पूर्वम्: ७।२।७७
अनन्तरम्: ७।२।७९
 
सूत्रम्
ईडजनोर्ध्वे च॥ ७।२।७८
काशिका-वृत्तिः
ईडजनोर् ध्वे च ७।२।७८

ईड जन इत्येताभ्याम् उत्तरस्य ध्वे इत्येतस्य, स्ये इत्येतस्य च सर्वधातुकस्य इडागमो भवति। ईडिध्वे। ईडिध्वम्। ईडिषे। ईडिष्व। जनिध्वे। जनिध्वम्। जनिषे। जनिष्व। जनी प्रादुर्भावे इत्यस्य छान्दसत्वात् श्यनो लुकुपधालोपाभावश्च। जन जनने इत्यस्य अपि श्लुविकरणस्य ग्रहणम् अत्र इष्यते। तस्य कर्मव्यतिहारे व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वम् इति च भवति। ध्वेशब्दे ईशेरपि इडागम इष्यते ईशिध्वे ईशिध्वम् इति। तदर्थं केचितीडिजनोः स्ध्वे च इति सूत्रं पठन्ति। तत्र सकारादेः सेशब्दस्य सूत्र एव उपादानाच् चशब्दो भिन्नक्रमः ईशेरनुकर्षणार्थो विज्ञायते। ईशीडिजनां सेध्वयोः इत्येकम् एव सूत्रं न पठितम्? विचित्रा हि सूत्रस्य कृतिः पणिनेः इति। ध्वे इति कृतटेरेत्वस्य ग्रहणात् लङि ध्वमि न भवितव्यमिटा। लोटि पुनरेकदेशविकृतस्य अनन्यत्वात् भवितव्यमिटा।
न्यासः
ईडजनोर्ध्वे च। , ७।२।७८

"ध्वे" इति। पूर्ववदेवाविभक्तिकोऽयं निर्द्देशः। "ईडिध्वे" इति। "ईड स्तुतौ" (धा।पा।१०१९), पूर्ववदात्मनेपदम्(), पूर्ववच्छपो लुक्()। "ईडिध्वम्()" इति। लोट्(), "सवाभ्यां वामौ" ३।४।९१ इत्यमादेशः। "जनिष्वम्()" इति। पूर्वदातमनेपदम्()। छान्दसत्वाच्छ्यनी लृक्? "बहुलं छन्दसि" ३।२।८८ इत्यनेन। "उपधालोपाभावश्च" इति। "गमहन" ६।४।९८ इत्यादिनोपधालोपः प्राप्नोति, तदभावश्छाब्दसत्वादेव, "सर्वे विधयश्छन्दसि विकल्प्यन्ते" (पु।प।वृ।५६) इति। "जन जनन इत्यस्य" इत्यादि। ननु सानुबन्धकत्वादस्यैव["चानुबन्धकत्वात्()"--मुद्रितः पाठः।] ग्रहणेन भवितव्यम्(), न पूर्वस्य, उच्चारणार्थोऽकारः, नानुबन्धः? नैष दोषः; इह हि लध्वक्षरत्वाज्जनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातो लक्षणव्यभिचाराय। तेन निरनुबन्धकपरिभाषाया (व्या।प।५३) इहानुपस्थानादुभयोरपि ग्रहणं भवति। "व्यतिजज्ञिध्वम्()" इति। "कत्र्तरि कर्मव्यतीहारे" १।३।१४ इति आत्मनेपदम्()। "तत्र" इत्यादि। तत्रैवं सूत्रपाठे "यस्मिन्? विधिस्तदावावल्ग्रहणे" (व्या।प।१२७) इति सकारग्रहणे सकारादेः सेशब्दस्य ग्रहणम्()। स च सकारादिशब्दः सार्वधातुकसंज्ञाकः सेशब्द एव सम्भवति; अन्यस्याऽसम्भवात्()। ननु च स्वशब्दोऽपि सम्भवति? नैतदेवम्(); एकदेशविकृतस्यानन्यत्वात्? (व्या।प।१६) सोऽपि सेशब्द एव, अतस्तद्ग्रहणेनापि भवितव्यम्()। "ये तु "ईडजनोध्र्ये च" इति। सूत्रं पठन्ति, ते "ईशः स" ७।२।७७ इत्यस्यैव योगस्यानुकर्वणार्थ चकारं कुर्वन्ति। तेनेशेरपि ध्वेशब्द इडागमो भवति। यदि तर्हीशेर()पि ध्व इडागम इष्यते, तदा "ईशीडजनां सेध्वयोः" इत्येकमेव सूत्रं कस्मान्न पठन्ति, एवं पृथग्विभक्तिर्नोच्चारयितव्या, चकारश्च न कत्र्तव्यो भवति? इत्याह--"विचित्रा सूत्रस्य" इत्यादि। "ध्व इति कृतटेरेत्त्वस्य" इत्यादि। कृतटेरेत्त्वस्यैतदेव प्रयोजनम्()--यत्र टेरेत्त्वं कृतं तत्रैव यथा स्यात्()। न च लङि टेरेत्त्तवमसिति, अतस्तत्रेटा न भवितव्यम्()। यद्येवम्(), लोट()पि न भवितव्यम्(), अमादेशे कृते टेरेत्त्वस्याभावात्()? इत्याह--"लोटि पुनः" इत्यादि॥
बाल-मनोरमा
ईडजनोर्ध्वे च २७१, ७।२।७८

