पूर्वम्: ७।१।७४
अनन्तरम्: ७।१।७६
 
सूत्रम्
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः॥ ७।१।७५
काशिका-वृत्तिः
अस्थिदधिसक्थ्यक्ष्णाम् अनङुदात्तः ७।१।७५

अस्थि दधि सक्थि अक्षि इत्येतेषा नपुंसकानां तृतीयादिषु अजादिषु विभक्तिषु परतो ऽनङित्ययम् आदेशो भवति, स च उदात्तो भवति। अस्थ्ना। अस्थ्ने। दध्ना। दध्ने। सक्थ्ना। सक्थ्ने। अक्ष्णा। अक्ष्णे। अस्थ्यादय आद्युदात्ताः, तेषाम् अनङादेशः स्थानिवद्भावादनुदात्तः स्यातिति उदात्तवचनम्। तत्र भसंज्ञायाम् अल्लोपे कृते उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता भवति। एतैरस्थ्यादिभिर् नपुंसकैरनपुंसकस्य अपि अङ्गस्य तदन्तग्रहणम् इष्यते। प्रियास्थ्ना ब्राह्मणेन। प्रियदध्ना। तृतीयादिषु इति किम्? अस्थिनी। दधिनी। अचि इत्येव, अस्थिभ्याम्। दधिभ्याम्।
लघु-सिद्धान्त-कौमुदी
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः २४७, ७।१।७५

एषामनङ् स्याट्टादावचि॥
न्यासः
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः। , ७।१।७५

"इकोऽचि विभक्तौ" ७।१।७३ इति नुमि प्राप्तेऽस्ध्यादीनामनङ विधीयते। ङकारोऽन्त्यादेशार्थः। अकार उच्चारणार्थः। अस्थ्यादयश्चैते "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदात्ताः, शेषमनुदात्तम्()। तत्रानङ्? विधीयमानः स्थानिवद्भावादनुदात्तत्वं प्राप्नोतीत्युदात्तत्वामुच्यते--नब्विषयस्येति। नपुंसकविषयस्येत्यर्थः। "अस्थ्ना" इति। अनङि कृते "अल्लोपोऽनः" ६।४।१३४ इत्यकारलोपः। "एतैः" इत्यादि। कथं पुनरोतल्लभ्यते, यावता प्रकृतस्यास्थ्यादिभिर्विशेषणाद्विशेषणेन तदन्तविधिरिति विज्ञानात्? "अङ्गाधिकारे तस्य सदुत्तरपदस्य" (पु।प।वृ।८५) इति वचनाद्वा यद्यपि तदन्तविधिर्भवति, तथापि सत्यपि तस्मिन्नस्थ्याद्यन्तत्यानपुंसकस्य ग्रहणं नोपपद्यते, नपुसकस्येत्यनुवृत्तेः? नैष दोषः; न ह्रत्र नपुंसकेनाङ्गं विशिष्यते, अपि तु श्रुतत्वादस्थ्यादय एव। एवञ्च तदन्तस्याङ्गस्य लिङ्गान्तरेपि वत्र्तमानस्यास्थ्यादीनां नपुंसकत्वं विद्यत एव। तेन नपुंसके ये वत्र्तन्तेऽस्थ्यादयस्तदन्तस्यानपुंसकेऽपि वत्र्तमानस्य ग्रहणमुपपन्नं भवति। यदि तर्हि तदन्तस्य ग्रहणम्(), केवलानां न सिध्यति? अयमप्यदोषः; व्यदेशिवद्भावात्? केवलानां न भविष्यति। "व्यपदेशिवद्भावोऽयतिपदिकेन" (शाक।प।६५) इत्येषा परिभाषा प्रत्ययविधिविषयेतीह नोपतिष्ठत एव। नपुंसकेनास्थ्यादिविशेषणं किम्()? यदा ते पदुच्छाशब्दाः सन्तोऽपि लिङ्गान्तरे वत्र्तन्ते तदा मा भूत्()--दधिर्नाम कश्चित्? तेन दधिनेति॥
बाल-मनोरमा
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ३२०, ७।१।७५

