्? प्रयञ्जानं पश्यन्नेवमध्यवस्यति--शिष्टोऽयमिति, न चासावष्टाध्यायीमधीतवान्(), अथ च तस्यां ये व्युत्पादिताः शब्दास्तान्? प्रयुङ्क्ते, नूनमयमन्यानपि जानाति---इत्येषा शिष्टपरिज्ञानार्थाऽष्टाध्यायी। "एवमन्येऽपि" इत्यादि। कप्य()आमहीशब्देपूपपदेषु "सुपि स्थः" ३।२।४ इति तिष्ठतेः कप्रत्ययः। सकारस्य तकारः क्रियते। महीशब्दस्यापि ह्यस्वत्वम्()। "दक्षिणतारम्()" इति। षष्ठीसमासः। "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः" (वा।१०४) इति पुंवद्भावः। अथ वा--दक्षिणशब्दस्यायं तीरशब्देन षष्ठीसमासः। "वाचोवादे" इति। वाक्यशब्दस्य वादशब्द उत्तरपदे परतो डकारादेशो भवति। उत्तरपदस्य च वादशब्दस्य वल इत्ययमादेशो भवतीञि प्रत्यये परत इति। वाचं वदतीति "कर्मण्यण्()" ३।२।१--वाग्वाद, तस्यापत्यम्? " अत इञ्()" ४।१।९५ वाङ्वलिः। "षष उत्वम्()" इत्यादि। षष्शब्दस्योत्वं भवति दतृ, दश-इत्येतयोरुत्तरपदयोः, उत्तरपदादेः ष्टुत्वं च। षङ्? दन्ता यस्येति बहुव्रीहिः। "वयस दन्तस्य दतृ" ५।४।१४१ इति दत्रादेशः--षोडन्()। षट्? च दश चेति द्वन्द्वः--षोडश। "धासु वा" इति। उत्वत्यैवायं विकल्पः। ष्टुत्वं तु नित्यमेव भवति। "षोढा, षङ्धा" इति। "अधिकरणविचाले च" ५।३।४३ इति धाप्रत्ययः। अथ किमर्थं धास्विति बहुवचननिर्देशः क्रियते? इत्याह--"बहुवचननिर्देशः" इत्यादि। "षङ्धा" इति। धाञो धेटो वा स्त्रियां "आतोऽनुपसर्गे कः" ३।२।३ इति कप्रत्ययः। "दाश्यते" इतिष "दाश्रृ दाने" (धा।पा।८८२), नाश्यते" इति, "णश अदर्शने" (धा।पा।११९४), "दभ्यते" इति, "दम्भ ["दम्भु दम्भने" (१२७०) इति धातु पाठः] दम्भे--एतेभ्यः कर्मणि घञ्()। दुर्शशब्दस्य दाशशब्दादिभिः प्रादिसमासे--दूडाशः दूणाशः, दूडभः। "दम्भेरनुनासिकलोपः" इत्यादि। यदेतत्? "दाशनाशदभध्येषु" (काचवृ।६।३।१०९) इत्यत्र कृतानुनासिकलोपस्य दम्भेरुच्चारणं तन्निपातनम्(), तत एवात्र दम्भेरनुनासिलोपो भवति। पीद उपवसनं येषां ते "पीवोपवसनाः" एवं "पयोपवसनाः"। उभयत्र सकारलोपः। "वर्णागमः" इति। निरुक्तशास्त्रे ये शब्दा व्युत्पाद्यन्ते तेषां पूषोदरादित्वादेव साधुत्वमिष्यति इतीमं श्लोकमाह--"वर्णागमः" इत्यादि। अपूर्वस्य वर्णस्यागमो वर्णागमः--नकारादेरपूर्वस्य वर्णस्य प्राप्तिः, यथा--को जीर्यते कुञ्जर इति। अत्र कुशब्दसय नुगागमः क्रियते। वर्णविपर्ययः--वर्णस्थानव्यत्यासः, यथा "हिसि हिंसायाम्()" (धा।पा।१४५६), हिनस्तीति सिंह इत्यत्र पचाद्यचि कृते हकारसकारयोः स्थानव्यत्यासः। वर्णविकारः--वर्णस्य रूपान्तरापत्तिः, यथा--षोडन्निति। अत्र ,खारस्योत्वरूपापत्तिः। दकारस्य च डकाररूपापत्तिः। वर्णनाशः--वर्णस्य लोपः, यथा पृषोदर इति। अत्र तकारस्य लोपः। अर्थातिशयः=अर्थविशेषः, प्रसिद्धादर्थादर्थान्तरम्(), तेन धातोर्योगः=सम्बनधः, यथा मह्रां रोतीति मयूरः। अत्र रौते रमणेनार्थेनातिशयेन योगः। एतत्? पञ्चविधं पञ्चप्रकारं निरुक्तम्(), निश्चयेनोच्यतेऽर्थोऽनेनेति निरुक्तम्()॥
बाल-मनोरमा
पृषेदरादीनि यथोपदिष्टम् १०१९, ६।३।१०८

