पूर्वम्: ७।१।९४
अनन्तरम्: ७।१।९६
 
सूत्रम्
तृज्वत् क्रोष्टुः॥ ७।१।९५
काशिका-वृत्तिः
तृज्वत् क्रोष्टुः ७।१।९५

क्रोष्टुशब्दः तुन्प्रत्ययान्तः संज्ञाशब्दः सर्वनामस्थाने ऽसम्बुद्धौ परतः तृज्वद् भवति। तृजन्तस्य यद् रूपं तदस्य भवति इत्यर्थः। रूपातिदेशो ऽयम्। प्रयासत्तेश्च क्रुशेरेव ऋजन्तस्य य रूपं तदतिदिश्यते। तच् च क्रोष्तृ इत्येतदन्तोदात्तम्। क्रोष्टा, क्रोष्टारौ, क्रोष्टारः। क्रोष्टारम्, क्रोष्टरौ। सर्वनामस्थाने इत्येव, क्रोष्टून्। असम्बुद्धौ इत्येव, हे क्रोष्टो।
न्यासः
तृज्वत्क्रोष्टुः। , ७।१।९५

"क्रोष्टुशपब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः" इति। "क्रुश आह्वाने" (धा।८५६)["अह्वाने रोदने च"--धा।पा।] इत्येतस्मात्? "सितनिगमिमसिसच्यविघाञ्कृशिभ्यस्तुन्()" (द।उ।१।१२२)["पसि"--द।उ] इति तुन्प्रत्ययान्तस्य संज्ञायां व्युत्पादितत्वात्()। संज्ञा पुनरियं जम्बुकस्य। "तृज्वद्भवति" इति। तृचा तुल्यं वत्र्तत इति तृज्वत्()। "रूपातिदेशोऽयम्()" इति वक्षयति। तत्र "तृज्वद्भवति" इत्युक्ते तृच्छब्दसय यद्रूपं तदतिदिश्यत इति कस्यचिद्भ्रान्तिः स्यात्? अतस्तां निराकर्त्तुमाह--"तृजन्तसय यद्रूपम्()" इत्यादि। एतच्च "प्रत्ययग्रहणे यस्मात्म विहितस्तदादेस्तदन्तस्य ग्रहणं भवति" (पु।प।वृ।४४) इत्यतो लभ्यते। यद्यपि शास्त्रातिदेशेऽप्यदोषो बहुधा भाव्ये प्रदर्शिताः--तस्यादुष्टत्वेन प्रातिपादनात्(), कार्यातिदेशोऽपयदीषवानेव व्याख्यातः--तस्य शास्त्रातिदेशेनाभिन्नत्वात्(); तथापि शास्त्रातिदेशकार्यातिदेशयोररूपार्थत्वाद्रूपे गुणाभावः। रूपस्य तु प्राधान्यम्(); ताभ्यां तस्य संस्कार्यत्वात्()। अतो रूपातिदेशोऽयं युक्त इत्याह--"रूपातिदेशोऽयम्()" इत्यादि। यदि तर्हि तृजन्तस्य यद्रूपं तत्? क्रोष्टुशब्दस्यातिदिश्यते तदा यत्किञ्चिदेव तृजन्तस्य रूपम्()--वक्तृ, पक्तृ--इत्येवमाद्यपि प्राप्नोति? अत आह--"प्रत्यासत्तेश्च" इत्यादि। इह धात्वन्तरस्य पचतिप्रभृते स्तृजन्तस्य रूपमस्ति, क्रुशेरपि, तत्? किमश्रुतसय धातोस्तृजन्तस्य यद्रूपं तदतिदिश्यते, उत्त श्रुतस्य क्रुशेरिति? तत्र श्रुतस्यैव यद्रूपं तदेवातिदेष्टुं इति। चकारोच्चारणसामथ्र्यात्? स्वरोऽप्यतिविश्यते। अन्यथा "तृवत्()" इत्येव ब्राऊयादिति भावः। "क्रोष्टा" इति। तृज्वद्भावे कृते पूर्वसूत्रेणानङ्()। "क्रोष्टारौ" क्रोष्टारः" इति। "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणः, रपरत्वम्(), अप्त्रादिसूत्रेण ६।४।११ दीर्घः। "क्रोष्टन्()" इति। "प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति दीर्घः। "तस्माच्छसो नः पुंसि" ६।१।९९ इति नत्वम्()॥
बाल-मनोरमा
तृज्वत्क्रोष्टुः २७२, ७।१।९५

