पूर्वम्: ७।४।५५
अनन्तरम्: ७।४।५७
 
सूत्रम्
दम्भ इच्च॥ ७।४।५६
काशिका-वृत्तिः
दम्भ इच्च ७।४।५६

दम्भेः अच इकारादेशो भवति, चकारातीत् च सनि सकारादौ परतः। धिप्सति, धीप्सति। सि इत्येव, दिदम्भिषति।
न्यासः
दम्भ इच्च। , ७।४।५६

चोन्तिन्॥।
न्यासः
दम्भ इच्च। , ७।४।५६

"धिप्सति, धीप्सति" इति। "दन्भु दम्भे" (धा।पा।१२७०)। तस्य यदा "सनीवन्तर्ध" ७।२।४९ इत्यादिनेण्न क्रियते, सनि सकारादाविकारः, ईकारश्च, "हलन्ताच्च" १।२।१० इति कित्त्वादनुनासिकलोपः, भकारस्य चर्त्त्वे पकारः॥
बाल-मनोरमा
दम्भ इच्च ४४९, ७।४।५६

दम्भ इच्च। "सनि मीमे"त्यतः सनीति, अच इति चानुवर्तते। चकारात् "आप्ज्ञप्यृधा"मिति सूत्रादीदिति समुच्चीयते। "सः सी"त्त सीत्यनुवृत्तं सनो विशेषणं, तदादिविधिः। तदाह-- दम्भेरच इत्यादि। अभ्यासलोप इति। "अत्र लोपः" इत्यनेने"ति शेषः। दिम्भ् स इति स्थिते इक्समीपादनुस्वारादव्यवहितपरत्वाऽभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुपपादयति -- हलन्ताच्चेत्यत्रेति। हल्ग्रहणं हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिरपरिमिति प्रागुक्तमित्यर्थः। ततः किमित्यत आह-- तेनेति। धिप्सतीति। "सनीवन्ते"ति इडभावे इत्त्वे रूपम्। धीप्सतीति। इडभावे इत्त्वे च रूपम्। दिदम्भिषतीति। इट्पक्षे सनो झलादित्वाऽभावादकित्त्वान्नलोपो नेति भावः। शिश्रीषतीति। "सनीवन्ते"ति इडभावे "अज्जने"ति दीर्घः। सनः कित्तवान्न गुणः। इट्पक्षे आह-- शिश्रयिषतीति। अझलादित्वान्न कित्त्वं, नाप्यज्झनेति दीर्घः। स्वृधातोः सनि ऋकारस्य उत्त्वविधिं स्मारयति-- उदोष्ठ()एति। सुस्वूर्षतीति। "सनीवन्ते"ति इडभावे ऋकारस्य "अज्झने"ति दीर्घे कृते उत्त्वे रपरत्वे "उपधायां चे"ति दीर्घ इति भावः। सिस्वरिषतीति। "स्वृ " इत्स्य द्वित्वे उदरत्वे इत्तवमिति भाव-। युयूषतीति। "सनीवन्ते"ति इडभावे "अज्झने"ति दीर्घः। यियविषतीति। इट्पक्षे "द्विर्वचनेऽची"ति गुणनिषेधात् "यु"इत्यस्य द्वित्वम्। "ओः पुयण्जी"तीत्त्वमिति भावः। ऊर्णुनूषतीति। "सनीवन्ते"ति इडभावपक्षे "न न्द्रा" इति रेफं वर्जयित्वा नुस् इत्यस्य द्वित्वे "अज्झने"ति दीर्घः। "इको झलि"ति सनः कित्त्वान्न गुणः। इट्पक्षे तु "विभाषणोर्णो"रिति सनो ङित्त्वविकल्पं मत्वाह---ऊर्णुनुविषति। ऊर्णुनविषतीति। ङित्त्वपक्षे गुणाऽभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवङ्। ङित्त्वाऽभावपक्षे "नु"इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः। उभयत्राप्यभ्यासे उवर्णः श्रूयते। ननु ङित्त्वाऽभावपक्षे ऊर्णुं इस इति स्थिते द्वित्वात्, प्रागेव परत्वाद्गुणे अवादेशे च कृते नव्शब्दस्य द्वित्वेऽभ्यासस्याऽत इत्त्वे ऊर्णिनविषतीति अभ्यासे इकार एव श्रूयेत, नतु उकार इत्याशङ्क्य निराकरोति-- द्विर्वचनेऽचीति। अस्मिन् सूत्रे "स्थानिव"दित्यनुवत्र्य रूपातिदेशं चाश्रित्य द्वित्वनिमित्ते अचि परे योऽजादेशः स द्वित्वे कर्तव्ये स्थानिरूपं प्रतिपद्यते इत्येकोऽर्थः। "न पदान्ते"त्यतो नेत्यनुवर्त्त्य