पृषोदरादीनि। आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्याऽदर्शनाद्यथोपदिष्टपदस्य वैयथ्र्याच्च। किंतु प्रकारवाची। तदाह--पृषोदरप्रकाराणीति। प्रकारः-सादृश्यं, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम्। व्याकरणशास्त्राऽगृहीतानीति यावत्। उपपूर्वको दिशिरुच्चारणार्थः। भावे क्तः। उपदिष्टमुपदेशः--उच्चारणं, तदनतिक्रम्य यथोपदिष्टम्। पदार्थानतिवृत्तावव्ययीभावः। शिष्टैरित्यध्याहार्यम्। तथा च फलितमाह--शिष्टैर्यथोच्चारितानीति। शिष्टास्तु शब्दतत्त्वसाक्षात्कारवन्तो योगिन इति। भाष्यकौयटयोः स्पष्टम्। तलोप इति। षष्ठीसमासे सुब्लुकि तलोपे "आद्गुणः" इति भावः। पूर्वपदस्येति। "वारिवाहक" शब्दे वारिशब्दस्य पूर्वपदस्य बकारः सर्वादेशः। वाहकशब्द उत्तरपदं, तदादेर्वकारस्य लकारादेश इत्यर्थः।

भवेद्वर्णागमाद्धंस इति। हसधातोः पचाद्यचि अनुस्वारागमे "हंस" इति रूपमित्यर्थः। हनधातोरचि सगागमे "नश्चाऽपदान्तस्ये"त्यनुस्वार इत्यन्ये। सिंहो वर्णविपर्ययादिति। "हिसि हिंसाया"मित्यतः पचाद्यचि इदित्त्वान्नुम्। "नश्चे"त्यनुस्वारः। हकारस्य सकारः, सकारस्य हकारश्च। सिंह इति रूपमित्यर्थः। यद्यपि हंससिहंयोरुणादौ व्युत्पत्तिरुक्ता तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः। गूढोत्मा वर्णविकृतेरिति। गूढ आत्मा यस्येति बहुव्रीहावुत्तरपदादेराकारस्य उकारे आद्गुणे रूपमिति भावः। वर्णनाशात्पृषोदरमिति। पृषत्-उजरमित्यत्र तकारलोपे सति आद्गुणे पृषोदरमिति भवतीत्यर्थः।

