पूर्वम्: ७।१।५२
अनन्तरम्: ७।१।५४
 
सूत्रम्
त्रेस्त्रयः॥ ७।१।५३
काशिका-वृत्तिः
त्रेस् त्रयः ७।१।५३

त्रि इत्येतस्य आमि परे त्रय इत्ययम् आदेशो भवति। त्रयाणाम्। त्रीणाम् इत्यपि छन्दसि इष्यते। त्रीणाम् अपि समुद्राणाम् इति।
लघु-सिद्धान्त-कौमुदी
त्रेस्त्रयः १९२, ७।१।५३

त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वेऽपि प्रियत्रयाणाम्॥
न्यासः
त्रेस्त्रयः। , ७।१।५३

"ह्यस्वनद्यापो नुट्()" ७।१।४४ इति प्राप्ते वचनम्()। "त्रयाणाम्()" इति। "सुपि च" ७।३।१०२ इति दीर्घः। ननु च "णिजां त्रयाणां गुणः श्लौ" ७।४।७५ इति निपातनादेव सिद्धम्(), तत्किमर्थमिदमारभ्यते? एवं सिद्धे सतीदमारभ्यमाणमेतज्ज्ञापयति--"अबाधकान्यपि निपातनानि भवन्ति (पु।प।वृ।९९) इति, तेन पुरातनमिति सिद्धं भवति; अन्यथा "पुराणप्रोक्तेषु" ४।३।१०५ इति निपातनेन बाधित्त्वान्न सिध्यति। "त्रीणामपीष्यते छन्दसि" इति। एतच्चापीत्यधिकाराद्वा, "सर्वे विघयश्छन्दसि विकल्प्यन्ते (पु।प।वृ।५६) इति वा लभ्यते॥
बाल-मनोरमा
त्रेस्त्रयः २६२, ७।१।५३

त्रेस्त्रयः। "आमि सर्वनाम्नः" इत्यत "आमी"त्यनुवर्तते। तदाह--त्रिशब्दस्येति। अनेकाल्त्वात्सर्वादेशः। नुट् दीर्घश्च। तदाह--त्रयाणामिति। "त्रेरयङ्" इति तु नोक्तम्, अयङ् अनङित्यादिवन्ङकारात्पूर्वस्याऽकारस्योच्चारणार्थत्वाशङ्काप्रसङ्गात्। अङ्गाधिकारस्थत्वात्। "पदाङ्गाधिकारे" इति परिभाषया "त्रे"रिति तदन्तग्रहणमित्यभिप्रेत्योदाहरति--परमत्रयाणामिति। परमाश्च ते त्रयश्चेति विग्रहः। प्रियास्त्रयो यस्येति प्रियत्रिशब्दो बहुव्रीहिः। तस्यान्यपदार्थप्रधानत्वादेकद्वि बहुवचनानि सन्ति। अतो हरिवत्तस्य रूपाणि।

तत्र त्रयादेशमाशह्क्याह--गौणत्वे त्विति। त्रिशब्दस्योपसर्जनत्वे "त्रेस्त्रयः" इति न भवतीति केचिदाहुरित्यर्थः। "गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः" इति न्यायादिति भावः। वस्तुतस्त्विति। "प्रियत्रयाणा"मित्येव रूपं वस्तुत्वेन ज्ञेयमित्यर्थः। प्रामाणिकमिति यावत्। गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एव प्रवृत्तेः। अत एवोपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता। अत एव च "प्रियतिसे"त्यादौ त्रिरुआआदयो भाष्ये उदाह्मताः सङगच्छन्त इत्यन्यत्र विस्तरः।

अथ द्विशब्दे विशेषमाह--द्विशब्द इति। तस्य द्वित्वनियतत्वादिति भावः।

तत्त्व-बोधिनी
त्रेस्त्रयः २२२, ७।१।५३

त्रेस्त्रयः। "त्रे"रिति षष्ठी न तु पञ्मी। "त्रय"इत्यदन्तं न तु सान्तं, "निजां त्रायाणां"मिति निर्देशादित्यमिप्रेत्याह--त्रिशब्दस्य त्रयादेश इति। "ननु निजां त्रयाणा"मिति निपातनादेवत्रयादेशे सिद्र्ध किमनेन सूत्रेणेति चैन्मैवम्। "अबाधकान्यपि निपातनानि भवन्ती"त्यनेन ज्ञापनात्। तेन "पुरातन"मिति सिध्यति। अन्यथा "पुराणप्रोक्तेषु--"इति निपातनादेतद्बाध्येत। "त्रेरय"ङित्येव न सूत्रितम्। तत्करोति आचष्टे वेत्यर्थं "तत्करोति"इत्यादिना णिचि ततः क्विपि "प्रकृत्यैकाजि"ति प्रकृतिभावाट्टिलोपाऽभावे "ह्यस्वस्य पिती"तु तुकि "त्रित्"। ततो बहुत्वविवक्षायामामि कृते त्रेरयङि "त्रयाणा"मिति रूपाऽसिद्धेः। न च "वार्णादाङ्गं बलीयः"इति तुकः प्रागेवायं स्यादिति शङ्क्यम्, युगपत्प्रवृत्तावेवाऽ‌ऽङ्गस्य बलीयस्त्वात्। केचिदिति। "त्रेः संबंन्धिन्यामी"ति विज्ञानाद्गौणत्वेऽपि त्रयादेशो न भवतीति तेषामाशयः। वस्तुतस्त्विति। अर्थप्राधान्यबोधकस्य बहुवचनस्याऽभावाद्गणत्वेऽपि त्रयादेशो न्याय्यः, प्रियास्थ्नेत्यादावस्थ्याद्यनङ्वदिति भावः।