पूर्वम्: ७।१।७३
अनन्तरम्: ७।१।७५
 
सूत्रम्
तृतीयाऽ‌ऽदिषु भाषितपुंस्कं पुंवद्गालवस्य॥ ७।१।७४
काशिका-वृत्तिः
तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य ७।१।७४

तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कम् इगन्तं नपुंसकं गालवस्याचार्यस्य मतेन पुंवद् भवति। यथा पुंसि ह्रस्वनुमौ न भवतः, तद्वदत्र अपि न भवतः इत्यर्थः। ग्रामणीः ब्राह्मणः। ग्रामणि ब्राह्मणकुलम्। ग्रामण्या। ब्राह्मणकुलेन, ग्रामणिना ब्राह्मणकुलेन। ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुलाय। ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात्। ग्रामण्यो ब्राह्मणकुलस्य, ग्रामणिनो ब्राह्मणकुलस्य। ग्रामण्योर् ब्राह्मणकुलयोः, ग्रामणिनोर् ब्राह्मणकुलयोः। ग्रामण्यां ब्राह्मणकुलानाम्, नुमचिर इति पूर्वविप्रतिषेधेन नुट्, ग्रामणीनां ब्राह्मणकुलानाम्। ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले। शुचिर्ब्राह्मणः। शुचि ब्राह्मणकुलम्। शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय। शुचेर् ब्राह्मणकुलात्, शुचिनो ब्राह्मणकुलात्। शुचेर् ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य। शुच्योर् ब्राह्मणकुलयोः, शुचिनोर् ब्राह्मणकुलयोः। शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले। तृतीयादिषु इति किम्? ग्रामणिनी ब्राह्मणकुले। शुचिनी ब्राह्मणकुले। भाषितपुंस्कम् इति किम्? त्रपुणे। जतुने। इह कस्मान् न भवति, पीलुर्वृक्षः, पीलु फलम्, पीलुने फलाय इति? समानायामाकृतौ यद् भाषीत्पुंस्कं तुल्ये प्रवृत्तिनिमत्ते तस्य पुंवद्भावः। इह तु वृक्षाकृतिः प्रवृत्तिनिमित्तं पुंसि शब्दस्य, फलाकृतिर्नपुंसके। तदेतदेवं कथं भवति भासितपुंस्कम् इति? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भासितपुंस्कशब्देन उच्यते, उअद्योगादभिधेयम् अपि यद् नपुंसकं तदपि भाषितपुंसकम्। तस्य प्रतिपादकं यच् छब्दरूपं तदपि भाषितपुंस्कम् इति? इकः इत्येव, कीलालपा ब्राह्मणः। कीलालपं बाह्मणकुलम्। कीलालपेन ब्राह्मणकुलेन। अचि इत्येव, ग्रामणिभ्यां ब्राह्मणकुलाभ्याम्।
लघु-सिद्धान्त-कौमुदी
तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य २५०, ७।१।७४

प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥ मधु। मधुनी। मधूनि। हे मधो, हे मधु॥ सुलु। सुलुनी। सुलूनि। सुलुनेत्यादि॥ धातृ। धातृणी। धातॄणि। हे धातः, हे धातृ। धातॄणाम्॥ एवं ज्ञात्रादयः॥
न्यासः
तृतीयादिषु भाषितपुंस्कं पुंवदूगालवस्य। , ७।१।७४

