पूर्वम्: ७।२।६३
अनन्तरम्: ७।२।६५
 
सूत्रम्
बभूथाततन्थजगृम्भववर्थेति निगमे॥ ७।२।६४
काशिका-वृत्तिः
वभूथाऽततन्थजगृभ्मववर्थ इति निगमे ७।२।६४

बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये। निगमो वेदः। त्वं हि होता प्रथमो बभूथ। बभूविथ इति भाषायाम्। आततन्थ येनानतरिक्षमुर्वाततन्थ। आतेनिथ इति भाषायाम्। जगृभ्म जगृभ्मा ते दक्षिणमिन्द्र हस्तम्। जगृहिम इति भाषायाम्। ववर्थ ववर्थ त्वं हि ज्योतिषा। ववरिथ इति भाषायाम्। क्रादिसूत्रादेव अस्य प्रतिषेधो सिद्धे नियमार्थं वचनम्, निगमे एव, न भषायाम् इति।
न्यासः
बभूथाततन्थजगृभ्मववर्थेति निगमे। , ७।२।६४

बभूथेत्यादौ सर्वत्र क्रादिनियमादिटः प्राप्तस्याभावो निपात्यते। "बभूथ" इति। "भवतेरः" ७।४।७३ इत्यभ्यासस्याकारस्यात्वम्()। "बभूविथ" इति। "भुवो वुग्लुङ्लिटोः" ६।४।८८ इति वुक्()। "आततन्थ" इति। "तनु विस्तारे" (धा।पा।१४६३), आङ्पूर्वः। "अतेनिथ" इति। "थलि च सेटि" ६।४।१२१ इत्येत्त्वाभ्यासलोपौ। "जगृभ्म" इति। "भुवो वुग्लुङ्()लिटोः" (६।४८८) इति वुक्()। "आततन्थ" इति। "तनु विस्तारे" (धा।पा।१४६३), आङ्पूर्वः। "अतेनिथ" इति। "थलि च सेटि" ६।४।१२१ इत्येत्त्वाभ्यासलोपौ। "जगृभ्म" इति। ग्रहेर्लिट्(), "परस्मैपदानाम्()" ३।४।८२ इत्यादिना मसो मादेशः, "ग्रहिज्या" ६।१।१६ इति सूत्रेण सम्प्रसारणम्()। "ववपर्थ" इति। "वृञ्? वदणे" (धा।पा।१२५४)॥
बाल-मनोरमा
बभूथाततन्थजगृभ्मववर्थेति निगमे ३५७, ७।२।६४

निगमो- वेदः। तदाह-- एषां वेदे इति। ननु "कृसृभृवृ" इतिनिषेधादेव थलि ववर्थेति सिद्धे किमर्थं ववर्थग्रहणमित्यत आह-- तेन भाषायां थलीडिति। निगमे एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः। व्रवे व्रवाते। ववृषे। "वृ()तो वा" इति मत्वाह -- वरितावरीतेति।

तत्त्व-बोधिनी
बभूथाततन्थजगृभ्मववर्थेति निगमे ३१२, ७।२।६४

बभूथाततन्थ। भूधातोस्तनोतेश्च थलि इडभावो निपात्यते। "त्वं हि होता प्रथमो बभूथ"। "येनान्तरिक्षमुर्वा ततन्थ"। भाषायां तु बभूविथ तेनिथ। "जगृम्भा तेदक्षिणमिन्द्र हस्तम्"। भाषायां तु जगृहिम। वृणोतेस्थलि क्रादिसूत्रेणेण्निषेधे सिद्धेऽपि निगम एव निषेधो नान्यत्रेति। नियमार्थं ववर्थग्रहणम्। "ववर्थ त्वं हि ज्योतिषाम्"। भाषायां तु ववरिथ। ववृषे।