पूर्वम्: ६।४।१५४
अनन्तरम्: ६।४।१५६
 
सूत्रम्
टेः॥ ६।४।१५५
काशिका-वृत्तिः
टेः ६।४।१५५

भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः। पटु पटिष्ठः। पटिमा। पटीयान्। लघु लघिष्ठः। लघिमा। लघीयान्। णाविष्ठवत् प्रातिपदिकस्य कार्यं भवति इति वक्तव्यम् किं प्रयोजनम्? पुंवद्भावरभावटिलोपयणादि। परार्थम्। पुंवद्भावः एनीमाचष्टे एतयति। श्येतयति। तसिलादिष्वाकृत्वसुचः ६।३।३४ इति इष्ठे पुंवद्भावः उक्तः। रभावः पृथुमाचष्टे प्रथयति। म्रदयति। टिलोपः पटुनाचष्टे पटयति। लघयति। यणादिपरम् स्थूलमाचष्टे स्थवयति। भारद्वाजीयास्तु पठन्ति, णाविष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरविन्मतोर्लुक्कनर्थम् इति। स्रग्विणमाचष्टे स्रजयति। वसुमन्तमाचष्टे वसयति। युवानमाचष्टे यवयति। कन्यति। एतदुभयम् अपि उदाहरणमात्रम्, न परिगणनम्। प्रादयो ऽपि हीष्यन्ते, प्रियमाचष्टे प्रापयति।
लघु-सिद्धान्त-कौमुदी
टेः ११६०, ६।४।१५५

भस्य टेर्लोप इष्ठेमेयस्सु। पृथोर्भावः प्रथिमा -।
न्यासः
टेः। , ६।४।१५५

"णाविष्ठवत्()" इति। "तसिलादिष्वा कृत्वसुचः" ६।३।३४ इष्ठनि पुंवद्भाव उक्तः, "र ऋतो हलादेर्लघोः" ६।४।१६१ इति रभावः, "टेः" इति टिलोपः, "स्थूलदूरयुवह्यस्व" ६।४।१५६ इत्यादिना यणादिपरस्य लोपः, पूर्वस्य च गुणः, "विन्मतोर्लुक्()" ५।३।६५ इति लुक्(), "युवाल्पयोः कनन्यतरस्याम्()" ५।३।६४ इति कन्()। "प्रियस्थिर" ६।४।१५७ इत्यादिना प्रादय आदेशाः--एतानि कार्याणि यथेष्ठनि भवन्ति, तथा णावपि यथा स्युरिति णाविष्ठवत्? प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम्()। प्रातिपदिकग्रहणं शक्यमकर्त्तुम्(), अन्यस्यातिदेशस्यासम्भवात्()। वतिरिह सादृश्यार्थः, तेन यस्येष्ठनि यत्कार्यं विवक्षितं ततोऽन्यस्यातिदेशस्यासम्भवात्? तद्व्यवच्छेदार्थ प्रातिपदिकग्रहणं न कत्र्तव्यम्()। तत्? क्रियते विसपष्टार्थम्()। केचित्तु ब्राउवते प्रत्ययस्य कार्याणामतिदेशो मा भूदित्येवमर्थं प्रातिपदिकग्रहणं न कत्र्तव्यम्()। तत्? क्रियते विस्पष्टार्थम्()। केचित्तु ब्राउवते प्रत्ययस्य कार्याणामतिदेशो मा भूदित्येवमर्थं प्रातिपदिकग्रहण्(), तेन बहुमाचष्टे बहयतत्यत्र "इष्ठस्य यिट्? च" (६।४।१५८) इति यिण्ण भवति? एतच्चायुक्तम्(); इष्ठवदित्यत्र हि सप्तमी समर्थाद्वतिर्दिहितः, णादिति प्रतियोगिनि सपतमीश्रवणात्()। तेनेष्ठनि यत्कार्यं विहितं तदतिदिश्यते, न त्विष्ठस्य यत्कार्यं तदपि। न च यिङ्? इष्ठनि यत्? कार्यम्(), अपि त्विष्ठन एव। तस्यैह प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन प्रातिपदिकग्रहणेन! "एनीम्()" इति। एतच्छब्दात्? "वर्णादनुदात्तात्तोपधात्()" ४।१।३९ इत्यादिना ङीष्(), तकारस्य च नकारः। "एतयति" इति। णौ कृते पुंवद्भावेन ङीष्नकारावुभावपि निवत्र्तेते। ननु च ङीषा व्यवहितोऽत्र णिरिति णावतिदेशः क्रियमाणस्तद्व्यवधाने न प्राप्नोतीति? नैष दोषः; इष्ठन्यपि हि ङोपा व्यवधानएव प्रातिपदकस्य पुंवद्भावः। तस्मादिहापि व्यवधानेऽपि तद्वदेव भविष्यति। "रुआग्विणम्()" इति। "अस्मायामेधारुआजो विनिः" ५।२।१२० इति विनिः। रुआजयतीत्यत्र "संज्ञापूर्वको विधिरनित्यः" (व्या।प।६४) इति "अत उपधायाः" ७।२।११६ इति वृद्धिर्न भवति। "अह्गवृत्ते पुनरङ्गवृत्तावविधिर्निष्ठितस्य" (व्या।प।३८) इति वपा। प्रापयतीत्येवमादौ भवत्येवानिष्ठितत्वात्()। अत्र "अर्त्तिह्रो" ७।३।३६ इत्यादिना पुक्()। ननु भारद्वाजीयपाठे प्रादयो न सिद्ध्यन्ति; अपि तु रुआजयति वसयतीति लुक्(), कनयतीत्यत्र च कन्नित्यत आह--"तदेतदुभयमप्युदाहरणमात्रम्()" इत्यादि। तदेतद्भावद्वाजीयपाठे अन्येषाञ्च प्रयोजनमुपदर्शितम्(), न त्वेतदुदाहरणमात्रपरिगणनम्()। एतावदेव प्रयोजनमिति यस्मात्? प्रादयोऽपीष्यन्ते। ननु "प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (धा।पा।ग।सू।१८६) इति चुरादिगण एव पठ()ते, तत्? कस्मात्? पुनरिह णाविष्ठवद्भाव उच्यते? अस्यैव प्रपञ्चार्थमित्येके। गणे वा स वक्तव्यः। "असौ इतरः" इति विकल्पप्रदर्शनार्थमित्यन्ये॥
बाल-मनोरमा
टेः १७६३, ६।४।१५५

टेः। "इष्ठेमेयस्सु" इत्यनुवर्तते। "अल्लोपोऽनः" इत्यतो लोप इति च। तदाह--टेर्लोपः स्यादिष्ठेमेयस्स्विति। प्रथिमेति। पृथुशब्दादिमनिच्। चकार इत्। नकारादकार उच्चारणार्थः। ऋकारस्य रः, उकारस्य गुणं बाधित्वा टेर्लोपः। पार्थवमिति। इमनिजभावे "इगन्ताच्च लघुपूर्वा"दित्यण्। म्रदिमेति। मृदुशब्दादिमनिचि ऋकारस्य रः। "टेः" इति टिलोपश्च। मार्दवमिति। "इगन्ताच्चे"त्यण्।