अस्थि, दधि, सक्थि, आक्षि एतेषां प्रथमाद्वितीययोर्वारिवद्रूपाणि। टादावचि विशेषमाह--अस्थिदधि। तृतीयादिष्विति, अचीति चानुवर्तते। तदाह--एषामित्यादिना। नुमोऽपवादः। अनङि हकार इत्, अकार उच्चारणार्थः। ङित्त्वादन्तादेशः। दधनि दध्नि इति। "विभाषा ङिश्योः" इत्याल्लोपविकल्प इति भावः। तदन्तस्यापीति। आङ्गत्वादिति भावः। अतिदध्नेति। दधि अतिक्रान्तं कुलमतिदधि। अत्रापि नपुंसकस्येति संबध्यते। ततश्च धाञः "आदृगमहन" इति किप्रत्यये दधिशब्दस्य पुंस्त्वे दधिनेत्येव। नपुंसकस्येति श्रूयमाणमस्थ्यादिभिरेवान्वेति। तेनातिदध्ना ब्राआहृणेनेत्यादि सिद्धम्। इति इदन्ताः।

अथ ईदन्ताः। सु ध्यायतीति, सु=शोभना धीर्यस्येति"वा विग्रहे सुधीशब्दस्य "ह्यस्वो नपुंसके" इति ह्यस्वत्वे वारिवद्रूपाणीत्याह--सुधि सुधिनी इत्यादि। परत्वान्नुमा इयङ् बाध्यत इति भावः। सुधिया सुधिनेति। सुध्यातृत्वस्य शोभनज्ञानवत्त्वस्य वा प्रवृत्तिनिमित्तस्य पुंसि नपुंसके च एकत्वात्पुंवत्त्वविकल्पः। एवं प्रधीशब्दः। तत्र "नभूसुधियो"रिति निषेधाऽभावादेरनेकाच इति यण्। इति ईदन्ताः। अथ उदन्ताः। मध्विति। " मधु मद्ये पुष्परसे" "मधुर्वसन्ते चैत्रे च" इति कोशान्मधुशब्दस्य पुंनपुंसकयोः मद्यत्ववसन्तत्वादिरूपप्रवृत्तिनिमित्तभेदान्न पुंवत्त्वविकल्पः। भृद्वीकाविकारवाचिनो मधुशब्दस्य तु नित्यनपुंसकत्वान्न पुंवत्त्वमिति विवेकः। सानुशब्दस्य स्नुर्वेति। "पद्दन्" इति सूत्रे "मांसपृतनासानूनां मांस्पृत्स्नबो वाच्याः" इति वार्तिका"दिति शेषः। स्नूनि सानूनीति--शसि रूपं, शसादावेव स्नुविधेः। प्रभृतिग्रहणस्य प्रकारार्थत्वे सुठ()पि स्नुर्भवति। अस्य च "स्नुः प्रस्थः सानुरस्त्रिया"मिति पुंनपुंसकत्वाद्भाषितपुंस्कत्वादस्त्येव पुंवत्त्वविकल्पः। प्रियक्रोष्टु प्रियक्रोष्टुनी इति। प्रियक्रोष्टा यस्येति विग्रहः। असर्वनामस्थानत्वान्न तृज्वत्वम्। अथ जश्शसोः शिभावे सति सर्वनामस्थानत्वान्नुमं बाधित्वा परत्बात्तृज्वत्त्वे प्राप्ते आह--तृज्वद्भावादिति। "वृद्ध्यौत्त्वे"ति वार्तिकादिति भावः। प्रियक्रोष्टूनीति। जश्शसोः शिभावे नुमि "सर्वनामस्थाने चे"ति दीर्घे रूपम्। नच नित्यत्वादेव नुम् सिद्धेः किं पूर्वविप्रतिषेधेनेति