पूर्वम्: ७।४।५३
अनन्तरम्: ७।४।५५
 
सूत्रम्
सनि मीमाघुरभलभशकपतपदामच इस्॥ ७।४।५४
काशिका-वृत्तिः
सनि मीमाघुरभलभशकपतपदाम् अच इस् ७।४।५४

सनि प्रत्यये सकारादौ परतः मी मा घु रभ लभ शक पत पद इत्येतेषाम् अङ्गानाम् अचः स्थाने इसित्ययम् आदेशो भवति। मी इति मीनातिमिनोत्योः द्वयोरपि ग्रहणम् इष्यते। मित्सति। प्रमित्सति। मा इति गामादाग्रहणेषु अविशेषः। मित्सते। अपमित्सते। घु दित्सति। धित्सति। रभ आरिप्सते। लभ आलिप्सते। शक शिक्षति। पत् पित्सति। पद प्रपित्सते। सनि इति किम्? दास्यति। सि इत्येव, पिपतिषति। तनिपतिदरिद्राणाम् उपसङ्ख्यानम् इति पतेः इडागमविकल्पः। सनि राधो हिंसायाम् अच इस् वक्तव्यः। प्रतिरित्सति। हिंसायाम् इति किम्? आरिरात्सति।
न्यासः
सनि मीमाघुरभलभशकपतपदामच इश्?। , ७।४।५४

"सः स्यार्धधातुके" ७।४।४९ इत्यतः सीत्यनुवत्र्तते, तच्च सोन विशेषणम्()। "मीति मीनातिमिनत्योः" इति। "मीञ्? हिंसायाम्()" (धा।पा।१४७६), "डुमिञ्? प्रक्षेपणे" (धा।पा।१२५०)--इत्येतयोः। ननु च "मी" इत्येतस्मिन्नुच्चार्यमाणे मिनोतेग्र्रहणं नोपपद्यते? नैवम्(); अस्यापि "अज्झनगमां सनि" ६।४।१६ इति दीर्घत्वे कृते मीत्येवं रूपं भवति। एवमपि लक्षणप्रतिपदोक्तपिभाषया (व्या।प।३) तस्य ग्रहणं नोपपद्यते? नैतदस्ति; अत्र हि घुसंज्ञकत्वात्? "घु" इत्यस्य पूर्वनिपातमकुर्वतैतत्? सूचितम्()--यथा पूर्वनिपात इह नापेक्ष्यते, तथान्यदपि किञ्चिच्छास्त्रीयं वचनमिति। तेनेयं परिभाषा नापेक्ष्यत इति युक्तं मिनोतेरपि ग्रहणम्()। "मा हि गामादाग्रहणेष्वविशेषः" इति। मेङप्रभृतीनां पूर्वोक्तानां त्रयाणां ग्रहणम्()। "घु" इति घुसंज्ञकौ "दा" "धा"--इत्यतौ गृह्रते। "रभ राभस्ये" (धा।पा।९७४), "डुलभष्? प्राप्तौ" (धा।पा।९७५), "शक्लृ शक्तौ" (धा।पा।१२६१), "शल हुल पत्लृ गतौ" (धा।पा।८४३,८४४,८४५), "पद गतौ" (धा।पा।११६९)--एषामचः स्थाने सकारादौ प्रत्यये सनीस्? भवति। अच इत्यस्य ग्रहणं सर्वादेशो मा भूदित्येवमर्थम्()। असति हि तस्मिन्ननेकाल्त्वात्? सर्वादेशः स्यात्()। "प्रमित्सनि" इति। "अत्र लोपोऽब्यासस्य" ७।४।५८ इत्यभ्यासलोपः, "सः स्यार्धधातुके" ७।४।४९ इति तस्य सः। "अपमित्सते" इति। "पूर्ववत्सनः" १।३।६२ इत्यात्मनेपदम्()। एवं आरिप्सते" "आलिप्सते" इत्यत्रापि। "खरि च" ८।४।५४ इति चत्र्वम्()--भकारस्य पकारः, "त्कोः संयोगाद्योरन्ते च" ८।२।२९ इति सलोपः॥
बाल-मनोरमा
सनि मीमाघुरभलशकपतपदामच इस् ४५१, ७।४।५४