तयोरविशेषेण सर्वत्र प्रयोगे प्राप्ते विशेषं दर्शयितुमाह--तृज्वत्क्रोष्टुः। प्रत्ययग्रहणपरिभाषया "तृच्" इति तृजन्तं गृह्रते। "तेन तुल्य"मिति तृतीयान्ताद्वतिः। "इतोऽत्सर्वनामस्थाने" इत्यतः "सर्वनामस्थाने" इति "सख्युरसंबुद्धौ" इत्यतो"ऽसंबुद्धाविति" चानुवर्तते। तदाह--क्रोष्टुस्तृजन्तेनेत्यादिना। "कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः। व्यपदेशश्च सप्तैतानतिदेशान् प्रचक्षते"। इति व्यतिदेशाः सप्त, तत्र प्राधान्यादिह तृजन्तरूपमेव अतिदिश्यते, तच्च न "कर्तृ" "भर्तृ" इत्यादि तृजन्तं रूपं, किंतु "क्रोष्टु" इत्येव तृजन्तरूपमतिदिश्यते। क्रुशधातोरुपस्थितत्वात्, अर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह--क्रोष्टुशब्दस्य स्थाने इति। निमित्तादीनामुदाहरणानि तु तत्र तत्र प्रधर्शयिष्यामः। क्रोष्टृ स् इति स्थिते।

तत्त्व-बोधिनी
तृज्वत्क्रोष्टुः २३५, ७।१।९५

तृज्वत्क्रोष्टुः। "क्रुश आह्वाने रोदने च"। अस्मा"त्सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्िति तुन्प्रत्यये क्रोष्टुशब्दः। तृचि तु क्रोष्टृशब्दः। द्वावपि श्रृगालवचनौ। तत्राऽविशेषेण द्वयोः प्रयोगे प्राप्ते "सर्वष्टु" रिति तुन्नन्तात्प्रथमा। "तृज्व"दिति तृतीयान्ताद्वतिः। निमित्तेव्यपदेशतादात्म्यशास्त्रकार्यरूपविषयकत्वेनातिदेशस्यानेकविधत्वेऽपि प्राधान्यादिह रूपमेवातिदिश्यते [इत्याह--तृजन्तवद्रूपमिति।]तच्च न पचादेर्यस्य कस्यचि()त्कतु क्रुशेरेव, उपस्थितत्वादर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह--क्रोष्टुशब्दस्य स्थाने क्रोष्टुशब्द इति। निमित्तोतिदेशो यथा--चिकीर्षति। चिकीर्षते। अत्र सन्नन्तस्य "पूर्ववत्सनः"इत्यनेन ञित्त्वातिदेशे कर्तृगामिनि क्रियाफले आत्मनेपदं सिध्यति। ननु कार्यातिदेशोनाप्येतद्गतार्थमिति चेदत्राहुः---निमित्तप्रतिसन्धानपूर्वकत्वात्तस्येति निमित्तातिदेशः पृथगुक्तं इति। व्यपदेशातिदेशे यथा---"आद्यन्तवदेकस्मि"न्नित्यनेन "कर्तव्य"मित्यादौ सावकाशः प्रत्ययाद्युदात्तत्वफलक आदित्वव्यपदेश औपगवादावतिदिश्यते। तादात्म्यातिदेशो यथा----"सुबामन्त्रिते पराङ्गवत्स्वरे"इत्यनेन "द्रवत्पाणी शुभस्पती"इत्यत्र शुभशब्दस्य पराङ्गवत्त्वे सति षाष्ठिकेन "आमन्त्रितस्ये"त्यनेन शकारादुकारस्याद्युदात्तत्वं सिध्यति। शास्त्रातिदेशो यथा---"कालेभियो भवव"दित्यनेन कालवाचिभ्यः "तत्र भवः"इत्यधिकारे यच्छस्त्रं तत् "सास्य देवकते"त्यर्थोऽतिदिश्यते। तेन "मासिकं""प्रावृषेण्य"मित्यत्रा यथाविहितं "कालाट्ठञ्" "प्रावृष् एण्यः"इति सिध्यति। कार्यातिदेशे तु----इह प्रकृतिपत्र्ययादीनां साङ्कर्यं स्यात्। कायातिदेशे "गोतो णित्"। गौः गावौ गावः। अत्र णित्कार्यं वृद्धि रतिदिश्यते, प्राधान्यात्। केचित्तु निमित्तातिदेशे "गोतो णि"दित्युदाहरन्ति, तन्मते कार्यातिदेशस्य "कर्मवत्कर्मणा", "स्थानिदादेशः--"इत्याद्युदाहर्तव्यम्। रूपातिदेशो यथा-वतण्डी चासौ वृन्दीरिका च वातण्ड()वृन्दरिका। अत्र वतण्डीशब्दे "पुंवत्कर्मधारये"त्यनेन पुंवाचकवातण्ड()शब्दरूपमितिदिश्यते। इह मनोरमायामतिदेशस्य षड्विधत्वमुक्तम्। अन्ये त--"कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः। व्यपदेशश्च सप्तैतानतिदेशान्प्रचक्षते।"----इति वप्तविधत्वमाहुः। अर्थातिदेशस्योदाहरणं तु--गर्गी च गग्र्यायणौ च गर्गाः। अत्र "स्त्री पुंवच्चे"--त्यनेन गोत्रप्रत्ययान्तस्त्रीव#आचकस्य "वृद्धोयूने" त्येकशेषे सति रूयर्थस्य पुमर्थोऽतिदिश्यते। तेन स्त्रियामपत्यकृतबहुत्वे "यञञोश्चे"ति लुक् सिध्यति।