पूर्वम्: १।२।१७
अनन्तरम्: १।२।१९
 
प्रथमावृत्तिः

सूत्रम्॥ न क्त्वा सेट्॥ १।२।१८

पदच्छेदः॥ २६ क्त्वा १।१ सेट् १।१ २६ कित् १।१

समासः॥

सह इटा सेट्, {तेन सहेति॰ (२।२।२८)} इति बहुव्रीहिसमासः।

अर्थः॥

सेट् क्त्वाप्रत्ययः कित् न भवति।

उदाहरणम्॥

देवित्वा, वर्त्तित्वा, वर्धित्वा।
काशिका-वृत्तिः
न क्त्वा सैट् १।२।१८

क्त्वा प्रत्ययः सेण् न किद् भवति। देवित्वा। वर्तित्वा। सेटिति किम्? इऋत्वा ऽ गुत्वा ऽ क्त्वाग्रहणं किम्? निगृहीतिः। उपस्निहितिः। निकुचितिः। न सेडिति कृते ऽकित्त्वे निष्ठायाम् अवधारणात्। ज्ञापकान्न प्रोक्षायां सनि झल्ग्रहणं विदुः। इत्त्वं कित्वंनिहोगेन रेण तुल्यं सुधीवनि। वस्वर्थं किदतीदेशान्नि गृहीतिः प्रयोजनम्।
लघु-सिद्धान्त-कौमुदी
न क्त्वा सेट् ८८३, १।२।१८

सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम्? कृत्वा॥
न्यासः
न क्त्वा सेट्। , १।२।१८