सनि मीमा। सादौ सनीति। "सः सि" इत्यतः सीत्यनिवृत्तेरिति भावः। अभ्यासलोप इति। "अत्र लोपः" इत्यनेनेति भावः। पिस्त् स इति स्थिते आह-- स्कोरिति। दरिद्रातेः सनि "तनिपती"ति इड्विकल्पमुदाहरति-- दिदरिद्रिषति। दिदरिद्रासतीति। डु मिञिति। "डु मिञ् प्रक्षेपणे" स्वादिः, "मीञ् हिंसायाम्" क्र्यादिः, आभ्यां सन्नित्यर्थः। "सनि मीमे"त्यतर् मीग्रहणेन एतयोरुभयोग्र्रहणमिति भावः। ननु मीति दीर्घश्रवणात् डु मिञ् इत्यस्य ह्यस्वान्तस्य कथं ग्रहणमित्यत आह-- कृतदीर्घस्येति। डु मिञ्()धातोः सनि "अज्झने"ति कृतदीर्घस्य, तथा "मीञ् हिंसाया"मिति स्वतः सिद्धदीर्घस्य च मीरूपाऽविशेषादुभयोरपि ग्रहणमित्यर्थः। सः सीति। उभयोरपि धात्वोः मी स इति स्थिते "सनि मीमे"ति इसादेशे द्वित्वे "अत्र लोपः" इत्यभ्यासलोपे "सः सी"ति सस्य तकार इत्यर्थः। मित्सति मित्सते इति। प्रकृतेर्ञित्त्वात् "पूर्ववत्सनःर" इति उभयपदित्वम्। माङ्मेङोरिति। मेङः सनि "आदेचः" सनि आत्त्वे कृते मारूपत्वाऽविशेषात् "सनि मीमे"त्यत्र उभयोरपि ग्रहणमिति भावः। दोदोणोरिति। "दो अवखण्डने" इतिधातोः सनि आत्त्वे कृते दारूपाऽविशेषाद्धुत्वादुभयोग्र्रहणमिति भावः। दित्सतीति। "हलन्ताच्चे"ति कित्तवान्नोपधागुणः। देङिति। तस्यापि कृतात्त्वस्य घुत्वात् "सनि मीमे"त्यत्र ग्रहणमिति भावः। रिप्सते इति। रभधातोः रूपम्। लिप्सते इति। लभधातो रूपम्। पित्सतीति। पत्लृधातो रूपम्। पदधातोः पित्सते इति रूपम्। सनि इस् वाच्य इति। "आकारस्ये"ति शेषः।ष रित्सतीति। सनि इसादेशः। "अत्र लोपः" इत्यभ्यासलोपः।

तत्त्व-बोधिनी
सनि मीमाघुरभलभशकपतपदामच इस् ३९१, ७।४।५४

सनि मीमा। "सः सी"त्यतः सीत्यनुवर्तते। तस्य सनो विशेषणत्वात्सादौ सनीति लाभः। मीरूपाऽविशेषादिति। ननु मिनोतेर्मीरूपस्य लाक्षणिकत्वान्मीग्रहणेन ग्रहणं न प्राप्नोति। नैष दोषः। यत्र लक्षणाभिनिर्वृत्तत्वेन शब्दरूपमपेक्ष्यते तत्र "लक्षणप्रतिपदोक्तयो"रिति परिभाषोपस्थानं न तु यत्र प्रयोगाश्रयणं तत्रेति "इको झ"लिति सूत्रे कैयटेनोक्तत्वात्। तस्यायमाशयः-- मीरूपमात्रस्य प्रयोगाऽत्राश्रितः। "विभाषा दिक्समासे" इत्यत्र तु लक्षणाभिनिर्वृत्तस्य समासशब्दस्याश्रयणात् "दिङ्नामान्यन्तराले इति प्रतिपदोक्त एव समास आश्रीयते इति। लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वात्क्वचिदुपतिष्ठते क्वचिन्नोपतिष्ठते इतितु निष्कृष्टोऽर्थः। मित्सतीति। "हलन्ताच्चे"ति कित्त्वान्नोपधागुणः। शिक्षतीति। ननु निरनुबन्धपरिभाषया "शक मर्षणे" इत्यस्यैव ग्रहणमुचितमिति चेत्। अत्राहुः-- इयं हि परिभाषा प्रत्ययग्रहणविषया। अत ए "जृ()व्रश्च्यो"रित्यत्र जजृ()षोरुभयोग्र्रहणमिति न्यासकारेणोक्तमतोऽत्रापि स्वादिदैवादिकयोग्र्रहणं युक्तमेवेति।