पूर्वम्: ८।१।२४
अनन्तरम्: ८।१।२६
 
सूत्रम्
पश्यार्थैश्चानालोचने॥ ८।१।२५
काशिका-वृत्तिः
पश्यार्थैश् च अनालोचने ८।१।२५

पश्यार्थाः दर्शनार्थाः। दर्शनं ज्ञानम्, आलोचनम्, चक्षुर्विज्ञानम्। तैः पश्यार्थेरनालोचने वर्तमानैर् युक्ते युष्मदस्मदोः वान्नावादयो न भवन्ति। ग्रामस्तव स्वं समीक्ष्यागतः। ग्रामो मम स्वं समीक्ष्यागतः। ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः। ग्रामो मह्यं दीयमानं समीक्ष्यागतः। ग्रामस्त्वां समीक्ष्यागतः। ग्रामो मां समीक्ष्यागतः। अनालोचने इति किम्? ग्रामस्त्वा पश्यति। ग्रामो मा पश्यति। पश्यार्थैर् युक्तयुक्ते ऽपि च प्रतिषेध इष्यते। तथा च एव उदाहृतम्।
न्यासः
पश्यार्थैश्चानालोचने। , ८।१।२५

पश्यार्थैरिति बहुव्रीहिः। तत्र "पश्य" इति यदि "पाध्रध्माधेट्वृशः शः" (३।१।१३७) इति कत्र्तरि शप्रत्ययान्तः स्यात्? ततो द्रष्ट्रर्थैरित्यर्थः स्यात्()। एवं च "अनालोचने" इति प्रतिषेधो दुर्घटः स्यात्()। तस्मादालोचनशब्दोऽयं भावसाधनः--आलोचितिरालोचनमिति। तत्र द्रष्ट्रर्थैर्युक्त प्रतिषेध उच्यमानः कः प्रसङ्गो यदालोचनवृत्तिभिर्युक्ते स्यात्(), नैव प्राप्नोति, स एधोऽनालोचन इति प्रतिषेध उच्यमानः कः प्रसङ्गो यदा लोचनवृत्तिभिर्युक्ते स्यात्(), नैव प्राप्नोति, स एवोऽनालोचन इति प्रतिषेधः कथमुपपद्यते? यदि पश्यशब्दो भावसाधनो भवति, नान्यथा। तस्मादत एव निपातनात्? "कृत्यल्युटो बहुलम्()" ३।३।११३ इति वा भावेऽत्र शप्रतत्ययः, तत्र "पाध्रा" ७।३।७८ इत्यादिना पश्यादेशः, द्वयोरकारयोः पररूपत्वम्? ६।१।९४। पश्योऽर्थो येषां ते पश्यार्था दर्शनार्था इत्यर्थः। दर्शनशब्दोऽयं चक्षुष्पर्यायोऽस्ति, यथा--"अक्ष्णोऽद्रशनात्()" ५।४।७६ इत्यत्र। अतश्चक्षुधोऽपि सम्प्रत्ययः कस्यचिन्मा भूदित्यत आह--"दर्शनं ज्ञानम्()" इति। तच्चोत्तरत्रालोचनं चक्षुज्र्ञानमिति, चक्षुज्र्ञानस्य पृथगुपादानात्(), ततोऽन्यद्विज्ञायते। "ग्रामस्त्वां समीक्ष्यागतः" इत्यादिकं साक्षाद्युक्त उदाहरणम्()। "ग्रामस्तव स्वं समीक्ष्यागतः" इत्यादिकं युक्तयुक्ते। "समीक्ष्यागतः" इति। मनसा निरूप्यागत इत्यर्थः। "ग्रामस्त्वा पश्यति" इति। चक्षुज्र्ञानेन त्वां पश्यातीत्यर्थः। "तथा चैवोदाह्मतम्()" इति। यादृशीयमिष्टिस्तदर्थरूपमेवोदाह्मतमित्यर्थः॥
बाल-मनोरमा
पश्यार्थैश्चाऽनालोचने , ८।१।२५

पश्यार्थैश्चानालोचने। दर्शनं पश्यः। "दृशिर् प्रेक्षणे" इत्यस्मादत एव निपातनाद्भावे शप्रत्ययः। "पाघ्रे"ति पश्यादेशः। पश्यः=दर्शनम् अर्थो येषां ते पश्यार्थाः, तैरिति विग्रहः। आलोचनं=चाक्षुषं ज्ञानं, तद्भिन्नमनालोचनम्, तत्र विद्यमानैः। दर्शनार्थकैरित्यर्थः। पश्येति दृशिना ज्ञानसामान्यं विवक्षितम्, अनालोचने इति चाक्षुषपर्युदासात्। तदाह--अचाश्रुषेत्यादिना। चेतसेति। देवेत्यध्याहार्यम्। हे देव मनसा त्वां चिन्तयतीत्यर्थः। परम्परेति। "न चवाहे"त्यत्र युक्तग्रहणसामथ्र्यात्साक्षात्संबन्धविवक्षा युक्ता। इह तु तद्विवक्षायां मानाऽभावात्परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थः। भक्तस्तवेति। देवेत्यध्याहार्यम्। इह तवेत्यस्य रूपेणान्वयो न तु साक्षाद्भ्यायतिनेति भावः। "अनालोचने" इत्यस्य प्रयोजनमाह--आलोचना त्विति।

तत्त्व-बोधिनी
पश्यार्थैश्चाऽनालोचने ३६०, ८।१।२५

तदेतदाह--अचाक्षुषज्ञानार्थैरिति। परम्पासम्बन्धेऽपीति। पूर्वसूत्रस्थ--"युक्त"ग्रहणेन ज्ञापितमेतद्भवत्यन्यत्र परम्परासम्बन्धेपि निषेधैति।