पूर्वम्: ७।१।७६
अनन्तरम्: ७।१।७८
 
सूत्रम्
ई च द्विवचने॥ ७।१।७७
काशिका-वृत्तिः
ई च द्विवचने ७।१।७७

द्विवचने परतः छन्दसि विषये अस्थ्यादीनाम् ईकारादेशो भवति, स च उदात्तः। अक्षी ते इन्द्र पिङ्गले कपेरिव। अक्षीभ्यां ते नासिकाभ्याम्। अक्षी इत्यत्र नुम् परत्वादीकारेण बध्यते। तेन कृते सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति पुनर् नुम् न क्रियते।
न्यासः
ई च द्विवचने। , ७।१।७७

चकारश्छन्दसीत्यनुकर्षणार्थः। "अक्षी ते" इति अक्षि औ इति स्थिते "नपुंसकाच्च" ७।१।१९ इति शीभावः, ईकारे कृते "प्रथमयो पूर्वसवणः" ६।१।९८ इती दीर्घः, "दीर्घाज्जसि च" ६।१।१०१ इति प्रतिषिद्धोऽपि छान्दसत्वाद्भवति। ननु सवर्णे दीर्घत्वेनाऽप्येतत्? सिद्ध्यति? यद्यपि रूपं सिद्ध्यति, उदात्तत्वं तु न सिध्यति। एतेनोदत्त ईकारो विधीयते। अथ वा--रूपमपि न सिध्यति। पूर्वसवर्णाद्धि परत्वात्? पूर्वं नुमि कृते नैव सवर्णदीर्घः स्यात्()। अथाक्षी इत्यत्र "इकोऽचि विभक्तौ" (७।१।७३) इति नुम्? कस्मान्न भवति? इत्याह--"अक्षी इत्यत्र" इत्यादि। नुमोऽवकाशः--त्रपुणे, जतुन इति इकरस्यावकाशः--अक्षीभ्यमिति; प्रथमाद्विवचन उभयप्रसङ्गे परत्वादीकार एव भवति। अथेदानोमीकारे कृते पुनःप्रसङ्गविज्ञानान्नुम्? कस्मान्न भवति? इत्याह--"सकृद्गतो इति॥