पूर्वपरावरेति--गणान्तर्गतं सूत्रम्। "व्यवस्थायामसंज्ञायां च पूर्वादीनि सप्त सर्वादिगणप्रविष्टानि वेदितव्यानी"त्यर्थः। सर्वनामसंज्ञा तु "सर्वादीनि सर्वनामानी"त्येव सिध्यति।
"स्वमज्ञाती"ति "अन्तरं बहि"रिति च गणसूत्रद्वयमेवमेव योज्यम्। व्यवस्थादिशब्दा अग्ने मूल एव व्याख्यास्यन्ते। इतिशब्दः--सर्वादिगणसमाप्ति-द्योतनार्थः। तत्र वि()आशब्दोऽपि सर्वशब्दवदेव। उभशब्दे तु विशेषमाह--तत्रेति। सर्वादिषु मध्य इत्यर्थः। अत एवेति। द्वित्विशिष्टवाचकत्वादेवेत्यर्थः। नित्यमिति। सर्वदा द्विवचनान्त एव नत्वेकवचनबहुवचने इति यावत्। तेन टाबादि न निवार्यते। नन्वेवं सति "जसः शीः" "सर्वनाम्नः स्मै" "ङसिङ्योः स्मात्स्मिनौ" "आमिसर्वनाम्नः सुट्" इत्युक्तानां सर्वनामकार्याणां द्विवचनेऽभावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इत्यत आह--तस्येहेति। तस्य=उभशब्दस्य, इह=सर्वादिगणे, पाठस्तु उभकावित्यत्र "अव्ययसर्वनाम्नामकच्प्राक्टेः" इत्यकच्प्रत्ययार्थ इत्यर्थः। ननु मास्तूभशब्दस्य सर्वादिगणे पाठो, मास्तु च सर्वनामता, मास्तु च तत्प्रयुक्तोऽकच्। उभशब्दात्स्वार्थिके कप्रत्यये सत्यपि उभकाविति रूपसिद्धेः। न च काकचोः स्वरभेदः शह्क्यः। "तद्धितस्य" इति प्रत्ययस्वरेण वा, "चितः सप्रकृतेः" इति चित्स्वरेण वाऽन्तोदात्तत्वे विशेषाऽभावात्। उक्तं च भाष्ये--"काकचोः" को विशेषः?" इति। तत्राह--नचेति। कप्रत्ययेन उभकावितीष्टरूपसिद्धिर्नचेत्यन्वयः। कुत इत्यत आह--द्विवचनेति। द्विवचनपरत्वाऽभावे उभशब्दादयच् विहितः। अकचि तु सति "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते" इति न्यायेन उभशब्देनोभकशब्दोऽपि गृह्रते। तस्य च"उभक-औ इत्यस्यां दशायां द्विवचनपरत्वादयच्प्रत्ययो न भवति। कप्रत्यये तु सति तस्य उभशब्दात्परतो विहितत्वेन तन्मध्यपतितन्याया।ञप्रवृत्त्या उभकशब्दस्योभशब्देन ग्रहणाऽभावादुभशब्दस्य कप्रत्ययव्यवधानेन द्विवचनपरकत्वाऽभावादयचि उभयकौ इति स्यात्। यथा "उभयत" "उभयत्रे"त्यत्र द्विवचनपरकत्वाऽभावादयच्प्रत्ययो।ञस्ति तद्व दित्यर्थः। द्विवचने सति अयच्प्रत्ययो नेति यदभिहितं तत् "उभयोऽन्यत्रे"ति वदता वार्तिककृता उक्तमित्यर्थः। अन्यत्रेत्येततद्व्याचष्टे-अन्यत्र द्विवचनपरत्वाभावे इति। उदाह्मतवार्तिके अन्यत्रेत्यनेन द्विवचनादन्यस्मिन् परे इत्यर्थो विवक्षितः, "अन्याभावो द्विवचनटाब्विषयत्वा"दिति पूर्ववार्तिके द्विवचनस्यैव प्रस्तुतत्वादिति भावः। टाब्ग्रहणं तु तत्राविवक्षितमिति कैयटादिषु स्पष्टम्। ततश्च सर्वनामतानिमित्तकाऽकजर्थ उभशब्दस्य सर्वादिषु पाठ इति स्थितम्। अत्र यद्वक्तव्यं तत्तद्धितप्रक्रियायाम् "उभादुदात्तो नित्य"मित्यत्र वक्ष्यते। अथोभयशब्दे