पूर्वम्: ७।१।९६
अनन्तरम्: ७।१।९८
 
सूत्रम्
विभाषा तृतीयाऽ‌ऽदिष्वचि॥ ७।१।९७
काशिका-वृत्तिः
विभाषा तृतीयादिष्वचि ७।१।९७

तृतीयादिषु विभक्तिषु अजादिषु क्रोष्टुर्विभाषा तृज्वद् भवति। क्रोष्ट्री, क्रोष्टुना। क्रोष्ट्रे क्रोष्टवे। क्रोष्टुः, क्रोष्टोः। क्रोष्टरि, क्रोष्टौ। क्रोष्ट्रोः, क्रोष्ट्वोः। तृतीयादिषु इति किम्? क्रोष्टून्। अचि इति किम्? क्रोष्टुभ्याम्। क्रोष्टुभिः। तृज्वद्भावात् पूर्वविप्रतिषेधेन नुम्नुटौ भवतः। प्रियक्रोष्टुने अरण्याय। हतक्रोष्टु वृषलकुलाय। नुट् क्रोष्टूनाम्।
लघु-सिद्धान्त-कौमुदी
विभाषा तृतीयादिष्वचि २०८, ७।१।९७

अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥
न्यासः
विभाषा तृतीयादिष्वचि। , ७।१।९७

"स्त्रियाम्()" ७।१।९६ इति नानुवत्र्तते, तेनेयमप्राप्तविभाषा। "क्रोष्टुना" इति। "आङो नास्त्रियाम्()" ७।३।११९ इति नाभावः। "क्रोष्टवे" इति। "घेर्ङिति" ७।३।१११ इति गुणः। "क्रोष्टुः" इति। "ऋत उत्()" ६।१।१०७ इत्युत्त्वम्(), रपरत्वम्(), "रात्? सस्य" ८।२।२४ इति सलोपः। "क्रोष्टोः" इति। पूर्ववद्गुणः, "ङसिङसोश्च" (६।१।११०) इति पूर्वरूपत्वम्? "क्रोष्टरि इति। "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणः। "क्रीष्टौ" इति। "अच्च घेः" ७।३।११८ इत्यत्त्वम्(), औत्त्वञ्च। "तृज्वद्भावात्()" इत्यादि। तृज्वद्भावस्यावकाशः--पुंसि क्रोष्ट्रो इति, नुमोऽवकाशः--त्रपुणे, जतुन इति; प्रियक्रोष्टुने वनायेत्यत्रोभयप्रसङ्गे सति नुम्भवति पूर्वविप्रतिषेधेनेति। नुटोऽवकाशः--अग्नीनाम्(), वायूनामिति, तृज्वद्भावस्यावकाशः स एव; क्रोष्ट्रनामित्यत्रोभयप्रसङ्गे सति नुङ्? भवति पूर्वविप्रतिषेधेनेति। पूर्वविप्रतिषेधस्तु परशब्दस्येष्टवाचित्वा ल्लभ्यते॥
बाल-मनोरमा
विभाषा तृतीयादिष्वचि २७६, ७।१।९७

विभाषा तृतीया। "तृज्वत्क्रोष्टु"रित्यनुवर्तते। "अची"ति तृतीयादिविभक्तिविशेषणं, तदादिविधिस्तदाह--अजादिष्विति। क्रोष्ट्रेति। तृज्वद्भावे क्रोष्टृ-आ इति स्थिते ऋकारस्य यण् रेफः। एवं क्रोष्ट्रे इति। तृज्वद्भावाऽभावपक्षे-क्रोष्टुना क्रोष्टवे-शम्भुवत्।

तत्त्व-बोधिनी
विभाषा तृतीयादिष्वचि २३८, ७।१।९७

विभाषा तृ। "यस्मिन्विधिस्तदादौ"इति तदादिविधिरित्याह--अजादिष्विति।