"इगन्तं नपुंसकम्()" इति। नपुंसकस्येक इत्यनुवत्र्तते। तच्च यद्यपि षष्ठ()न्तं प्रकृतम्(), तथाप्येतदर्थाद्विभक्तिविपरिणामो भवतीति प्रथमान्तं सम्पद्यते। "पुंवद्भवति" इति। अस्यार्थं स्पष्टीकर्त्तुमाह--"यथा" इत्यादि। कथं पुनः "पुंवद्भवति" इत्यनेन प्रतिषेधातिदेशः शक्यते वक्तुम्()। एवं मन्यते--पुंसि तृतीयादिष्वजादिषु न किञ्चित्? कार्यं विधीयते यन्नपुंसकेऽतिदश्येत। तस्मान्नपुंसकाश्रयस्य कार्यस्य पुंस्यभावात्? प्रतिषेधातिदेश एवायं विज्ञायते। एवमपि नुम्? एव प्रकृतस्याभावातिदेशः पक्षे स्यात्(), ह्यस्वस्य; तस्याप्रकृतत्वात्(), ततश्च ह्यस्वाश्रयाणि गुण नाभाव नुडौत्त्वात्त्वानि प्रसज्येरन्()--"घेर्ङिति" (७।३।१११) इत्यौत्त्वात्त्वम्()--ग्रामण्यां ब्राआहृणकुल इति? नैतदस्ति; नुमभावमात्रातिदेशे ह्रतिदेश एवानरथकः स्यात्()। नुम एव गालवस्य मतेन प्रतिषेधं कुर्यात्()। तस्मादतिदेशासामथ्र्याद्? ह्यस्वाभावोऽप्यतिदिश्यते। "ग्रामणीब्र्राआहृणः, ग्रामाणि ब्राआहृणकुलम्()" इति। भाषितपुंस्कत्वदर्शनार्थमिदमुक्तम्(), न तूदाहरणम्()। इदमत्रोदाहरणम्()--"ग्रामण्या ब्राआहृणकुलेन" इति। अत्र पुंवद्भावेन ह्यस्वो न भवति, नुमपि। "एरनेकाचः" ६।४।८२ इति ह्यस्वत्वम्(), "आङो नाऽस्त्रियाम्()" ७।३।११९ इति नाभावः। "ग्रामणीनाम्()" इति। पूर्वविप्रतिषेधेन नुटि कृते "नामि" ६।४।३ इति दीर्घत्वम्()। न्नुचिशब्दस्य तृतीयैकवचनं नोदाह्मतम्; विशेषाभावात्()। सत्यसति वा पुंवद्भावे "आङो नाऽस्त्रियाम्()" ७।३।११९ इति नाभावेन भवितव्यम्()। "शुचये" इति। पुंवद्भावपक्षे न नुम्(), "घेर्ङिति" ७।३।१११ इति गुणः। "शुचिने" इति। पुंवद्भावाभावपक्षे नुम्()। "ग्रामणिनी ब्राआहृणकुले" इति। पुंवद्भावाभावादिह ह्यस्वनुमौ भवतः। "त्रपुणे, जतुने" इति। सर्वकालं नपुंसकत्वमेवानयोरिति भाषितपुंस्कत्वाभावः। तेनात्र पुंवदेभावाभावान्नुम्भवत्येव। "इह कस्मान्न भवति" इति। भाषितपुंस्कशब्दस्य बहुव्रीहेः शब्दोऽन्यपदार्थः। पोलुशब्दश्चायं पुंसि वृक्षे वर्त्तित्वा पीलोर्विकारः फलमिति विवक्षिते सति "ओरञ्()" ४।२।७० इत्यागतस्याञः "फले लुक्()" (४।३।१६३) इति लुक्? क्रियते, तदा नपुंसके फले वत्र्तत इति भाषितपुंस्को भवति, न चेह कश्चिद्विशेष उपात्तः, तस्माद्भवितव्यमेदात्र पुंवद्भावेनेति मन्यमानस्य प्रश्नः। "समानायामाकृतौ" इत्यत्तरम्()। अस्यैवार्थं स्पष्टीकर्त्तुमाह "तुल्य प्रवृत्तिनिमित्ते" इति। अत्र "तस्य पुंवद्भावो विधीयते" इत्यध्याहार्यम्()। आक्रियेते व्युत्पाद्येते परिच्छिद्येते अनया वृद्धिशब्दादिति "आकृतिः"। शब्दस्य प्रवृत्तिकारणमिहाकृतिरभिप्रेता, न सन्निदेशः, नापि जातिमात्रम्()। त()स्मस्तु तुल्ये प्रवृत्तिनिमित्ते यद्भाषितपुंस्कं तस्य पुंवद्भावो विधीयते। तथा च--ग्रामणीशब्दस्य, शचिशब्दस्य च समासे प्रवृत्तिनिमत्ते पुंवद्भाव उदाह्मतः, यथा--ग्रामणीशब्दस्य पुंसि नपुंसके च वत्र्तमानस्य ग्रामनयनं प्रति कर्त्तुत्वं समानाकृतिः प्रवृत्तिनिमित्तम्()। शुचिशब्दस्यापि शुचित्वं गुणः तत्रैवैतत्? स्यात्()। इहापि समानैवाकृतिः? इत्याह--"इह तु" इत्यादि। तु शब्द#ओ ग्रामणीशब्दादेर्विशेषं दर्शयति। अनेन पीलुशब्दस्य भिन्नायामाकृतौ भाषितपुंस्कत्वं दर्शयति। वृक्षाकृतिः=वृक्षजातिः। फलाकृतिः=फलजातिः। तदेवं समानायामाकृतौ यद्भाषितपुंस्कं तस्य पुंदद्भावो विधीयते। न तु पीलुशब्दः समानायमाकृतौ भाषितपुंस्क इति न भवति तस्य पुंवद्भावः। "तदेतदेवम्()" इत्यादि। यदेतदुक्तम्()--"समानायमाकृतौ" इत्यादि, तदेतदेवम्प्रकारमर्थरूपं कथम्भवति? न कथञ्चिदित्यर्थः। "समानायामाकृतौ" इत्यस्य विशेषस्यानुपादानादित्यभिप्रायः। "भाषितपुंस्कग्रहणात्()" इत्यादिना यथैतदेव भवति तथा दर्शयति। शब्दे ह्रन्यपदार्थे समाश्रीयमाणे सत्येतन्नोपपद्यते। न चात्र शब्दोऽन्यपदार्थत्वेनाश्रितः, किं तर्हि? अर्थः। सोऽपि न सर्वः, अपि तु प्रत्यासत्तेर्यस्य शब्दस्य यत्? प्रवृत्तिनिमित्तं स एव विज्ञायत इति स एव भाषितपुंस्कशब्दोनोच्यते; अन्यथा सर्व एव ह्रर्थो भाषितपुंस्को भवति, अन्ततोऽर्थशब्देनापि भाषितपुंस्कत्वसम्भवात्()। तत्र यदि येन केनचिच्छब्देन यो भाषितपुंस्कः स इहाश्रीयते, तदा भाषितपुंस्कग्रहणमनर्थकं स्यात्(); व्यावर्त्त्याभावात्()। तस्माद्यस्य नपुंसकाभिधायिनः शब्दस्य पुंवद्भाव इह विधातुमिष्टस्तेनैव स्वमिन्? प्रवृत्तिनिमित्ते पुमान्? भाषितः, स एव भाषितपुंत्कोऽत्राक्षीयते। "तेद्योगात्()" इत्यादि। तेन प्रवृत्तिनिमित्तलक्षणेनार्थेन योगात्? सम्बन्धादभिधेयं यन्नपुंसकं तदपि भाषितपुंस्कमितयुच्यते। भवति हि तद्योगात्? ताच्छब्द्यम्(), यथा--यष्टीः प्रवेशयेति। योगः पुनरत्र समवायसमवायिलक्षणः; शब्दप्रवृत्तिनिमित्तस्यार्थस्य नपुंसकेन समवायात्()। "यत्? तस्य" इत्यादि। तस्य नपुंसकस्य यत्? प्रतिपादकं शब्दरूपं तदापि भाषितपुंत्केन नपुंसकेन योगाद्भाषितपुंस्कमित्युच्यते। योगः पुनरनयोर्वाच्यवाचकभावः। तत्र यद्यपि सूत्रेऽर्थो भाषितपुंस्कशब्देनोपात्तः, तथाऽप्यर्थे कार्यासम्भवात्? यथोक्तन प्रकारेण यो भाषितपुंस्कः शब्दस्तस्यैवायं पुंवद्भावो विधीयते, एवञ्च स विधीयमानः समानायामाकृतौ यो भवितपुंस्कः शब्दः सामथ्र्यात्? तस्य भवतीति विज्ञायते। यो ह्रेवं भाषितपुंस्केन शब्दप्रवृत्तिनिमित्तेन सम्बद्धं नपुंसकमाह स नियोगतः समानायामाकृतौ भाषितपुंस्को भवति। यथा स एव ग्रामणीशब्दः, शुचिशब्दश्च। पीलुशब्देन यत्र भाषितः पुमान्? प्रवृत्तिनिमित्ते वृक्षाकृतौ न तत्सम्बद्धमसौ नपुंसकमाह। किं तर्हि? फलाकृतिसम्बन्धम्()। तस्मात्? पीलुशब्दो न समानायामाकृतौ भाषितपुंस्क इति न भवति तस्य पुंवद्भावः। "कीलालपा" इति। "अतो मनिन्क्वनिब्वनिपश्च" ३।२।७४ इति विच्()। कोलालपाशब्दोऽयं समानायामाकृतौ भाषितपुंस्कः--उभयत्रापि वत्र्तमानः कीलालपात्वं प्रवृत्तिनिमित्तमादाय प्रवत्र्तत इति कृत्वा। इगन्तस्तु न भवतीति न भवति पुंवद्भाव; तेन ह्यस्वत्वं भवत्येव। तस्मिन्? सतदि "टाङसिङसामिनात्स्याः" ७।१।१२ इतीनादेशे कृते कीलालपेनेति भवति। यदि पुनरत्र पुंवद्भावः स्यात्? तदा ह्यस्वत्वं न स्यात्(), ततश्च "आतो धातोः" ६।४।१४० इत्यकारलोपे कृते कोलालापेति स्यात्()॥
बाल-मनोरमा
तृतीयादिषु भाषितपुंस्कं पुंवद्भालवस्य ३१९, ७।१।७४

