पूर्वम्: ६।४।१६९
अनन्तरम्: ६।४।१७१
 
सूत्रम्
न मपूर्वोऽपत्येऽवर्मणः॥ ६।४।१७०
काशिका-वृत्तिः
न मपूर्वो ऽपत्ये ऽवर्मणः ६।४।१७०

मपूर्वः अनवर्मणो ऽणि परतो ऽपत्ये ऽर्थे न प्रकृत्या भवति। सुषाम्णो ऽपत्यं सौषामः। चान्द्रसामः। मपूर्वः इति किम्? सौत्वनः। अपत्ये इति किम्? चर्मणा परिवृतो रथः चार्मणः। अवर्मनः इति किम्? चक्रवर्मणो ऽपत्यं चाक्रवर्मणः। मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम्। हितनाम्नो ऽपत्यं हैतनामः, हैतनामनः।
न्यासः
न मपूर्वोऽपत्येऽवर्मणः। , ६।४।१७०

"चार्मणः" इति। "परिवृत्तो रथः" ४।२।९ इत्यर्थे "प्राग्दीव्यतोऽण्()" ४।१।८३ "वा हितनाम्न इति वक्तव्यम्" इति। हितनामशब्दस्य व प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्य्रथः। तत्रेदं व्याख्यानम्()--इहापि तदेव विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेन हितनाम्नो वा प्रतिषेधो भविष्यति॥
बाल-मनोरमा
न मपूर्वोऽपत्येऽवर्मणः ११४१, ६।४।१७०

न मपूर्वो।ञपत्येऽवर्मणः। भाद्रसाम इति। भद्रसाम्नो।ञपत्यमिति विग्रहः। अणि टिलोपः। अनो मपूर्वत्वान्न प्रकृतिभावः। सौत्वन इति। सुत्वनोऽपत्यमिति विग्रहः। मपूर्वत्वाऽभावात्प्रकृतिभावः। चार्मण इति। "परिवृतो रथः" इत्यणि टिलोपः। अण आपत्यत्वाऽभावात्प्रकृतिभावः।

वा हितनाम्न इति। "न मपूर्वः" इति प्रतिषेध"इति शेषः।