दिक्छब्देभ्यस्तीरस्येति। वार्तिकमिदम्।

दुरो दाशेति। इदमपि वार्तिकम्। दुरित्यस्य दाश, नाश, दभ, ध्य--इत्येतेषु परेषु इत्वम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यमित्यर्थऋ दूडाश इति। दुर्--दाश इति स्थिते रेफस्य उत्त्वे सवर्णदीर्घः। दाशेर्दकारस्य ष्टुत्वेन डकारः। दूणाश इति। दुर्-नाश इति स्थिते रेफस्य उत्व सवर्णदीर्घः। नाशेर्नकारस्य ष्टुत्वेन णत्वम्। दूडभ इति। दुर्-दभ इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः। दभेर्दकारस्य ष्टुत्वेन डकारः। खल्त्रिभ्य इति। "दाश्रृ दाने" "णश अदर्शने" ण्यन्तः, "दभ हिंसाया"मिति त्रिभ्यो धातुभ्यः "ईषद्दुस्सुषु" इति खल्प्रत्यय इत्यर्थः। ननु क्ङित्परकत्वाऽभावात्कथमिह "अनिदिता"मिति नलोप इत्यत आह--दम्भेर्नलोपो निपात्यत इति। दूढ() इति। दुर् ध्य इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम्। आतश्चेति। "ध्यै चिन्तायाम्" "आतश्चोपसर्गे" इति कप्रत्यये आदेच उपदेशे" इति आत्त्वे "आतो लोप इटि चे"त्याल्लोपे ध्यशब्द इत्यर्थः। सदेरिति। सद्धातोरधिकरणेऽर्थे डटि ङित्त्वसामथ्र्यादस्यापि टेर्लोपे स इति रूपम्। ब्राउवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रावच्छब्दस्य "बृ" इत्यादेशे बृसशब्दात् "टिड्ढे"ति ङीपि बृसीति रूपमिति भावः। "दिक्छब्देभ्य" इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनीत्यस्यैव प्रपञ्चः। आकृतिगणो।ञयमिति। पृषोदरादिरित्यर्थः। तेन कर्तुकामः, कर्तुमना इत्यादिसङ्ग्रहः।

तत्त्व-बोधिनी
पृषेदरादीनि यथोपदिष्टम् ८६०, ६।३।१०८

पृषोदर। प्रकाराणीति। आदिशब्दो हि न व्यवस्थावचनः, यथोपदिष्टपदानर्थक्यादिति भावः। शिष्टैरिति। अध्याहारलभ्यमिदम्। "यथोपदिष्ट"मित्यत्र यथार्थेऽव्ययीभावः। उपदिशिश्चोच्चारणक्रियः। "यानि यानि शिष्टैरुप दिष्टानि"इत्यर्थः। एवं स्थिते फलितमाह--यथोच्चारितानि तथैवेति। समासयदविषयकमिदम्, उत्तरपदाधिकारात्। निरुक्तादिशास्त्रसिद्धानामसमासपदानाम् "उणादयो बहुल"मित्येव सिद्धेश्च। यद्यपि समासविषयकमेवेति नियमो न युज्यते, हंससिंहशब्दयोरपि प्राचां कारिकायामुदाह्मतत्वात्, तथापि तत्करिकायां यथाशब्दाध्याहरेण दृष्टान्तप्रदर्शनार्थं तयोरुपन्यासः कृतो न तु प्रकृतसूत्रोदाहरणत्वेनेति नियमोक्तिः सम्यगेवेत्याहुः। वर्णागमादिति। हन्तेः पचाद्यचि सगागमः। विपर्ययादिति। हिंसेस्तु पचाद्यचि हकारसकारयोः स्थानव्यत्ययः।

दिक्शब्देभ्यस्तीरस्य तारभावो वा। दिक्शब्देभ्य इति। वार्तिकमिदम्। "दुरो दाशनाशे"त्यप्येवम्।

दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च। खल्त्रिभ्य इति। दाशनाशदभेति त्रयोऽपि "ईषद्दुःसुषु"इति खल्प्रत्ययान्ता इत्यर्थः। बृसीति। "मुनीनामासनं बृसो" आकृतिगणोऽयमिति। तेन"लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि। समो वा हितततयोर्मासस्य पचि युड्घञोः।" इत्यपि सङ्गृहीतम्। कृत्यान्ते उत्तरपदे अवश्यमः अन्तं पुमान्लुम्पेत्। अवश्यगन्तव्यः। अवश्यसेव्यः। तथा तुमः काममनसोः परतोऽ

न्तं लम्पेत्। गन्तुकामः। गन्तुमनाः। समो हितततयोरन्तं वा लुम्पेत्। हितः संहितः। सततः संततः। युट् घञ्च, एतत्परो यः पच्धातुस्तस्मिन्परे मांसस्याऽन्तं लुम्पेत्। मांस्पचनम्। मांस्पाकः। इह संयोगान्तलोपोऽपि शिष्टोच्चारणान्नेतचि बोध्यम्।