पूर्वम्: ७।२।५५
अनन्तरम्: ७।२।५७
 
सूत्रम्
उदितो वा॥ ७।२।५६
काशिका-वृत्तिः
उदितो वा ७।२।५६

उदितो धातोः क्त्वाप्रत्यये परतो वा इडागमो भवति। शमु शमित्वा, शान्त्वा। तमु तमित्वा, तान्त्वा। दमु दमित्वा, दान्त्वा।
लघु-सिद्धान्त-कौमुदी
उदितो वा ८८५, ७।२।५६

उदितः परस्य क्तव इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥
न्यासः
निरः कुषः। , ७।२।५६

"कुष निष्कर्षे" (धा।पा।१५१८)। अस्योदात्तत्वान्नित्यामिटि प्राप्ते विकल्पार्थं वचनम्()। "निष्कोष्टा" इति। "शर्परे विसर्जनीयः" ८।३।३५ इत्यस्यानुवृत्तेः "इदुदुपधस्य चाप्रत्ययस्य" ८।३।४१ इति विसर्जनीयस्य षत्वम्()। ननु च सकारान्तोऽयमुपसर्गः, तथा प्रादिषु निसिति पठ()ते, न तु निरिति, तस्मात्? "निसः" इति वक्तुं युक्तम्(), न निर इति; यथा--निसस्तपतावनासेवने" ८।३।१०४ इति, तत्? किमर्थं तिर इति निर्देशः? इत्याह--"निसः" इति। "वक्तव्ये" इत्यादिना रेफान्तस्यास्तित्वज्ञापने प्रयोजनमाह। "तेन" इत्यादि। स्यादेतत्()। निस इति रुत्वे कृते लत्वं भविष्यतीत्याह--"निसो हि" इत्यादि। "निलयनम्()" इति। अयतेर्ल्युटि रूपम्()॥
न्यासः
उदितो वा। , ७।२।५६

"शान्त्वा" इति। "शमु उपशमे" (धा।पा।१२०१), "तमु काङ्क्षायाम्()" (धा।पा।१२०२), "दमु उपशमे" (धा।पा।१२०३), "भ्रमु चलमे" (धा।पा।८५०), "क्रमु पादविक्षेपे" (धा।पा।४७३)। अनिट्पक्षे "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घः। वाग्रहणं विस्पटार्थम्()। उदितां ह्रुदात्तत्वादिट्? सिद्ध एव, तत्रारम्भसामथ्र्यादेव विकल्पेन विधिर्विज्ञास्यते। उत्तरार्थ चावश्यं वाग्रहणं कत्र्तव्यम्(), तद्धिस्पष्टार्थमिहैव क्रियते॥
तत्त्व-बोधिनी
उदितो वा १५९६, ७।२।५६

द्यूत्वेति। इडभावपक्षे "च्छ्वो"रित्यूठ्।