विशेषमाह--उभयशब्दस्येति। उभौ अवयवौ यस्यावयविनः स उभयो मणैः। "उभादुदात्तः" इत्ययच्। अवयववृत्तेः सङ्ख्यावाचिन उभशब्दादवयविन्यर्थेऽयच्प्रत्ययः स्या"दिति तदर्थः। व्द्यवयवारब्धो मणिरित्यर्थः। मणेरवयविन एकत्वादुभय इत्येकवचनं उभयश्च उभयश्च उभयश्चेत्येवं द्व्यवयवारब्धद्विमणिविवक्षायामुभयौ मणी इति द्विवचनं तु न भवति, "उभयोऽन्यत्रे"त्युदाह्मतवार्तिके उभयशब्दस्य द्विवचनान्तादन्यत्रैव प्रयोगविध्यवगमात्। नच तत्र वार्तिके स्वार्थिकायजन्तस्यैवोभयशब्दस्य ग्रहणं, स्वार्थिकायजन्तोभशब्दोपक्रमेणैव तद्वार्तिकप्रवृत्तेरिति वाच्यम्, एतद्वार्तिकव्याख्यावसरे "उभयो मणिः", "उभये देवमनुष्याः" इति भाष्ये उदाह्मतत्वेन तयप्समानार्थकायजन्तस्यापि तत्र ग्रहणावगमात्। एतदेवाभिप्रेत्य "तद्धितश्चासर्वविभक्ति"रित्यव्ययत्वमुभयशब्दस्य द्विवचनाभावेनाऽसर्वविभक्तित्वेऽपि न भवति, "तसिलादयः प्राक्पाशपः", "शस्प्रभृतयः प्राक् समासान्तेभ्य," "अम्", "आम्" "कृत्वोऽर्थाः", "तसिवती," नानाञा"विति परिगणितत्वादिति कैयटेनोक्तम्। तदाह--कैयट इति। एवंच--उभयः उभये। उभयम्, उभयान्। उभयेन, उभयैः। उभयस्मै, उभयेभ्यः। उभयस्मात्, उभयेभ्यः। उभयस्य, उभयेषाम्। उभयस्मिन्ुभयेषु इत्येव रूपाणि। नतूभयावित्यादिद्विवचनान्तप्रयोग इति सिद्धं भवति। हरदत्त इत्यस्वरसोद्भावनम्। तद्बीजं तूभयोऽन्यत्रेति प्रागुक्तवार्तिकभाष्यविरोध एवेत्यन्यत्र विस्तरः। उभयशब्दाज्जसि सर्वादीनीति नित्यां सर्वनामसंज्ञां बाधित्वा परत्वात् "प्रथमचरमतयाल्पार्धकतिपयनेमाश्च" इति सर्वनामसंज्ञाविकल्पप्राप्तिमाशङ्क्य परिहरति--तस्मादित्यादिना। तस्मात्ुभेयशब्दात्, जसि सति प्रथमचरमेति विकल्पे प्राप्ते नित्यैव संज्ञा भवतीत्यर्थः। "सर्वादीनीत्यनेने"ति शेषः। ननु प्रथमचरमादिष्वनन्तर्भावात्कथमुभयशब्दस्य तयप्प्रत्ययान्तत्वमित्यत आह--अयजादेशस्य स्थानिवद्भावेनेति। "उभादुदात्त" इति सूत्रे सङ्ख्याया अवयवे तयप्" इति उभशब्दाद्विहितस्य तयपोऽयजादेशः, तयब्ग्रहणमननुवर्त्त्य अयच् स्वतन्त्रः प्रत्ययो वे"ति पक्षद्वयं भाष्ये स्थितम्। तत्र प्रथमपक्षाभिप्रायेणात्र सर्वनामसंज्ञाविकल्पशङ्का बोध्या। ननु प्रथमचरमेति वकल्पस्य परत्वात्कथमिह "सर्वादीनी"तिनित्यैव संज्ञेत्यत आह-अन्तरङ्गत्वादिति। तदेवोपपादयत#इ--विभक्तिनिरपेक्षत्वेनेति। "प्रथमचरमे"ति जसि विकल्पविधिर्जसपेक्षत्वेन विभक्त्यपेक्षत्वाद्बहिरङ्गः। "सर्वादीनी"ति नित्यसंज्ञाविधिस्तु तदनपेक्षत्वादन्तरङ्गः, "अल्पापेक्षमन्तरङ्ग"मिति न्यायात्। अतोऽत्र परमपि "प्रथमचरमे"ति विकल्पं बाधित्वा "सर्वादीनी"ति नित्यैव संज्ञा भवति, परादन्तरङ्गस्य बलीयस्त्वादिति भावः। तथा च शीभावो नित्य इत्याह-उभये इति। ननु डतरडतमशब्दयोः क्वापि प्रयोगादर्शनात्किमर्थस्तयोः पाठ इत्यत आह-डतरडतमौ प्रत्ययाविति। "किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्"। "वा बहूनां जातिपरिप्रश्ने डतमच्"। "एकाच्च प्राचा"मिति तद्धिताधिकारविहितौ डतरडतमौ प्रत्ययौ, "प्रत्ययः" इत्यधिकृत्य तद्विधेः। अतः प्रत्ययग्रहणपरिभाषया डतरग्रहणेन कतरादिशब्दानां, च ग्रहणमिति भावः।