ईडजनोर्ध्वे च। "इडत्यर्ती"त्यत इडिति, "रुदादिभ्यः" इत्यतः सार्वदातुक इति चानुवर्तते। से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वयं व्याख्याने तु ईशो ध्वेशब्दे परे न स्यात्, ईडजनोः सशब्दे परे न स्यादिति भावः। ननु तर्हि "ईशीडजनां सेध्वयो"रित्येकमेव सूत्रं कुतोन कृतमित्यत आह-- योगविभागो वैचित्र्यार्थं इति। "से" इत्यस्य उत्तरत्रानुवृत्तिः, "ध्वे" इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थ इत्यर्थः। स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः। ईडिषे इति। इडे ईड्वहे ईड्()महे। लिटि तु ईडाचक्रे इत्यादि। ईडिता। ईडिष्यते। ईडाम्। नतु ईडिष्वेत्यत्र कथमिट्, सेशब्दाऽभावात्। तत्राह-- एकदेशेति। एकदेशविकृतत्वात्खशब्दस्य इटि ईडिध्व इति रूपमित्यर्थः। ननु तर्हि ईड्ढ्वमित्यत्र कथं नेट्, ध्वस्वरूपापेक्षया "ध्व"मित्यस्य एकदेशविकृतत्वादित्यत आह-- विकृतीति। प्रकृतिग्रहणे तदेकदेशविकृतस्य ग्रहणम्, न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेग्र्रहणम्। "पुरुषमानये"त्युक्ते हि अन्धोऽनन्धो वा पुरु, आनीयते। "अन्धमानये" त्यत्र तु अन्ध एवानीयते न त्वनन्धः। तथा च ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः। इडै ईडावहै ईडामहै। ऐड ऐडाताम् ऐडत। ऐडाः ऐडाथाम् ऐड्ढ्वम्। ऐडि ऐड्वहि ऐड्महि। ईडीत। ईडिषीष्ट। ऐडिष्ट। ऐडिष्यत। ईशधातुरीडिवत्। ईष्टे इत्यादि। शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः। आस उपवेशने। आस्ते इति। आध्यमिति। "धि चे"त सलोपः। आसै आसावहै आसामहै। आस्त, आसाताम्, आसत। आस्थाः, आसाथाम्, आध्वम्। आसि आस्वहि, आस्महि। आसीत् आसीयाताम्। आसिषीष्ट आसिषीयास्ताम्। आसिष्टेति। आसिषातामित्यादि। आसिष्यत। आङः शासु। आङः परः शासधातुरिच्छायामित्यर्थः। नमोवाकमिति। वचेर्घञि वाकः। नमश्शब्दस्य वचनं कुर्महे इत्यर्थः। धातूनामनेकार्थत्वात्। आसिवद्रूपाणि। वस आच्छादने इति। परिधाने इत्यर्थः। वध्वे इति। "धि चे"ति सलोपः। ववसे इति। वादित्वादेत्त्वाभ्यासलोपौ नेति भावः। वसितेति। अनिट्सु शब्विकरणस्यैव वसेग्र्रहणमिति भावः। वसिष्यते। वस्ताम्। अवस्त। वसीत। वसिषीष्ट। अवसिष्ट। अवसिष्यत। कसि सि गतीति। वसधातुवत्। इदित्त्वान्नुमिति विशेषः। तालव्यान्त इति। तालव्योष्मान्त इत्यर्थः। कष्टे इति। "व्रश्चे"ति शस्य षः, ष्टुत्वम्। कक्षे इति। शस्य षः, षस्य "षढो"रिति कः, षत्वम्। कड्वे इति। शस्य षः, तस्य जश्त्वेन डः, धस्य ष्टुत्वेन ढः। णिसि चुम्बने इति। णोपदेशोऽयम्। नुमि "नश्चे"त्यनुस्वारः। निंस्ते इत्यादि। निंस्से इति। नुमोऽनुस्वारः। थासः सेभावः। दन्त्यान्तोऽयमिति। दन्त्योष्मान्तोऽयमित्यर्थः। बभ्रामेति। "नुम्विसर्जनीयशव्र्यवायेऽपी"ति सूत्रे वृत्त्यादौ दन्त्योष्मान्तत्वोक्तेरिति भावः। णिजि शुद्धाविति। णोपदेशोऽयम्। अनिट्सु इरितएव ग्रहणादयं सेट्। निङ्क्ते इति। नुमि निन्()ज् ते इति स्थिते जस्य कुत्वेन गः, तस्य चर्त्वेन कः, नस्य अनुस्वारे परसवर्णो ङकारः। निञ्जाते। निङ्क्षे निञ्जाथे निङ्ग्ध्वे। निञ्जे निञ्ज्वहे निञ्ज्महे। लिटि संयोगात्परत्वात्कित्त्वाऽभावान्नलोपो न। निनिञ्जे निनिञ्जाते इत्यादि। निञ्जिता। निञ्जिष्यते। निङ्क्ताम्। अनिङ्क्तः। निञ्जीत। निञ्जिषीष्ट। अनिञ्जिष्ट। अनिञ्जिष्यत। शिजिपिजी अप्येवम्। पृजि इत्येके इति। ऋदुपधोऽयम्। वृजीधातुरृदुपध ईदित्, अतो नुम् नेति भावः। पृची संपर्चने इति। ऋदुपधोऽयम्। पपृचे इत्यादि। ईरादयः पृच्यन्ता अनुदात्तेतो गताः। षूङ्धातुः षोपदेशः,सेट्। ङित्त्वात्तङ्। सूते इति। सुवाते सुवते।सूषे सुवाथे सूध्वे। सुवे सूवहे सूमहे। सुषुविषे इति। "स्वरती"तीड्विकल्पं बाधित्वा "श्र्युकः किती"ति निषेधे प्राप्ते, क्रादिनियमान्नित्यमिट्। "स्वरतिसूती"ति इड्विकल्पं मत्वा आह-- सोता सवितेति। तिङस्तासा व्यवधानात् "भूसुवो"रिति न गुणनिषेध इति भावः। सोष्यते सविष्यते। सूताम्। सुवाताम्। सुवताम्। सूष्व सूध्वम्। आटः पित्त्वाद्गुणे प्राप्ते आह--भूसुवोरिति। सुवै इति। सुवावहै सुवामहै। असूत। सुवीत। सविषीष्ट सोषीष्ट इत्यादि स्पष्टम्। शीङ् स्वप्ने। सेट्। ङित्त्वात्तङ्।

