पूर्वम्: ६।३।१७
अनन्तरम्: ६।३।१९
 
सूत्रम्
नेन्सिद्धबध्नातिषु॥ ६।३।१८
काशिका-वृत्तिः
नैन्सिद्धबध्नातिषु च ६।३।१९

इन्नन्ते उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्याः अलुग् न भवति। स्थण्दिलवर्ती। सिद्ध साङ्काश्यसिद्धः। काम्पिल्यसिद्धः। बध्नाति चक्रबद्धः। चारबद्धः। सप्तमी इति योगविभागात् समासः। चक्रबन्धः इति केचिदुदाहरन्ति, तत् पचाद्यजन्तम् द्रष्टव्यम्। घञन्ते हि बन्धे च विभाषा ६।३।१२ इत्युक्तम्।
न्यासः
नोन्त्सिद्धबध्नातिषु च। , ६।३।१८

"तत्पुरुषे कृति बहुलम्()" ६।३।१३ इति प्राप्तस्यालुकोऽयं प्रतिषेधः। "इन्नन्त उत्तरपदे" इति। ननु च "उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नष्यते" (पु।प।२६) इति ज्ञापितमेतत्(), तत्कथमिह तदन्तमुत्तरपदं गृह्रते? सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्()। द्विविध एव हीन्प्रत्ययः--कृत्? तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्()। द्विविध एव हीन्प्रत्ययः--कृत्? तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परः सम्भवति। तद्धितोऽपि नैव कश्चित्? सप्तमीसमर्थादुत्पद्यत इत्यसावपि नैव सप्तम्याः परः सम्भवति। तस्मादिन्नन्तमेव गृह्रत युक्तमुक्तमेतत्()। "स्थण्डिलवत्र्ती" इति। "व्रते" ३।२।८० इति णिनिः; "उपपदमतिङ्" २।२।१९ इति समासः। "साङ्काश्यसिद्धः" इति। "सिद्धशुष्क" २।१।४० इत्यादिना समासः। "चक्रबद्धः" इति। बद्धशब्दो निष्ठान्तः, "सप्तमी" (२।१।४०) इति योगविभागात्? समासः। बन्धशब्देन "चक्रबन्धः" इति। "सिद्ध" २।१।४० इत्यादिना समासः। "तत्? पचाद्यचप्रत्ययान्तं द्रष्टव्यम्()" इति। अथ बन्ध इत्येतच्छब्दरूपं घञन्तं कस्मान्न गृह्रते? इत्याह "घञन्ते हि" इत्यादि॥
बाल-मनोरमा
नेन्सिद्धबध्नातिषु च ९६२, ६।३।१८

नेन्सिद्धबन्धानादिषु च। चक्रबद्ध इति। "साधनं कृते"ति क्तान्तेन सप्तम्यन्तस्य समासः।

तत्त्व-बोधिनी
नेन्सिद्धबन्धातिषु च ८८१, ६।३।१८

नेन्सिद्धब। चक्रबन्ध इति। तत्पुरुषे इत्यनुवृत्तेस्तत्पुरुष एवायं निषेधः। बहुव्रीहौ तु बन्धे च विभाषा इति विकल्प एव।

वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु। पश्यतोहर इति। पश्यन्तमनादृत्य हरतीत्यर्थः। षष्ठी चाऽनादरे इति षष्ठी।

देवानांप्रिय इति च मूर्खे। देवानामिति। मूर्खा हि देवानां प्रीतिं जनयन्ति देवपशुत्वादिति मनोरमा। अयं भावः-- ब्राहृआज्ञानरहितत्वात्संसारिणो मूर्खाः। ते तु यागादिकर्माण्युनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानाम्तयन्तं प्रीतिं जनयन्ति। बहृज्ञानिनस्तु न तथा, तेषां यागाद्यनुष्ठानाऽबावात्। अतो गवादिस्थानापन्नत्वान्मूर्खा एव देवपशव इति।

शेपपुच्छलाङ्गूलेषु शुनः। सेपपुच्छेति। शुन इव शेपमस्य शुनःशेपः। यद्यपि शेपस्शब्दः सकारान्तः, गौर्लिङ्गं चिह्नशेपसोः इत्यमरप्रोगात्, तथापि शीङ्गो निपातनादौणादिके पप्रत्यये अकारान्तोऽप्यस्त्येव। तथा च मन्त्र यस्याकमुशन्तः प्रहराम शेपमिति। चिह्नशेफसोः इति पाटे तु शेफशब्दस्य सकारान्तत्वशङ्कैव नास्तीति बोध्यम्। शुनः पुच्छ इत्यादावपि बहुव्रीहिः। त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः। मातुः पितुभ्र्यामिति सूत्रे समासेऽङ्गुलेः सङ्गः इत्यतः समास इत्यनुवर्तितम्, तत्फलं दर्शयति-- असमासे त्विति। वाक्ये वैकल्पिकमपि षत्वं नेत्यर्थः।

इत्यलुक्समासः तत्त्वबोधिन्याम्।