शङ्कते--यद्यपीति। सुप्तिङन्तमिति। यदि संज्ञाविधावपि प्रत्ययग्रहणपरिभाषा प्रवर्तेत, तर्हि "सुप्तिङ् पद"मित्येव सूत्र्येत, प्रत्ययग्रहणपरिभाषयैव सुप्तिङन्तमित्यर्थलाभात्। अतः संज्ञाविधौ प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति विज्ञायते। एवंच प्रकृते सर्वनामसंज्ञाविधौ डतरडतमग्रहणे प्रत्ययग्रहणपरिभाषानुपस्थानात्कथं तदन्तग्रहणमित्याक्षेपः। परिहरति--तथापीति। अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावेऽपीह सर्वनामसंज्ञाविधौ डतरडतमग्रहणे तदन्तग्रहणस्त्येवेत्यर्थः। कुत इत्यत आह--केवलयोरिति। "न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलः प्रत्ययः" इति न्यायेन केवलप्रत्यययोर्डतरडतमयोः प्रयोगानर्हत्वेन तयोः सर्वनामसंज्ञायां फलाऽभावादित्यर्थः। तस्माड्डतरडतमग्रहणेनात्र कतरकतमादिशब्दानां ग्रहणमिति स्थितम्। ननु डतरग्रहणेनैव सिद्धे सर्वादिगणे।ञन्यतरशब्दपाठो व्यर्थः। अन्यतमशब्दस्यापि डतमप्रत्ययान्तत्वात्सर्वनामत्वापत्तिश्चेत्यत आह--अन्यतरान्यतमशब्दावव्युत्पन्नाविति। डित्थादिशब्दवत्प्रकृतिप्रत्ययविभागविहीनावित्यर्थः। किंयत्तदेकेभ्य एव डतरडतमविधानादिति भावः। नन्वेवं सत्यन्यतरान्यतमशब्दाभ्यां द्वबहुनिर्धारणावगमः कथमित्यत आह--स्वभावादिति। एवंचान्यतमशब्दस्य न सर्वनामत्वमित्याह--तत्रेति। एतयोर्मध्ये इत्यर्थः। अन्यतरशब्दस्य तु डतरडतमविधानादिति भावः। नन्वेवं सत्यन्यतरान्यतमशब्दाभ्यां द्विबहुनिर्धारणावगमः कथमित्यत आह--स्वभावादिति। एवंचान्यतमशब्दस्य न सर्वनामत्वमित्याह--तत्रेति। एतयोर्मध्ये इत्यर्थः। अन्यतरशब्दस्य तु डतरप्रत्ययान्तत्वाऽभावेऽपि सर्वादिगणे पाठादेव सर्वनामत्वमित्युक्तप्रायम्। अत "त्व" "त्वे"त्येकप्रातिपदिकभ्रमं वारयन् अप्रसिद्धार्थत्वाद्व्याचष्टे--त्व त्व इति द्वावप्यदन्तावन्यपर्यायाविति। अन्यशब्दसमानार्थकावित्यर्थः। द्वयोरप्यदन्तत्वे।ञन्यतरपाठवैयथ्र्यं परिहरति-एक इति। इत्येके इति। इति कतिपये वृत्तिकृदादयो मन्यन्त इत्यर्थः। "एतं त्वं मन्ये" इत्युदात्तत्वस्य "उत त्वः पश्यन्" इत्यादावनुदात्तत्वस्य च ऋग्वेदे दर्शनादिति भावः। एकस्तान्त इति। संहितापाठे "त्व"दिति च्छेदमाश्रित्य प्रथमस्तकारान्तः, द्वितीयोऽदन्त इत्यपरे मन्यन्त इत्यर्थः। अन्यथा एकश्रुत्या वा स्वरविनिर्मुक्त वा सकृदेव पठेत्, तावतैव द्वयोरपि लाभात्, "त्वत्त्वसमसिमेत्यनुच्चानी"ति फिटसूत्राच्च। "स्तरीरु त्वद्भवति, सूत उ त्वत्" इति ऋग्व्याख्यावसरे वेदभाष्ये "त्व"दिति सर्वादिपठितोऽनुदात्तोऽयमन्यपर्यायः" इत्युक्तत्वाच्च। "त्वदधरमधुरमधूनि पिबन्त"मिति जयदेवप्रयोगाच्च। तत्र हि त्वच्छब्दो।