तत्त्व-बोधिनी
ईडजनोर्ध्वे च २३७, ७।२।७८

ईशीड्जनामिति। वैचित्र्यार्थं इति। "ध्वे" इत्यस्य पूर्वत्रापकर्षः, "से" इत्यस्योत्तरत्रानुवृत्तिरित्येवं वचित्रबोधार्थ इत्यर्थः। इह काशिकादौ जनेरुदाहरणमुक्तम्। तथा हि "जनी प्रादुर्भावे" इत्यस्माच्छयनश्चान्दसो लुक्, उपधालोपाऽभावश्च। जनिषे। जनिध्वे। जनिष्व। जनिध्वम्। "जन जनने" इति श्लुविकरणस्याप्युपधालोपे व्यतिजज्ञिषे। व्यतिजज्ञिध्वे। "कर्तरि कर्मव्यतिहारे" इति तङ्। नमोवाकमिति। "नमस्ते रुद्र मन्यवे" इत्यादि नमोवचनम्। वचेर्घञ्। "चजो"रिति कुत्वम्। ववसे इति। वादित्वादेत्वाभ्यासलोपौ न। णिखि चुम्बने। बभ्रामेति। "नुम्विसर्जनीये"ति सूत्रे वृत्तिपदमञ्जर्यादिभिरुक्तं-- "नुमादिभिः प्रत्येकं व्यवाये षत्वमिष्यते, तेन निस्से निस्त्वेत्यत्र न भवती"ति। तच्चाऽस्य सान्तत्वे युज्यते, शान्तत्वे तु "व्रश्चे"तिवत्वे "षढो"रिति कत्वे, कवर्गात्परत्वेन षत्वं दुर्वारमिति प्रत्युदाहरणमिदं न सङ्गच्छत इति भावः। णिजि शुद्धौ। अनिड्केषु णिजिरिति जौहोत्यादिकस्य ग्रहणादयं सेडिति ध्वनयति-- निञ्जितेति। शिजि अव्यक्ते शब्दे। क्तप्रत्यये---- शिञ्जितम्। आवश्यकणिन्यन्तान्ङीपि "शिञ्जिनी"। "भूषणानां तु शिञ्जितम्"। "मौर्वी ज्य#आ शिञ्जिनी गुणः" इति चामरः। सुषुविषे इति। "स्वरतिसूति" इति विकल्पं बाधित्वा "श्र्युकः किति" इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट्। शीङ् स्वप्ने।