अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराज् जश्च। चिखनिषति। चिच्छित्सति। टिठकारयिषति। तिष्ठासति। पिफकारयिषति। बुभूषति। जिघत्सति। ढुढौकिषते। प्रकृतिचरां प्रकृतिचरो भवन्ति। चिचीषति। टिटीकिषते। तितनिषति। प्रकृतिजशां प्रकृतिजशो भवन्ति। जिजनिषते। बुबुधे। ददौ। डिड्ये।
अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥
चकारेण चश्ग्रहणमनुवत्र्तते, तेनोत्तरत्र तदनुवृत्तिर्न भवति। "चिखनिषति" ति। खनतेः सन्(), द्विर्वचनम्(), हलरादिशेषः, "कुहोश्चुः"
७।४।६२ इति चुत्वम्()--छकारः, तस्थानेन चकारः। "चित्छित्सति"["चिच्छित्सति"--का।प्रांउ।पाठो] इति। छिदेः सन्(), द्विर्वचनम्(), "छे च"
६।१।७१ इति तुक्(), चुत्वम्()। "ठिठकारयिषति" इति। ठकारमाचष्ट इति "तत्करोति तदाचष्टे" (धा।२००, २०१) इति णिच्(), इष्ठवद्भावाट्()टिलोपः, सन्(), इट्(), गुणः, अयादेशः। "तिष्ठाससि" इति। "शर्पूर्वाः खयः"
७।४।६१ शेषः। "पिफकारयिषति" इचि। "टिठकारयिषतीत्यनेन तुल्यसाधनम्()। अयं तु विशेषः--फकारशब्दाण्णिच्()।
"प्रकृतिचरा प्रकृतिचरो भवन्ति" इति। जश्त्वबाधनार्थम्()" पर्जन्यवल्लक्षण (व्या।प।८३) प्रवृत्त्या प्रकृतिरूपाश्चरः प्रकृतिचरः स्थानिनाऽभिन्नरूपा इत्यर्थः। "चिचीषति" इति। "अज्झनगमां सनि"
६।४।१६ इति दीर्घः। "तितीर्षति"[न स्तः--काशिकायाम्()] इति। "ऋत इद्धातोः"
७।१।१०० इतीत्त्वं रपरत्वं च, "हलि च"
८।२।७७ इति दीर्घः। "जिझकारयिषति" [न स्तः--काशिकायाम्()] इति। टिठकारयिधतीत्यनेन तुल्यसाधनम्()। अत्र झकारशब्दाण्णिजि विशेषः। "जिघत्सति" इति। अदेः सन्(), "लुङसनोर्घस्लृ"
२।४।३७ इति धस्लादेशः पूर्ववदभ्यासस्य चुत्वम्()--झकारः, तस्य जश्त्वम्()--जकारः, "सः स्यार्धधातुके"
७।४।४९ इति सकारस्य तकारः। "डुढौकिषते" इति। ढौकतेः सन्()।
"प्रकृतिजशां प्रकृतिजशो भवन्ति" इति।
चर्वाधनार्थं पूर्ववत्? प्रकृत्या स्थानिनाऽभिन्नरूपा जशः प्रकृतिजशः। "जिजनिषते" इति।
"पूर्ववत्? सनः"
१।३।६२ इत्यात्मनेपदम्()। "बुबुधे" इति। अनुदात्तेत्त्वादात्मनेपदम्(), "लिटस्तझयोरेशिरेच्()"
३।४।८१ इत्येश्()। "ददौ" इति। "आत औ णलः"
७।१।३४ इत्यौत्त्वम्()। "डिड()ए इति।
"डीङ्? विहायसा गतौ" (धा।पा।९६८), पूर्ववदेशादेशः, स्थानिवद्भावड्डीत्यस्य द्विर्वचनम्()॥