ञन्यपर्यायः। त्वतोऽधर इति विग्लरहः। अन्यस्या अधर इत्यर्थः। नतु तवाधर इति विवक्षितं, "पश्यति दिशि दिशि रहसि भवन्तम्" इति पूर्ववाक्येनाऽन्वयानुपपत्तेः। नेम इत्यर्धे इति। "वर्तते" इति शेषः। "प्र नेमस्मिन् ददृशे सोमो अन्तः" इत्यृचि तथा दर्शनादिति भावः। सम इति। सर्व शब्दसमानार्थक एव समशब्दः सर्वादिगणे पठित इत्यर्थः। तुल्यपर्यायस्त्विति। तुल्यशब्दसमानार्थक इत्यर्थः। ज्ञापकादिति। अन्यथा तत्र समेषामिति निर्दिशेदिति भावः। ननु अष्टाध्यायीपठिते "अन्तरं बहिर्योगोपसंव्यानयोः" इति जसि सर्वनामसंज्ञाविकल्पविधायके सूत्रे "अपुरीत वक्तव्य"मिति वार्तिकपाठो भाष्ये दृश्यते। एवंचान्तराः पुर्य इत्यत्र जसि सर्वनामसंज्ञानिषेधेऽपि, "अन्तरायां पुरी"त्यत्र तन्निषेधा।ञबावादन्यतरस्यामिति स्यादित्यत आह--गणसूत्र इति। यद्यपीदं वार्तिकं जसि विकल्पविधिप्रकरणे पठितं तथाप्यन्तरं बहिरितिगणसूत्रस्यैवायं शेषो, नत्वष्टाध्यायीपठितस्या।ञन्तरं बहिरित्यस्य जसि विधायकस्य शेषः, "जसश्शी"त्यत्र अत इत्यनुवृत्त्या टाबन्तात्तत्प्राप्तिविरहात्। ततश्च पुर्यां विशेष्यभूतायामन्तरशब्दः सर्वादिगणे पाठं न लभते इत्येतद्वार्तिकार्थः पर्यवस्यति। एवञ्चजसोऽन्यत्रापि अन्तरशब्दस्य पुर्यां विशेष्यभूतायां सर्वनामत्वं नेति लभ्यते। अतोऽन्तरायां पुरीत्यादौ सर्वनामकार्यं स्याडादि न भवतीत्यभिप्रेत्योदाहरति--अन्तरायां पुरीति। यद्यप्यन्तरशब्द एव सर्वादिगणे पठितो, नतु टाबन्तः। तथापि लिङ्गविशिष्ट परिभाषया वा, एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वनामत्वप्राप्तिर्बोध्या। "सिम" शब्दस्तु "सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः" इति कोशे प्रसिद्धः।
पूर्वपरावर। व्यवस्थायामसंज्ञायां यानि पूर्वपरावरदक्षिणोत्तरापराधराणि तानि सर्वादिगणसंनिविष्टानि नान्यानीत्यर्थः। सर्वनामसंज्ञा तु "सर्वादीनि सर्वनामानि" इत्यनेनैव सिध्यति। एवमुत्तरसूत्रद्वयेऽपि बोध्यम्। "त्यद्" "तद्" एतौ उक्तपरामर्शकौ। "तत्राद्यश्छान्दस" इति गणरत्नकारोक्तिर्नादर्तव्या। स्यश्छन्दसि बहुल"मिति सूत्रे छन्दोग्रहणवैयथ्र्यापत्तेः। एक इति। "एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणे समानेऽल्पे सङ्ख्यायां च प्रयुज्यते"। अत एवेति। द्वयोर्द्विवचनस्यैव युक्तत्वादिति भावः। नित्यं द्विवचनान्त