पूर्वम्: ७।२।७०
अनन्तरम्: ७।२।७२
 
सूत्रम्
अञ्जेः सिचि॥ ७।२।७१
काशिका-वृत्तिः
अज्ञेः सिचि ७।२।७१

अञ्जेः सिचि इडागमो भवति। आञ्जीत्, आञ्जीष्टाम्, आञ्जिषुः। सिचि इति किम्? अङ्क्ता अञ्जिता। ऊदित्वाद् विभाषा भवति।
लघु-सिद्धान्त-कौमुदी
अञ्जेः सिचि ६७४, ७।२।७१

अञ्जेः सिचो नित्यमिट् स्यात्। आञ्जीत्॥ तञ्चू संकोचने॥ १५॥ तनक्ति। तञ्चिता, तङ्क्ता। ओविजी भयचलनयोः॥ १६॥ विनक्ति॥ विङ्क्तः। विज इडिति ङित्त्वम्। विविजिथ। विजिता। अविनक्। अविजीत्॥ शिषॢ विशेषणे॥ १७॥ शिनष्टि। शिं शिंष्टः। शिंषन्ति। शिनक्षि। शिशेष। शिशेषिथ। शेष्टा। शेक्ष्यति। हेर्धिः। शिण्ड्ढि। शिनषाणि। अशिनट्। शिंष्यात्। शिष्यात्। अशिषत्॥ एवं पिषॢ संचूर्णने॥ १८॥ भञ्जो आमर्दने॥ १९॥ श्नान्नलोपः। भनक्ति। बभञ्जिथ, बभङ्क्थ। भङ्क्ता। भङ्ग्धि। अभाङ्क्षीत्॥ भुज पालनाभ्यवहारयोः॥ २०॥ भुनक्ति। भोक्ता। भोक्ष्यति। अभुनक्॥
न्यासः
अञ्जेः सिचि। , ७।२।७१

"अन्जू व्यक्तिम्रक्षणकान्तिगतिषु" ["व्यक्तिमर्षणकान्तिगतिषु--धा।पा।] (धा।पा।१४५८)। ऊदित्त्वादत्र स्वरत्यादिसूत्रेण ७।२।४४ विकल्पे प्राप्ते नित्यार्थ वचनम्()। "आञ्जीत्()" इति। "इतश्च" इतीकारलोपः, "अस्तिसिचोऽपृक्ते" (७।३।९६) इतीट्? "इट ईटि" ८।२।२८ इति सिचो लोपः, "आडजादीनाम्()" (६।४।७२) इत्याट्? "आटश्च" ६।१।८७ इति वृद्धिः। "आञ्जिष्टाम्()" इति। "तस्थस्थमिपाम्()" इति झेर्जुस्()॥
बाल-मनोरमा
अञ्जेः सिचि ९२६, ७।२।७१

अञ्जेः सिचि। "इडत्त्यर्ती" त्यत इडित्यनुवर्तते। ऊदित्()तवादेव सिद्धे नित्यार्थमिदम्। तदाह -- अञ्जेरित्यादिना। तञ्चू सङ्कोचने। नोपधः कृतपरसवर्णनिर्देशः। अञ्जूवद्रूपाणि यथायोग्यमूह्रानि। ओ विजीति। ओकार इत्। अनिट्सु इरितो ग्रहणादयं सेट्। रुधादयः।

॥ इति बालमनोरमायाम् रुधादयः॥

अथ समासान्तप्रकरणम्।

-----------------

तत्त्व-बोधिनी
अञ्जेः सिचि १०३७, ७।२।७१

अञ्जेः सिचि। नित्यमिट् स्यादिति। विभाषाग्रहमं नानुवर्तत इति भावः। सिचि किम्?। अङ्क्ता। पृची। ईदित्त्वान्निष्ठायां नेट्। पृक्तः "अपृक्त एका"लित्यत्र नञ्पूर्वः।

इति तत्त्वबोधिन्याम् रुधादयः।