वाच्यं, नित्यत्वान्नुमि कृतेऽपि "यदागमाः" इति न्यायेन "तृज्वत्क्रोष्टुः" इत्यस्य नुम्विशिष्टस्य ग्रहणापत्तौ पुनस्तृज्वत्त्वापत्तेः। पूर्वविप्रतिषेधमाश्रित्य तृज्वत्त्वं बाधित्वा नुमि कृते तु न पुनस्तृज्वत्त्वम्, "विप्रतिषेधे यद्बाधितं तद्बाधितमेवे"ति न्यायादित्यलम्। पुंवत्पक्षे इति। तत्रापि तृज्वत्त्वपक्ष इत्यर्थः। प्रियक्रोष्ट्रेति। पुंवत्त्वे तृज्वत्त्वे च सति रूपम्। अनपुंसकत्वान्न नुम्। प्रयिक्रोष्टुनेति। पुंवत्त्वे, तदभावे च तृज्वत्त्वाऽभावे रूपम्। पुंवत्वाऽभावपक्षेऽपि नुमं बाधित्वा परत्वान्नात्वमेव। प्रियक्रोष्ट्रे इति। पुंवत्त्वे तृज्वत्त्वे यण्। अनपुंसकत्वान्न नुम्। प्रियक्रोष्टवे इति। पुंवत्त्वे तृज्वत्त्वाऽभावे रूपम्। अन्यत्रेति। पुंवत्त्वाऽभावपक्ष इत्यर्थः। प्रियक्रोष्टुनेति। पुंवत्त्वतृज्वत्त्वयोरभावे रूपम्। तथा ङयि त्रीणि रूपाणि। एवं ङसिङसोः। प्रियक्रोष्टुः प्रियक्रोष्टोः प्रियक्रोष्टुनः। प्रियक्रोष्ट्रोः-प्रियक्रोष्ट्वोः-प्रियक्रोष्टुनि। भ्यामादौ हलि मधुवत्। इत्युदन्ताः। अथ ऊदन्ताः। सुल्विति। सुष्ठु लुनातीति क्विप्। "ह्यस्वो नपुंसके" इति ह्यस्वः। सुलुनी इति। "ओः सुपी"ति यणं बाधित्वा परत्वान्नुम्। सुल्वेति। शोभनलवनकर्तृत्वं प्रवृत्तिनिमित्तमेकमिति पुंवत्त्वविकल्पः। पुंवत्त्वे ह्यस्वाऽभावेनाऽघित्वान्नाभावो न। नुमभावश्च। "ओः सुपी"ति यण्। पुंवत्त्वाऽभावपक्षे तु यणं बाधित्वा नुम्। ङेप्रभृतिषु तु पुंवत्त्वाऽभावे "वृद्ध्यौत्वे"ति पूर्वविप्रतिषेधेन नुमि सुलुने इति , पुंवत्त्वे तु "सुल्वे" इत्यादि रूपद्वयम्। इत्यूदन्ताः। अथ ऋदन्ताः। धातृ इति। दधातीति धातृ। "न लुमता" इति निषेधादनङ् न। धातृणी इति। "इकोऽची"ति नुमि "ऋवर्णान्नस्ये"ति णत्वम्। धातृ()णीति। जश्शसोः शिभावे नुमि "सर्वनामस्थाने चे"ति दीर्घे णत्वम्। "न लुमते"ति निषेधस्याऽनित्यत्वात्संबुद्धिनिमित्तको ह्यस्वस्य पक्षे गुण इत्याह-हे धातः हे धातृ इति। धारणकर्तृत्वरूपप्रवृत्तिनिमित्तैक्याट्टादावचि पुंवत्त्वविकल्प इत्याह--धात्रा-धातृणेति। धात्रे-धातृणे। धातुः-धातृणः। धात्रोः-धातृणोः। "नुमचिते"ति नुट्। धातृ()णाम्। धातरि-दातृणि। इत्यृन्ताः।