द्वित्वनिमित्ते अचि योऽजादेशः स न स्याद्()द्वित्वे कर्तव्ये इत्यन्योऽर्थः। तत्र प्रथमव्याख्याने तु कृतस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्या "नु"इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते। द्वितीव्याख्यानेऽपि द्वित्वात् प्राग्गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः। ननु ऊर्णु इस इति सन्नन्तस्य द्वित्वरूपकार्यभाक्त्वेन तदन्तर्गतसय् इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम्, "नहि कार्यी निमित्ततया आश्रीयते" इत्युक्तेः। तथा च द्वित्वे कर्तव्ये द्वित्वनिमित्ताऽच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यते इत्याशङ्क्य निराकरोति-- न च सन्नन्तस्येति। कार्यमनुभवन्निति। अत्र व्याख्यानमेव शरणम्। न चेह सन्निति। कितं नुशब्द इत्यर्थः। बुभूर्षतीति। "सनीवन्ते"ति इडभावपक्षे भृ स इति स्थिते "अज्झने"ति दीर्घे "उदोष्ठ()पूर्वस्ये"त्युत्त्वे रपरत्वे उत्तरखण्डस्य "हलि चे"ति दीर्घः। सनः कित्त्वान्न गुण इति भावः। इट्पक्षे आह-- बिभरिषतीति। भृ इस इति स्थिते द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः। ज्ञपिः पुगन्तो भित्संज्ञक इति। "सनीवन्ते"ति सूत्रे गृह्रते" इति शेषः। "मारणतोषणनिशामनेषु ज्ञे"ति घटादौ।ततो हेतुमण्णौ पुकि घटादित्वेन मित्त्वादुपधाह्यस्वे ज्ञपीति ण्नय्तो गृह्रत इत्यर्थः। पकारान्तश्चौरादिकश्चेति। "ज्ञप मिच्चे"ति यः स्वतः परकारान्तः पठितश्चुरादौ, न तु पुगन्तः, सोऽपि "सनीवन्ते"ति सूत्रे गृह्रते इत्यर्थः। इडभावे इति। उभयविधादपि ण्यन्ताज्ज्ञपीत्यस्मात्सनि इडभावपक्षे णेः परसय् सनः "इको झल्" इति कित्त्वाण्णेर्गुणो नेत्यर्थः। परत्वादिति। णेर्लोपे सति अचोऽभावान्न दीर्घ इति भावः। तथा च "ज्ञी" बित्यस्य द्वित्वे हलादिशेषे "अत्र लोपःर" इत्यभ्यासलोपे परिनिष्ठितमाह-- ज्ञीप्सतीति। इट्पक्षे आह-- जिज्ञपयिषतीति। सनधातोः सनि आह-- जनसनेत्यात्त्वमिति। "नकारस्ये"ति शेषः। सिषासतीति। आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य ह्यस्वे अत इत्त्वे षत्वे रूपम्। नच "स्तौतिण्योरेवे"ति नियमान्न ष इति शङ्क्यं, सनः षत्वे सत्येव तत्प्रवृत्तेः। इट्पक्षे त्वाह-- सिसनिषतीति। अत्र "जनसने"त्यात्त्वं तु न, सनो झलादित्वाऽभावात्। "स्तौतिण्योरेवे"ति निमयान्न ष इति भावः। तनिपतीति। प्राप्तविभाषेयम्।

तत्त्व-बोधिनी
दम्भ इच्च ३९०, ७।४।५६

यियविषतीति। "द्विर्वचनेऽचीत्यादेशनिषेधाद्द्वित्वे कृतेऽभ्यासस्योवर्णस्येत्वम्। ऊर्णुनूषतीति। इडभावे "अज्झनगमा"मिति दीर्घः। इट्पक्षे तु "विभाषोर्णो"रिति वा ङित्त्वम्। न चेह सन्निति।किं तु नुशब्द इत्यर्थः। कित्त्वान्न गुण इति। णिचः स्थाने इत्यर्थः।

*आशङ्कायां सन्वक्तव्यः। स्वा मुमूर्षतीति। एक()आविषया मरणशङ्केति बोधः। मरणाऽ‌ऽशङ्काविषयो भवतीत्यन्ये। "पूर्ववत्सनः" इत्यात्मनेपदमिह न शङ्क्यं, "शदे"रित्यादसूत्रद्वये "सनो ने"त्यनुवर्त्त्य वाक्यभेदेन व्याख्येयमिति वक्ष्यमाणत्वात्।