पूर्वं सर्वमनुवर्तते गत्यर्थलोटं वर्जयित्वा। हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गम् उत्तमवर्जितं विभाषितं नानुदात्तम् भवति। हन्त प्रविश, प्रविश। हन्त प्रशाधि, प्रशाधि। सोपसर्गम् इत्येव, हन्त कुरु। निपातैर् यद्यदिहन्त इति नित्यम् अत्र निघातप्रतिषेधो भवति। अनुत्तमम् इत्येव, हन्त प्रभुनजावहै। हन्त प्रभुनजामहै।
चकारः "विभाषितं सोपसर्गमनुत्तममु"
८।१।५३ इत्यस्यानुकर्षणार्थः। "कुरु" इति। करोतेर्गुणे कृते "अत डत्सार्वधातुके
६।४।११० इत्युत्त्वम्(), "उतश्च प्रत्ययात्()"
६।४।१०६ इत्यादिना हेर्लुक्()। प्रत्ययस्वरेणान्तोदात्तमेतत्()।
"हन्त प्रभुञ्जावहै" ["प्रभुनजावहै"--प्रांउ।पाठः] इति। भुजेर्लोट्(), वहिः, टेरेत्त्वम्(), "आडुत्तमस्य पिच्च"
३।४।९२, श्नम्()। अत्रापि "निपातैर्यद्यदि"
८।१।३० इत्यादिना निघातप्रतिषेधः। अदुपदेशाल्लसार्वधातुकस्यानुदात्तत्वे
६।१।१८० कृते विकरणस्वरेण मध्योदात्तमेतत्()॥