इति। सर्वदा। द्विवचनान्त इत्यर्थः। न चैव "मुभादुदात्तो नित्यम्", "उभय सर्वनामत्वे कोऽर्थः"-इति सूत्रकारभाष्यकारप्रयोगो विरुध्यत इति शङ्क्यम्, अर्थपरस्यैव नित्यं द्विवचनान्तता न तु स्वरूपानुकरणपरस्येत्यभ्युपगमात्। अथ सर्वादिषूभशब्दपाठो व्यर्थः, सर्वनामकार्याणां स्मायादीनां द्विवचनेऽभावात्। न च "सर्वनाम्नस्तृतीया चे"ति सूत्रेणोभाभ्यां हेतुभ्याम् उभयोर्हेत्वोरिति षष्ठीतृतीयासिद्धिसतत्फलमिति वाच्यम्। "निमित्तकारणहेतुषु सर्वासां प्रायदर्शन"मिति वार्तिकेनैव गतार्थत्वात्। न च वृत्तिकृता "सर्वनाम्नस्तृतीया चे"ति सूत्रे पठितत्वादिदमपि वार्तिकं सर्वनाम्न एव सर्वविभक्तिप्रापकं नान्यस्येति वाच्यम्, भाष्ये "हेतौ" इति सूत्रे तद्वार्तिकस्य पठितत्वादिदमपि वार्तिकं सर्वनाम्न एव सर्वविभक्तिप्राप्कं नान्यस्येति वाच्यम्, भाष्ये "हेतौ" इति सूत्रो तद्वार्तिकस्य पठितत्वात्। अत एव "अन्नेन कारणेन वसति" "अन्नस्य कारणस्ये"त्युदाह्मतं हरदत्तेनेत्याशङ्ख्याह-तस्येह पाठस्त्विति।
ननु कप्रत्ययेनापीष्टसिद्धेः किमनेनाऽकजर्थपाठेना?। न च काऽकचोः स्वरे विशेषोऽस्तीति वाच्यम्, प्रत्ययस्वरेण चित्स्वरेण वाऽन्तोदात्तत्वे विशेषाऽभावादित्याशङ्क्याह- न चेति। उभशब्दस्य द्विवचनपरत्वमकच्प्रत्ययो न विहन्ति, टेः प्राग्जायमानत्वात्, तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्। कप्रत्ययस्तु विहन्त्येव, प्रातिपदिकात्परत्र जायमानत्वादित्याशङ्ख्यामाह-द्विवचनपरत्वाभावेनेति। अयच्प्रसङ्गादिति। उभयशब्दात्रतसोः परतः स्वार्थे यथा अयज्यभवति तथा कप्रत्यये सति स्यादिति भावः। यद्यपि स्वार्थे अयज्दृष्टान्तेऽपि दुर्लभस्तथापि "उभादुदात्त" इति सूत्रे "नित्य"मिति योगविभागात्सुलभ एव। तथाहि-"उभादुदात्तः"। "द्वित्रिभ्या"मिति सूत्राद्वेति नानुवर्तते, अस्वरितत्वात्। अवयववृत्तेः सङ्ख्यावाचिन उभशब्दादवयविन्यर्थे अयच् स्यात्। उभयो मणिः। उभयः पाशः। ततो "नित्यम्"। उभशब्दाद्वृत्तिविषये नित्यमयच्स्यात्स्वार्थे। तेन "उभयतः", "उभयत्र," "उभयपक्षविनीतानिद्राः" इत्यादि सिद्धम्। नन्वेवमकचि कृतेऽप्ययज्दुर्वारः, "वृत्तिविषये स्वार्थे नित्यमय"जिति त्वयैवोक्तत्वादिति चेत्, एवं तर्हि योगविभागस्येष्टध्द्यर्थतया "उभौ साभ्यासस्ये"ति निर्देशेन च यत्र द्विवचनं न श्रूयते तत्रैवायमिति व्याख्यायते, न तु वृत्तिविषय इति न दोषः। तदुक्तमिति। "वार्तिककृते"ति शेषः।
