पूर्वम्: ६।४।१७४
अनन्तरम्: ७।१।१
 
सूत्रम्
ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि॥ ६।४।१७५
काशिका-वृत्तिः
ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ६।४।१७५

ऋत्व्य वास्त्व्य वास्त्व माध्वी हिरण्यय इत्येतानि निपात्यन्ते छन्दसि विषये। ऋतु वास्तु इत्येतयोः यति यणदेशो निपात्यते। ऋतौ भवं ऋत्व्यम्। वास्तौ भवं वास्त्व्यम्। वस्तुशब्दस्य अणि यणादेशो निपात्यते। वस्तुनि भवः वास्त्वः। मधुशब्दस्य अणि स्त्रियां यणादेशो निपात्यते। माध्वीर्नः सन्त्वोषधीः। हिरण्यशब्दाद् विहितस्य मयटो मशब्दस्य लोपो निपात्यते। हिरण्ययम्। इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य चतुर्थः पादः। सप्तमाध्यायः प्रथमः पादः।
न्यासः
ऋत्व्यवास्त्वास्त्व्यमाध्वीहिरण्ययानि च्छन्दसि। , ६।४।१७५

"ऋत्व्यम्(), वास्त्व्यम्()" इति। "भवे छन्दसि" ४।४।१०९ इति यत्()। "वास्त्वम्()" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। एवं "माध्वी" इत्यत्रापि। "हिरण्ययः" इति। पूर्ववन्मयट्()॥ इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरहणपञ्जिकायां षष्ठाध्यायस्य चतुर्थः पादः॥ श्रीबोधिसत्त्वदेशीयाचार्थजिनेन्द्रबुद्धिपादविरचिता न्यासापरपर्याया काशिकाविवरणपञ्जिकाख्या काशिकाव्याख्या - - - सप्तमोऽध्यायः प्रथमः पादः