टादिषु अचिविशेषमाह--तृतीयादिषु। भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत्-भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच्। शब्दस्वरूपं विशेष्यम्। पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत्। "इकोऽचि विभक्तौ इत्यत "इकोऽची"ति "नपुंसकस्य झलचः" इत्यतो "नपुंसकस्ये"ति चानुवर्तते। षष्ठी च प्रथमया विपरिणम्यते। तदाह-प्रवृत्तिनिमित्तैक्य इत्यादिना। पुंवद्वेति। गालवग्रहणादिति भावः। अचीति। अजादावित्यर्थः। पुंवत्त्वे ह्यस्वनुमोरभावः फलति। घटपटादिशब्दास्तावद्घटत्वपटत्वादिरूपेणैव तत्तद्व्यकिं()त प्रत्याययन्ति, ननु द्रव्यत्वपृथिबीत्वादिरूपेणेति निर्विवादम्। ततश्च यद्विशेषणं पुरस्कृत्य घटादिशब्दास्तत्तद्व्यक्तिषु प्रयुज्यन्ते तद्विशेषणं प्रवृत्तिनिमित्तमित्युच्यते। वाच्यतावच्छेदकमिति यावत्। एवंच नपुंसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छेदकं तच्छब्दस्वरूपं भाषितपुंस्कशब्देन विवक्षितम्। अनादिशब्दश्च उत्पत्त्यभावात्मकमनादित्वं पुरस्कृत्य स्त्रीपुंनपुंसकतत्तद्व्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमित्तैक्ये भाषुतपुंस्कता। अतस्तस्य टादावचि पुंवत्त्वविकल्प इत्यभिप्रेत्योदाहरति--अनादये अदादिने इति। पुंवत्त्वे नुमोऽप्रवृत्ते "धेर्ङिती"ति गुणः। पुंवत्त्वाऽभावे तु नुमिति भावः। इत्यादीति। अनादेः-अनादिनः। अनाद्योः-अनादिनोः। आमि तु अनादीनामित्येव। शेषं वारिवदिति। प्रथमाद्वितीययोभ्र्यामादौ हलि च वारिवदित्यर्थः। "प्रवृत्तिनिमित्तैक्य" इत्यस्य प्रयोजनं दर्शयितुमाह--पीलुर्वृक्ष इति। यदा वृक्षविशेषः पीलुशब्दवाच्यस्तदा पुंलिङ्गः पीलुशब्दः, यदा पीलुजन्यफलं पीलुशब्दवाच्यं तदा नपुंसकलिङ्गोऽयम्। "फले लुक्" इत्यणो लुक्। अत्र फले वाच्ये पुंवत्त्वं नेत्यर्थः। कुत इत्यत आह-प्रवृत्तिनिमित्तभेदादिति। वृक्षत्वव्याप्यजातिविशेषात्मकं पीलुत्वं वृक्षविशेषे वाच्ये प्रवृत्तिनिमित्तम्। फलविशेषे तु वाच्ये फलत्वव्याप्यजातिविशेषात्मकं पीलुत्वं प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्तभेदादित्यर्थः। तदुक्तम्--"पीलुर्वृक्षः फलं पीलु पीलुने नतु पीलवे। वृक्षे निमित्तं पीलुत्वं, तज्जत्वं तत्फले पुनः।" इति।

