पूर्वम्: ८।२।३०
अनन्तरम्: ८।२।३२
 
सूत्रम्
हो ढः॥ ८।२।३१
काशिका-वृत्तिः
हो ढः ८।२।३१

हकारस्य ढकारदेशो भवति झलि परतः पदान्ते च। सोढा। सोढुम्। सोढव्यम्। जलाषात्। वोढा। वोढुम्। वोढव्यम्। प्रष्ठवाट्। दिव्यवाट्।
लघु-सिद्धान्त-कौमुदी
हो ढः २५२, ८।२।३१

हस्य ढः स्याज्झलि पदान्ते च। लिट्, लिड्। लिहौ। लिहः। लिड्भ्याम्। लिट्त्सु, लिट्सु॥
न्यासः
हो ढः। , ८।२।३१

"सोढा" इति। "हो ढः" इति ढत्वे कृते "झषस्तथोर्धोऽधः" ८।२।४० इति तृचतकारस्य धत्वम्(), ष्टुत्वम्(), "ढो ढे लोपः" ८।२।१३ "सहिवहोरोदवणस्य" ६।३।१११ इत्योत्त्वम्()। "जलाषाट्()" इति। जलं सहत इति "भजो ण्विः" ३।२।६२, "छन्दसि सहः" ३।२।६३ इति ण्विः, उपधावृद्धिः उपपदसमासः, "अन्येषामपि दृश्यते" ६।३।१३६ इति पूर्वपदस्य दीर्घ, ढकारस्य जश्त्वम्()--डकारः, तस्य चत्त्र्वम्()--टकारः, "सहेः साडः सः" ८।३।५६ इति मूर्घन्यः। "प्रष्ठवाट्()" इति। "वहश्च" ३।२।६४ इति ण्विः। "चुहोः कुढौ" इत्येकयोग एव कत्र्तव्ये पृथग्योगकरणं समसंख्यात्वप्रतिषेधार्थम्()। एकयोगे तु समसंख्यत्वाज्झलादौ कुत्व पदान्ते ढत्वं स्यात्()॥
बाल-मनोरमा
हो ढः , ८।२।३१

अथ हकारान्ताः। तत्र वर्णसमाम्नायक्रममनुसृत्य हकारान्तमादौ निरूपयितुमाह--हो ढः। "ह" इति षष्ठ()न्तम्। झलो झलीत्यतो झलीत्यनुवत्र्तते। पदस्येत्यधिकृतम्। "स्कोः संयोगाद्योरन्ते चे"त्यतोऽन्ते इत्यनुवर्तते। तदाह--हस्येति। झलीति। झलि परतः पूर्वस्य हकारस्य, पदान्ते विद्यमानस्य हकारस्य वेत्यर्थः। नच डकार एव कुतो न विहित इति वाच्यं, "वा द्रुहे"त्यत्र वक्ष्यमाणत्वात्। पदान्तत्वादिति। सुलोपे सति प्रत्ययलक्षणमाश्रित्य झल्परत्वाच्चेत्यपि बोध्यम्। लिडिति। "लिह आस्वादने"क्विष्। हल्ङ्यादिना सुलोपः। हस्य ढत्वे "वावसाने" इति चत्र्वविकल्प इति भावः। लिड्भ्यामिति। स्वादिष्वसर्वनामस्थाने" इति पदत्वाज्झलां जशोऽन्ते" इति जश्त्वमिति भावः। इत्यादीति। लिड्भिः। लिड्भ्यः। लिहे। लिहः। लिहः लिहो लिहाम्। लिट्त्सु इति। लिह्-सु इति स्थिते हस्य ढः। तस्य जश्त्वेन डः। "खरि चे"ति चत्र्वस्याऽसिद्धत्वात्ततः प्रागेव "डः सी"ति धुट्। ततो डस्य चर्त्वेन टः। धुटश्चत्र्वसंपन्नस्य तकारस्याऽसिद्धत्वा"च्चयो द्वितीयाः" इति न भवति। "न पदान्ता"दिति तकारस्य ष्टुत्वं न। लिट्सु इति। धुडभावे रूपम्। हस्य ढः। तस्य जश्त्वेन डः। तस्य चर्त्वेन टः। तस्याऽसिद्धत्वा च्चयो द्वितीयाः" इति न। "न पदान्तात्" इति सस्य न ष्टुत्वमिति भावः।

तत्त्व-बोधिनी
हो ढः २८४, ८।२।३१

अथ हलन्ताः पुंलिङ्गाः। हो ढः। "झलो झलि""पदस्य""स्कोः संयोगाद्योरन्ते चे" त्यतो झलीति पदस्यान्त इति चानुवर्तते। तदाह--झलित्यादि। झलि परतः पदान्ते वा विद्यमानल्। हस्येत्यर्थः। लिडिति। "लिह आस्वादने"क्विप्। लिट्()स्विति। ढस्य जश्त्वेन डः, तस्य "खरि चे"ति चर्त्वेन टः। तस्याऽसिद्धात्वाच्चयो द्वितीया इति पक्षे टस्य ठो न। सस्य ष्टुत्वं तु न भवति, "न पदान्ताट्टो"रिति निषेधात्। लिट्()त्स्विति। ढस्य जश्त्वेन डकारे कृते चत्र्वस्याऽसिद्धत्वात्ततः प्रागेव "डः सी"ति पक्षे धुट्। तस्य चर्त्वेन तकारः, ततो डस्य चर्त्वेन टः। धुटश्चत्त्र्वस्यऽसिद्धित्वात्पक्षे "चयो द्वितीया"इति तस्या थो न। ष्टुत्वं तु तकारस्य न शङ्क्यमेव, "न पदान्ता"दिति निषेधस्याऽधुनैवोक्तत्वादिति।