पूर्वम्: ६।३।६
अनन्तरम्: ६।३।८
 
सूत्रम्
वैयाकरणाख्यायां चतुर्थ्याः परस्य च॥ ६।३।७
काशिका-वृत्तिः
वैयाकरणाख्यायां चतुर्थ्याः ६।३।७

वैयाकरनानामाख्या वैयाकरणाख्या। आख्या संज्ञा। यया संज्ञया वैयाकरणा एव व्यहरन्ति तस्याम् आत्मनः उत्तरस्याश्चतुर्थ्या अलुग् भवति। आत्मनेपदम्। आत्मनेभषा। तदर्थ्ये चतुर्थी। चतुर्थी इति योगविभागात् समासः।
काशिका-वृत्तिः
परस्य च ६।३।८

परस्य च या चतुर्थी तस्य वैयाकरणाख्यायाम् अलुग् भवति। परस्मैपदम्। परस्मैभाषा।
न्यासः
वैयाकरणाख्यायां चतुर्थ्याः। , ६।३।७

"वैयाकरणानाम्()" इति। व्याकरणमधीयते विदन्ति वा वैयाकरणा। का पुनर्वैयाकरणानामाख्येत्याह--"यया" इत्यादि। अथैवं कस्मान्न व्याख्यायते--व्याकरणे भवा वैयाकरणी, "अणुगयनादिभ्यः" ४।३।७३ इत्यण्(), वैयाकरणी चासावाख्या चेति वैयाकरणाख्या "पुंवत्? कर्मदारय" ६।३।४१ इत्यादिना पुंवद्भवः, तस्यां वैयाकरणाख्यायामिति? अशक्यमेवं व्याख्यातुम्(), इह हि न स्यात्()--आत्मनेभाषः, परस्मैभाष इति। व्याकरणे हि का भाषा? या व्याकरणे कृता। न चैते क्वचित्? व्याकरणे कृते। पूर्वत्र व्याख्याने सतीहापि भवति, एते अपि वैयाकरणानामाख्ये, तथा ह्राभ्यामपि वैयाकरणा व्यवहरन्त्येव। "आत्मनेपदम्()" इति। आत्मार्थ पदम्()। तादर्थ्ये "चतुर्थी" (२।१।३६) इति योगविभागात्? समासः। ननु "चतुर्थी तदर्थ" (२।१।३६) इत्येवं समासः सिद्धः? न सिध्यति; प्रकृतिविकारभावे हि स इष्यते॥
न्यासः
परस्य च। , ६।३।७

बाल-मनोरमा
वैयाकरणाख्याया चतुर्थ्याः ९४९, ६।३।७

वैयकरणाख्यायाम्। आत्मन इत्येवेति। अनुवर्तत एवेत्यर्थः। न च "आत्मनश्चे"त्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुवृत्तिरिति वाच्यं, "सोऽपदादौ" इति सूत्रे पठितस्य "काम्ये रोरेवेति वाच्य"मिति वार्तिकस्य "इणः षः" इति सूत्रेऽनुवृत्तिवदुपपत्तेः। व्याकरणे भवा वैयाकरणी, सा चासावाख्या च वैयाकरणाख्या, तस्यां या चतुर्थी तस्या अलुगित्यर्थः। आत्मनेभाषे इति। पूर्वाचार्यकृतमात्मनेपदस्य संज्ञान्तरमिदं धातुपाठे प्रसिद्धम्। तादर्थ्ये चतुर्थीति। तथा चात्मने इत्यस्याऽ‌ऽत्मार्थमित्यर्थः। आत्मगामिनि फले प्रायेण तद्विधानादिति भावः। ननु प्रकृतिविकाराऽभावात्कथमिह तादर्थ्ये चतुर्थ्याः समास इत्यत आह--चतुर्थीति योगविभागादिति। पस्पासाह्निकभाष्ये "धर्माय नियमो धर्मनियम" इति भाष्यमिह लिङ्गन्।

बाल-मनोरमा
परस्य च ९५०, ६।३।७

परस्य च। वैयकरणाख्यायां परशब्दस्यापि चतुथ्र्या अलुगित्यर्थः।

तत्त्व-बोधिनी
वैयाकरणाख्यायां चतुर्थ्याः ८२०, ६।३।७

वैयाकरणा। व्याकरणे भवा वैयाकरणी। अणृगयनादिभ्यः इत्यण्। सा चासावाख्या चेति कर्मधारयः। आत्मन इत्येवेति। इह आत्मनः इत्यननुवत्र्य वैयाकरणाख्यायां चतुथ्र्या अलुगिति व्याख्याने तु परसय् चेत्युत्तरसूत्रं त्युक्तं शक्यमित्याहुः। आत्मनेभाषा इति। यद्यपीयमाख्या अष्टाध्यायां नास्ति, तथापि धातुपाठेऽस्तीति भावः। प्रकृतिविकृतिभावविरहात् रन्धनाय स्थालीतिवत्समासाऽभावमाशङ्क्याह-- योगविभागादिति। इहाऽलुग्विधिसामथ्र्यादपि समासः सुवचः।

तत्त्व-बोधिनी
परस्य च ८२१, ६।३।७

परस्य च। परशब्दस्य च या चतुर्थी तस्या अलुक् स्याद्वैयाकरणाख्यायाम्।