पूर्वम्: ८।१।३४
अनन्तरम्: ८।१।३६
 
सूत्रम्
छन्दस्यनेकमपि साकाङ्क्षम्॥ ८।१।३५
काशिका-वृत्तिः
छन्दस्यनेकम् अपि साकाङ्क्षम् ८।१।३५

हि च इति वर्तते। छन्दसि विषये हियुक्तं तिङन्तं साकाङ्क्षंअने कम् अपि नानुदात्तं भवति, एकम् अपि। कदाचिदेकं कदाचिदनेकम् इत्यर्थः। तत्र अनेकं तावत् अनृतं हि मत्तो वदति, पाप्मा एनं विपुनाति। तिङन्तद्वयम् अप्येतन् न निहन्यते। एकं खल्वपि अग्निर् हि पूर्वमुदजयत् तमिन्द्रो ऽनूदजयत् तिङन्तद्वयम् अपि हिशब्दयुक्तम् एतत्। तत्र एकम् उदजयतित्याद्युदात्तम्, अपरम् अनुदात्तम्। अजा ह्यग्नेरजनिष्ट गर्भात् सा वा अपश्यज् जनितारम् अग्ने। अजनिष्ट इत्याद्युदात्तम्, अपश्यतित्यनुदात्तम्।
न्यासः
छन्दस्यनेकमपि साकाङ्क्षम्?। , ८।१।३५

"हि च ८।१।३४ इत्येव। सहाकाङ्क्षया वत्र्तत इति साकाङ्क्षम्()। एतच्च तिङन्तस्यार्थद्वारकं विशेषणं वेदितव्यम्()। "एकमपि" इति। हीत्यनेन युक्त तिङन्तं साकाङक्षं भवतीति प्रकृतेन सम्बन्धः। अत्र च योऽप्ययमेकस्यानुदात्तत्वप्रतिषेधः, सोऽपि यत्रानेकतिङन्तं हियुक्तं तत्रैद वदितव्यः; अन्यथा यदि यत्रैकं हियुक्तं तत्रायमेकस्य हियुक्तस्य निघातप्रतिषेधोऽपिशब्दप्रायितः स्यात्(), सूत्रमिदमनुर्थकं स्यात्(); समानेनैकस्या नेकस्य वा पूर्वेणैव सिद्धत्वात्()। यथा यत्रानेकस्य हियुक्तस्य उपनिपातस्तत्रैवैकस्यानुदात्तत्वप्रतिषेधः, तथा न भवति वैयथ्र्यप्रसङ्गः; पूर्वेण नित्ये प्राप्ते विकल्पार्थत्वात्। "कदाचित्()" इत्यादिना तमेवानन्तरोक्तमर्थं विस्पष्टो करोति। "अनृतं हि मत्तो यदति पाप्मा एनं विपुनाति" इति। अत्र द्वयोरपि तिङन्तयोर्हेतुहेतुमद्भावे साकाङ्क्षता। पाप्मा मद उच्यते। यस्मादनृतं मत्तो वदति तस्मात्? पाप्मा एनं षिपुनाति शुद्धिमापादयति, मत्तस्यानृतमदोष इति कृत्वा। द्वे अपि चैते हिशब्देन युक्ते; तदर्थगतस्त हेतुहेतुमद्भावस्य तेन द्योतेतत्वात्()। तत्र वदतीत्येतत्? पचतीत्यनेन तुल्यस्वरम्()। पुनातीत्येतत्तु विकरणस्वर#एण मध्योदात्तम्()। "अग्निर्हि" इत्यादि। अत्रापि हेतुहेतुमद्भावात्? साकाङ्क्षता। यस्मादग्निरग्रे पूर्वमुदजयत्? तस्मादग्निमिन्द्र अनुश्चादुदजयत्()। "उदजयत्()" इति। उत्पूर्वाज्जयतेर्लङि रूपम्()। "एकमुदजयदित्याद्युदात्ततम्()" इति। तद्भक्तस्पाट उदात्तत्वात्()। "अपरमनुदात्तम्()" इति। तत्र निघातप्रतिषेधस्याप्राप्तेः। "अजा ह्रन्तेरजनिष्ट" इत्यादि। तत्रापि तत एव हेतो साकाङ्क्षत्वम्()। तस्मादजा ह्रग्नेर्गर्भस्य जनितारमपश्यत्? तस्मादग्नेर्गर्भमजनिष्ट जनितवती। "जनिः प्रादुर्भावे" (धा।पा।११४९) लुङ्(), "च्लेः सिच्()" ३।१।४४ इट्(), षत्वम्(), ष्टुत्वम्()। अन्तर्भावितव्यर्थोऽत्र जनिर्वेदितव्यः, अन्यथा कर्मत्वं गर्भस्य नोपपद्यते; अकर्मकत्वात्()। "अपश्यत्()" इति। दृशेर्लङ्? पाध्रादिसूत्रेण ७।३।७८ पश्यदेशः। "अजनिष्ट" इति। आद्युदात्तम्()। "अपश्यदित्यनुदात्तम्()" इति। पूर्ववत्()॥
न्यासः
आहस्थः। , ८।१।३५

"आत्थ" इति। "ब्राउवः पञ्चानामादित आहो ब्राउवः" (३।४।८४) इति लडादेशस्य सिपस्थल्? ब्राउवश्चाहादेशः, तस्यानेन थकारः, तस्य "खरि च" ८।४।५४ इति चत्त्र्वम्()--तकारः। किमर्थमादेशान्तरं क्रियते, न प्रकृतेर्विकार एव विधीयते? इत्यत आह--"आदेशान्तरकरणम्()" इत्यादि। यदि धकार आदिश्येत, ततः "झषस्तथोर्धोऽधः" ८।२।४० इति धत्वं स्यात्(), अतस्तन्निवृत्त्यर्थमादेशान्तरं क्रियते। "ह्मग्रहोः" इत्यादि। हरतेः, ग्रहेश्च यो हकारस्तस्य च्छन्दसि विवये भकारो वक्तव्यः। हकारस्येति वचनं हरत्यर्थम्()। ग्रहेस्तु "अलोऽन्त्यस्य" १।१।५१ इत्येव भविष्यति हकारस्य। "ग्रभीता" इति। तृन्(), इट्(), "ग्रहोऽलिटि दीर्धः" ७।२।३७। "जभ्रिरे" इति। ह्मञो लिट्(), "लिटस्तझयोरेशिरेच्()" ३।४।८१ इति झस्येरेच्(); यणादेशः, द्विर्वचनम्(), अभ्यासकार्यम्()। "उद्ग्राभम्()", "निग्राभम्()" इति। ग्रहेः "हलश्च" ३।३।१२१ इति घञ्()। एतत्तु सर्वं "व्यत्ययो बहुलम्()" ३।१।८५ इति वर्णव्यत्ययेनैव सिद्धम्()। वक्तव्यशब्दस्य व्याख्येयमित्येषोऽर्थो वेदितव्यः