तत्त्व-बोधिनी
अस्थिदधिस्क्थ्यक्ष्णामनङुदात्तः २८२, ७।१।७५

अस्थिदधि। "इकोऽची"ति नुमि प्राप्ते विधिरयम्, नकारादकार उच्चारणार्थः। ङकारस्त्वन्तादेशार्थः। "नब्विषयस्याऽनिसन्तस्ये"ति फिट्सूत्रेणाऽस्थ्यादय एते आद्युदात्ताः। तत्राऽन्तस्यानुदत्तेकारस्य विधीयमानोऽनङ् "स्थानेऽनन्तरतमः"इत्यनुदात्तः स्यादित्युदात्त उच्यते। तच्चोदात्तत्व"मस्थनि""दधनि"इत्यादावल्लोपाभावपक्षे स्फुटम्, "दध्ना""दध्ने"इत्यादावनङोऽकारलोपे "अनुदात्तस्य च यत्रोदात्त लोपः"इत्युदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वं प्रयोजनमिति बोध्यम्। तृतीयाष्वित्यनुवत्र्तते, अचीति च, तदाह--टादावचीति। टादौ किम्()। दधिनी, दधीनि। अचि किं? दधिभ्याम्। तदन्तस्यापीति। आङ्गत्वादिति भावः। अतिदध्नेति। दधि अतिक्रान्तेनेत्यर्थः। स्त्रकियामप्यतिदध्नेत्येव। संनिपातपरिभाषया बहिरङ्गपरिभाषया बहिरङ्गपरिभाषया च ङीपोऽप्रवृत्तेः। प्राचा तु "प्रियदध्ना ब्राआहृणेने"त्युक्तम्। स्त्रियां "प्रियदध्न्या""प्रियदध्न्यै"इत्यद्यपि कैश्चिदुक्तम्। तदसत्। उरःप्रभृतिषु दधिशब्दस्य पाठाद्बहुव्रीहौ नित्यं कप्यनडः प्रसक्त्यभावात्। उक्तपरिभाषाभ्यां ङीपः प्रवृत्तेर्दूरापास्तत्वाच्चेति दिक्। सुधिनी इति। परत्वान्नुमा इयङ्()बाध्यते। सुधियेति। शोभनज्ञानवत्त्वं प्रवृत्तिनिमित्तं पुंनपुंसकयोरेकमेवेति भाषितपुंस्कत्वात् "तृतीयादिष्वि"ति पुंवत्पक्षे#ऐ नुमभावात् "न भूसुधियो"रिति यण्निषेधाच्चेयङ्। प्रध्येति। अत्रापि प्रकृष्टज्ञानवत्त्वं पुंनपुंसकयोरेकमेवेति भाषितपुंस्कत्वात्तृतीयादिष्विति पुंवत्पक्षे यण्। नपुंसकपक्षे तु नुमिति बोध्यम्। "बह्वयः श्रेयोस्यो यस्य तद्बहुश्रेयसी कुल मित्यत्र नपुंसकह्यस्ततिवमं न, "ईयसो बहुव्रीहेर्ने"ति ह्यस्वामात्रस्य प्रतिषेधादित्येके। अन्ये तूपसर्जनह्यस्व एव निषिध्यते, नपुंसकह्यस्वत्वं तु स्यादेव। "बहुश्रेयसि" बहुश्रेयसिनी"इतयाहुः। मध्विति। "मधु मद्ये पुष्परसे""मधुर्वसन्ते चैत्रे च"। इह पुंनपुंसकयोरेकं प्रवृत्तिनिमित्तं नास्ति, किंतु मद्यत्ववसन्तत्वादिरूपं भिन्नं भिन्नमेव। तथा च भाषितपुंस्कत्वाऽभावा "न्मधुने""मधुनः""मधुनो"रित्येव भवति, न तु "मधवे""मधो"रित्यादीति दिक्। स्नुर्वेति। "मांसपृतनासानूना"मिति वार्तिककीरेक्त्येति भावः। "स्त्रुः प्रस्थः सानुरस्त्रिया"मित्युभयलिङ्गः सानुशब्दः, तस्य नपुंसकत्वे रूपमाह---स्नूनि सानूनीति। पुंसि तु स्नून्। सानून्---इत्यादि। सुल्वेति।शोभनलवनकर्तृत्वं पुंनपु#ंसकयोरेकमेवेति भाषितपुंस्कत्वात्पुंवत्पक्षे नुमभावात् "ओः सुपी"ति यण्। सुलुनेति। यणं बाधित्वा परत्वान्नुम्। धात्रेति। धारणपोषणकर्तृत्वं पुंनपुंसकयोरेकमेवेति पुंवत्पक्षे यण्।