पूर्वम्: ७।२।७१
अनन्तरम्: ७।२।७३
 
सूत्रम्
स्तुसुधूञ्भ्यः परस्मैपदेषु॥ ७।२।७२
काशिका-वृत्तिः
स्तुसुधूञ्भ्यः परस्मैपदेषु ७।२।७२

स्तु सु धूञित्येतेभ्यः सिचि परसमिपदे परत इडागमो भवति। अस्तावीत्। असावीत्। अधावीत्। परस्मैपदेषु इति किम्? अस्तोष्ट। असोष्ट। अधोष्ट, अधविष्ट।
लघु-सिद्धान्त-कौमुदी
स्तुसुधूञ्भ्यः परस्मैपदेषु ६४९, ७।२।७२

एभ्यस्सिच इट् स्यात्परस्मैपदेषु। असावीत्, असोष्ट॥ चिञ् चयने॥ २॥ चिनोति, चिनुते॥
न्यासः
स्तुसुधूञ्भ्यः परस्मैपदेषु। , ७।२।७२

"ष्टुञ्? स्तुतौ" (धा।पा।१०४३), "षुञ्? अभिषवे" (धा।पा।१२४७)--अनयोरनुदात्तत्वात्? प्रतिषेधे प्राप्ते, धूञस्तु स्वरत्यादिसुत्रेण ७।२।४४ विकल्पे प्राप्ते सतीदमारभ्यते॥
बाल-मनोरमा
स्तुसुधूञ्भ्यः परस्मैपदेषु २२२, ७।२।७२

लुङि असौषीदिति प्राप्ते--स्तुसुधूञ्भ्यः। "इडत्त्यर्ती"त्यत इडित्यनुवर्तते। "अञ्जेः सिची"त्यतः सिचीत्यनुवृत्तं षष्ठ()आ विपरिणम्यते। तदाह-- एभ्यः सिच इति। असावीदिति। सिचि वृद्दौ "इट ईटी"ति सिज्लोपः। पूर्वोत्तराभ्यामिति। स्तुञ्धूञ्भ्यामिभ्यर्थः। सुनोतिरिति। "षुञ् अभिषवे" इति श्नुविकरणस्येत्यर्थः। असौषीदिति। इडभावे "सिचि वृद्धि"रिति भावः। असोष्यत्। श्रु श्रवणे इति। उदन्तोऽयमनिट्।

तत्त्व-बोधिनी
स्तुसुधूञ्भ्यः परस्मैपदेषु १९४, ७।२।७२

स्तुसुधूञ्भ्यः। परस्मैपदेषु किम्?। अतोष्ट। अधोष्ट।