क्त्वाप्रत्ययस्यौपवेशिकं कित्त्वमस्त्येवेति तदिटः क्त्वाप्रत्ययेन ग्रहणात् सेटोऽपि प्राप्नोतीत्यतः प्रतिषेधऽयमारभ्यते। "क्त्वाप्रत्ययः सेट् किन्न भवति" इति। अथ किं ककारस्येत्संज्ञाप्रतिषेधात् कित्त्वन्न भवति? कित्कार्यस्य प्रतिषेधाद्वा? यदि ह्रत्र ककारस्येत्संज्ञाप्रतिषेधादकित्त्वं विधित्सितं स्यादित्संज्ञाप्रकरणे "लशक्वसेट्क्त्वातद्धितयोः" इति सूत्रं कुर्यात्। एवं हि द्विष्प्रतिषेधो न कत्र्तव्यो भवति। तस्मात् कित्त्वप्रतिबद्धं यत् कार्यं तत्प्रतिषेधादकित्त्वं सेटः क्त्वाप्रत्यस्यानेन क्रियते, न तु ककारस्येत्संज्ञाप्रतिषेधात्। अथ सानुबन्धकस्य ग्रहणं किमर्थम् "न त्वा" इत्येवोच्येत,एवं हि लघु सूत्रं भवति? नैतदस्ति; ककारानुच्चारणे हि कश्चिद्द्वेष्यमपि विजानीयात्। सेटः क्त्वाप्रत्ययस्य ककारानुबन्ध एव नास्ति, निरनुबन्धकस्योच्चारणादिति। तदेवं मा विज्ञायीति सानुबन्धकस्योच्चारणम्।कः पुनः सेटो निरनुबन्धकत्वे विधौ निरनुबन्धक उच्चार्यते? एवमपि सेट एव ग्रहणं स्यात्, नानिटः;सानुबन्धकत्वात्। "निगृहीतिः"इति। "स्त्रियां क्तिन्" ३।३।९४ "तितुत्रतथ" (७।२।९) इति "ग्रहादीनां प्रतिषेधो वक्तव्यः (वा।८३१।?) इति तितुत्रतथेत्यादिनेट्प्रतिषेधो न भवति।"उपस्निहितिः" इति। "स्निह प्रीतौ" (धा।पा।१२००),"निकुचितिः" इति। "कुन्चु क्रुन्चु कौटिल्याल्पीभावयोः"(धा।प।१८५,१८६) एषु त्रिषूदाहरणेषु यथाक्रमं संप्रसारणगुणप्रतिषेधौ। "अनिदितां हल उपधायाः क्ङिति" ६।४।२४ इत्यनुनासिकलोपश्च कित्त्वाद्भवति। "न सेट्" इत्यादि। न सेडित्येतावता योगेनाकित्त्वे सति सिद्धं देवित्वेत्यादि,क्त्वाग्रहणं तु किमर्थम्, तेन विनाऽकित्त्वे सति "गुध परिवेष्टने" (धा।पा।११२०) निगुधितो निगुधितो निगुधितवानित्यत्र निष्ठायां प्राप्नोतीति चेत्? नैतदस्ति; निष्ठायामवधारणात्। "निष्ठा शीङस्विदिमिदि" १।२।१९ इत्यत्रावधारणान्निष्ठायां न भविष्यति-- शीङादिभ्य एव निष्ठा सेट् किन्न भवति नान्येभ्यो धातुभ्य इति। शीङादिभ्यो निष्ठैवेति विपरीत नियमस्तु नाशङ्कनीयः, न ह्रनिष्टार्था शास्त्रे प्रक्लृप्तिरिति न भविष्यति। लिटस्तर्हि कित्त्वस्य प्रतिषेधः स्यात्, ततश्च जग्मिव,जग्मित्येतत्र "गमहन" ६।४।९८ इत्यादिनोपधालोपो न स्यादित्यत आह-- "ज्ञापकान्न परोक्षायाम्" इति। परोक्षे विहितत्तवाल्लिटः श्रुतिः परोक्षेत्युच्यते, तस्यां कित्त्वप्रतिषेधो न भविष्यति। कथम्? ज्ञापकात्। किं तज्ज्ञापकम्? इत्याह-- "सनि झल्ग्रहणं विदुः" इति। यदयम् "इको झल्" १।२।९ इति सन्()विशेषणं करोति,ततो ज्ञायते-- औपदेशिकस्य कित्त्वस्यन सेडिति प्रतिषेधोऽयम् नातिदेशिकस्येति। झल्ग्रहणं हिशिशयिषत इत्यत्र कित्त्वं मा भूदित्येवमर्थः क्रियते। यदि च न सेडिति प्रतिष#एधः आतिदेशिकस्यापि कित्त्वस्य स्यात्; झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, तस्य न सेडिति प्रतिषेधो भविष्यतीति तस्मादौदेशिकस्य कित्त्वस्य प्रतिषेधोऽयं नातिदेशिकस्येति। अस्यार्थस्य ज्ञापकं झल्ग्रहणं स्यात्, "स्थाध्वोरिच्च" १।२।१७ इत्यत्र झलादौ सिचीत्वं यथा स्यात्, अजादौ मा भूदिति-- उपास्थायिषातामिति। अत्र हि "स्यसिच्सीयुट्तासिषु" ६।४।६२ इत्यादिना चिष्वद्भावः प्राप्नोति, इत्त्वञ्च; तत्र परत्वाच्चिण्वद्भावादिट्। चिण्वद्भावे सति "आतो युक् चिण्कृतोः" ७।३।३३ इति युक्; तत्रासति झल्ग्रहण इडादावपीत्त्वं यकारस्थाने प्राप्नोति, नैतदस्ति; यस्मादित्त्वं कित्सन्नियोगेन विधीयते। कित्त्वं हि प्रधानभूतम्, इत्त्वमन्वाचयशिष्टम्। अतः कित्त्वाभावे तदित्त्वं न भविष्यतीति। अथ "स्थाध्वोरिच्च" (१।२।१७) इत्यत्रापि कित्त्वं कस्मान्न भवति? "न सेट्" इत्येतावता योगेन प्रतिषिद्धत्वात्। "रेण तुल्यं सुधीवनि" इति। रेफेण तुल्यमेतदित्त्वम्। क्व चोदाहरणे? सुधीवनीत्यत्र। शोभना धीवानो यस्यां सा सुधीवा। "अनो बहुव्रीहेः" ४।१।१२ इति ङीपोऽत्र प्रतिषेधे कृते यथा "वनो र च" ४।१।७ इति रेफो ङीप्सन्नियोगेन विधीयमानस्तदभावे न भवति, तथा कित्तवसन्नियोगेन विधायमानमित्त्वं तदभावे न भविष्यति। किमर्थं तर्हि क्त्वाग्रहणम्? क्वसौ कित्त्वप्रतिषेधो मा भूदित्येवमर्थं क्त्वाग्रहणं कत्र्तव्यम्। क्वसौ त्वौपदेशिकं कित्त्वमस्ति, तस्य "न सेट्" इत्येतावता योगेन प्रतिषेधः स्यात्। ततश्च जग्मिवान्-- इत्यत्रोपधालोपो न स्यात्। "वस्वर्थं किदतीदेशात्" इति। न भविष्यतीत्यध्याहार्यम्। अस्तु क्वसावौपदेशिकस्य कित्त्वस्य प्रतिषेधः, सत्यपि तस्मिन् "असंयोगाल्लिट् कित्" १।२।५ इति यदातिदेशिकं कित्त्वम्, तेनोपधालोपो भविष्यति। झल्ग्ररहणादातिदेशिकस्य कित्त्वस्य प्रतिषेधो न भविष्यतीत्युक्तं ह्रेतत्। तस्माद्वस्वर्थं क्त्वाग्रहणं न भविष्यतीति। एवं तर्हि-- निगृहीतिः प्रयोजनम्। क्तिनि तु प्रतिषेधो मा भूदित्येवमर्थं क्त्वाग्रहणमित्यर्थः। जग्मिवानित्यत्र "विभाषा गमहनविदविशाम्" ७।२।६८ इति क्वसोरिट्, "उगिदचाम्" ७।१।७० इति नुम्, हलङ्यादिसंयोगान्तलोपौ (५।१।६८; ८।२।२३) "सान्तमहतः" ६।४।१० इत्यादिना दीर्घः।