उभयोऽन्यत्रेति। उभयेति यः स्वार्थिकोऽयजन्तः सोऽन्यत्र प्रयुज्यते, न तु द्विवचने परत इत्यर्थः। न च "उभा"वित्यादौ द्विवचनपरत्वं दुरुपपादम्, उभयत आश्रयणोऽन्तादिवद्भावविरहादिति वाच्यम्; "उभशब्दादुत्पन्नं द्विवचनं लुका नापह्मतं यत्र ततोऽन्यत्रायजिति विवक्षितोर्थ" इति मनोरमायामुक्तत्वात्। एवं च सर्वादिषूभशब्दपाठोऽकजर्थ इति स्थितम्। भाष्ये तु--कप्रत्ययस्य स्वार्थिंकत्वेन स्वार्थाभिधानसमर्थत्वादुभशब्दात्परस्य द्विवचनपरत्वमस्तीत्याश्रित्योभशब्दपाठः सर्वादिगणे प्रत्याख्यातः। मनोरमायां तु-भाष्ये प्रत्याख्यानं प्रौढिवादमात्रं, कृत्तिमस्यैव द्विवचनस्येह ग्रहीतुमुचितात्वदन्यथात्रतसिलादावतिप्रसक्तत्वादित्यादि स्थितम्।
उभयशब्दस्येति। उभावयवौ यस्य उभयः। "उबादुदात्तो नित्य"मिति तयपोऽयच्। नास्तीति। अनभिधानादिति भावः। तथा चोभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तत्वेनाऽव्ययत्वे प्राप्ते "तद्धितश्चासर्वविभक्ति"रिति सूत्रे "कृत्ताद्धितानां ग्रहणं च पाठे" इति भाष्यं कैयटेनावतारितम्। अस्तीति। "पचतिरूप"मित्यादिवारणेन पाठस्योपक्षीणत्वादनभिधाने प्रमाणं नास्तीति भावः। तस्मादिति। उभयशब्दादित्यर्थः। तयप्प्रत्ययान्ततयेति। "उभयशब्दस्ये"ति शेषः। यदि तूभयशब्दादयच् स्वतन्त्रः, नतु तयप आदेश इति निष्कर्षः स्वीक्रियते, तदाऽपि "प्रथमचरमतये"ति वैकल्पिकप्राप्तिर्नास्त्येवेति बोध्यम्। नित्यैवेति। "उभया अमित्रा" इति तु छान्दसत्वाद्बोध्यम्। डतरडतमाविति। "किंयत्तदोर्निधारणे द्वयोरेकस्य डतरच्", "वा बहूनां जातिपरिप्रश्ने डतमच्", एकाच्च प्राचा"मिति विहितौ। अव्युत्पन्नाविति। एतच्च पस्पशायां कैयटे स्पष्टम्। एके इति। काशिकाकाराः। "एतं त्वं मन्ये"इत्युनुदात्तस्य, "उत त्वः पश्यन्" इत्यनुदात्तस्य च दर्शनादिति भावः। एक इति। प्रथम इत्यर्थः। संहितया पाठे तान्तत्वस्याऽस्फुटत्वेऽपि "त्व"दिति तान्तश्छेत्तव्यः। अन्यथा एकश्रुत्या सकृदेव पठेत्। न च तान्ते विप्रतिपत्तव्य। "त्वत्त्वसमसिमेत्यनुच्चानी"ति फिट्सूत्रात्। तथाच ऋङ्भन्त्रः-"स्तरीरु त्वद्भवति सूत उ त्वत्" इति। जयदेवोपि प्रायुङ्क्त"त्वदधरममधुरमधूनि पिबन्त"मिति। त्वत्तोऽन्यस्या अधर इति विग्रहो न तु तवाधर इति, "पश्यति दिशि दिशि रहसि भवन्त"मिति पूर्ववाक्येन सहाऽनन्वयापत्तेः। सम इति। तथाच श्रूयते-"मा नो वृकाय वृक्ये समस्मै"। "उतो समस्मिन्" इत्यादि। "सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः"। गणसूत्र इति। यद्यपि भाष्येऽष्टाध्यायीस्थसूत्रे "अपुरीति वक्तव्य"मिति वार्तिकं पठितं, तथापि तद्गणसूत्रस्यैव शेषो न तु जसि विभाषाविधायकस्य। "अत" इत्यधिकृत्य जसः शीविधानादाबन्तात्प्राप्त्यभावात्। अन्तरायामिति। प्राकाराद्बाह्रायां, तदन्तर्विर्तिन्यां वेत्यर्थः। लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वनासतायाः प्राप्तिर्बोध्या। इत्थं सर्वादिगणं व्याख्यायेदानीं तदन्तर्गतत्रिसूत्रीसमानाकारामष्टाध्यायीस्थां त्रिसूत्रीं व्याचष्टे।