तत्त्व-बोधिनी
तृतीयादिषु भाषितपुंस्क पुंवद्गालवस्य २८१, ७।१।७४

तृतीयादिषु। यद्यत्र भाषितः पुमान् येन शब्देन स भाषित पुंस्कः शब्द इति विज्ञायेत तदा "पीलुने"इत्यादावतिप्रसङ्गः स्यात्, अतो व्याचष्टे--प्रावृत्तनिमित्तैक्ये इति। अयं भावः--भाषितः पुमान् यस्मिन् अर्थे तद्भाषितपुंस्कं प्रवृत्तिनिमित्तं, तदस्यास्तीति अर्श आदित्वादच्। तेनैकस्मिन् प्रवृत्तिनिमित्ते भाषितपुंस्कं यच्छब्दस्वरूपं तल्लयत इति। "इकोऽचिविभक्ता"वित्यतो "ऽची"त्यनुवर्तनादाह--टादावचीति। इगन्तं किम्(), सोमपेन कुलेन। अचि किम्(), ग्रामणिभ्याङ्कुलाभ्याम्। टादौ किम्(), अनादिनी। अनादीनि। तत्फलमिति। पीलोः फलं पीलु। "फले लु"गिति ओरञो लुक्। प्रवृत्तिनिमित्तभेदादिति। पीलुशब्दस्य हि वृक्षत्वव्याप्यजातिर्वृक्षे प्रवृत्तिनिमित्तं, फले तु फलत्वाव्याप्यजातिर्वृक्षविशेषप्रभवत्वं वा। उभयथापि पुंनपुंसकयोनैकं प्रवृत्तिनिमित्तमिति भावः।