पूर्वम्: ६।४।३०
अनन्तरम्: ६।४।३२
 
सूत्रम्
क्त्वि स्कन्दिस्यन्दोः॥ ६।४।३१
काशिका-वृत्तिः
क्त्वि स्कन्दिस्यन्दोः ६।४।३१

क्त्वाप्रयये परतः स्कन्द स्यन्द इत्येतयोर् नकारलोपो न भवति। स्कन्त्वा। स्यन्त्वा। स्यन्देरूदित्वात् पक्षे इडागमः। स्यन्दित्वा। तत्र यदा इडागमः तदा न क्त्वा सेट् १।२।१८ इति कित्त्वप्रतिषेधादेव नलोपाभावः।
न्यासः
क्त्वि स्कन्दिस्यन्दोः। , ६।४।३१

"स्कन्त्वा" इति। "स्कन्दिर गतिशोषणयोः" (धा।प।९७९) "पक्षे इडागमः" इति। "स्वरति" ७।२।४४ इत्यादिना। "कित्त्वप्रतिषेधान्नलोपभावः" इति। "अनिदिताम्()" ६।४।२४ इत्यादिना हि क्ङिति नलोपो विधीयते। सेट्क्त्वाप्रत्ययस्य "न क्त्वा सेट्()" १।२।१८ इति कित्त्वप्रतिषेधः कृतः, ततश्चेडागमपक्षे कित्त्वाभावादेव नलोपाभाव इति नासाविमं योगं प्रयोजयति। तेन न सेट्क्त्वापरत्ययस्योदाहरणं प्रदर्शितमित्यभिप्रायः॥
तत्त्व-बोधिनी
क्त्वि स्कन्दिस्यन्दोः १५९०, ६।४।३१

क्त्वि स्कन्दि। स्कन्दिर्गतिशोषणयोः। "इर इत्संज्ञेट ति वार्तिककादिकारमात्रस्येत्संज्ञा नेति "अनिदिता"मिति पर्युदासोऽत्र न प्रवर्तत इति स्कन्दिग्रहणम्। स्कन्त्वेति। "एकाच" इति नेट्।