पूर्वम्: ६।३।३५
अनन्तरम्: ६।३।३७
 
सूत्रम्
न कोपधायाः॥ ६।३।३६
काशिका-वृत्तिः
न कोपधायाः ६।३।३७

कोपधायाः स्त्रियाः पुंवद्भावो न भवति। पाचिकाभार्यः। कारिकाभार्यः। मद्रिकाभार्यः। वृजिकाभार्यः। मद्रिकाकल्पा। वृजिकाकल्पा। मद्रिकायते। वृजिकायते। मद्रिकामानिनी। वृजिकामानिनी। वेलिपिकायाः धर्म्यं वैलेपिकम्। कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्। इह मा भूत्, पाकभार्यः, भेकभार्यः इति।
न्यासः
न कोपधायाः। , ६।३।३६

पुर्वेण प्रकारेण प्राप्तस्य पुंवद्भावस्यायं प्रतिषेधः। "पाचिकाभार्यः, कारिकाभार्यः" इति। पाचककारक शब्दभ्यां ण्वुलन्ताभ्यां टाप्()। "प्रत्ययस्थात्? कात्पूर्वस्यात इदाप्यसुपः" ७।३।४४ इतीत्त्वम्()। अत्र "स्त्रियाः पुंवत्()" ६।३।३३ इत्यादिना प्राप्तिः। "मद्रिकाभार्यः वृजिकाभार्यः" इति। मद्रेषु भवा, वृजिषु भवेति "मद्रवृज्योः कन्? ४।२।१३० इति कन्()। अत्रापि "स्त्रियाः पुंवत्? ६।३।३३ इत्यादिना प्राप्तिः। "मद्रिकाकल्पा; वृजिकाकल्पा" इति। अत्र "तसिलादिष्वाकृत्वसुचः" ६।३।३४ इत्यनेन प्राप्()तिः। "मद्रिकायते" इत्यादौ "क्यङ्मानिनोश्च" ६।३।३५ इति प्राप्तिः। "विलेपिकाया धम्र्यम्()" इति। "लिप उपदेहे" (धा।पा।१४३३) इत्यस्माण्ण्वुल्()। "वैलेपिकम्()" इति। "अण्? महिष्यदिभ्यः" ४।४।४८ इत्यण्()। अत्र "भस्याढे तद्धिते" (वा।७३१) इति वा प्राप्तिः। "कोपधप्रतिषेधे" इत्यादि। अस्मिन्? कोपधप्रतिषेधे तद्धितवुग्रहणं कत्र्तव्यम्()। तद्धितसम्बन्धी वुसम्बन्धी ककार उपधा यस्य तत्रैव प्रतिषेधो यथा स्यात्()। इह मा भूत्()--"पाकभार्यः" इति। पाकशब्दोऽयं "अर्भकपृथुकपाका वयसि" (द।उ।३।५०) इत्यनेन कन्प्रत्ययान्तो निपातितः। अत्रासति वुग्रहण इहापि प्रतिषेधः स्यात्()। यदि तद्धितवुग्रहणं क्रियते, तर्हि "पूर्वत्रासिद्धम्()" ८।२।१ इत्यत्र यद्वक्ष्यति--"शुष्कजङ्घ" इत्यत्र--"शुषः कः" (८।२।५१) इत्यस्यासिद्धत्वात्? "न कोपधयाः" ६।३।३६ इति प्रतिषेधो न प्राप्नोतीत्यसिद्धाधिकारस्य प्रयोजनम्()" इति तन्नोपपद्यते, असत्यपि "शुषः कः" इत्यस्यासिद्धत्वेनैवात्र "न कोपधायाः" ६।३।३६ इति प्रतिषेधेन भवितव्यम्(), न ह्रत्र तद्धितसम्बन्धो ककारः नापि वुसम्बन्धी? दर्शनभेदमाश्रित्य तथाऽभिधानाददोषः। इदं हि वार्तिककारमतमाश्रित्योक्तम्()। तत्? पुनः श्लोकवार्तिककारस्य सूत्रकारमतानुसारिणो दर्शनमाश्रित्य वक्ष्यति॥
बाल-मनोरमा
न कोपधायाः ८२८, ६।३।३६

न कोपधायाः। पाचिकाभार्य इति। पाचिका भार्या यस्येति विग्रहः। पचो ण्वुल्। अकादेशटाबित्त्वानि। पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यात्। रसिकेति। रसोऽस्या अस्तीति रसिका। "अत इनिठनौ" इति ठन्। "ठस्येकः"। टाप्। पुंवत्त्वनिषेधः। पुंवत्त्वे तु टापो निवृत्तिः स्यात्। मद्रिकायते इति। मद्राख्ये देशविशेषे भवा मद्रिका। "मद्रवृज्योः कन्"। टाप्। इत्त्वम्। मद्रिकेवाटचरतीत्यर्थः। "क्यह्भानिनोश्चे"ति पुंवत्त्वं प्राप्तमिह निषिध्यते। मद्रिकामानिनीति। मद्रिकां मन्यत इत्यर्थे "मनश्चे"ति णिनिः। उपपदसमासः। इहापि "क्यङ्भानिनोश्चे"ति पुंवत्त्वं प्राप्तं निषिध्यते। उभयत्रापि पुंवत्त्वे टाबित्वर्योर्निवृत्तिः स्यात्। तद्धितवुग्रहणमिति। "न तद्धितवुकोपधायाः" इति सूत्रं पठनीयमिति यावत्। तद्धितसंबन्धी वुसंबन्धी च यः ककारस्तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति। मद्रिकायते इति।

तद्धितकोपधोदाहरण्। पचिकाभार्य इति तु वुसबन्धिकोपधोदाहरणम्। तद्धितबुग्रहणस्य प्रयोजनमाह--नेहेति। पाकेति। "अर्भकपृथुकपाका वयसी"त्युणादिषु कप्रत्ययान्तो निपातितः। अयं तद्धितस्य वुप्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः।

तत्त्व-बोधिनी
न कोपधायाः ७२६, ६।३।३६

पाचिकाभार्य इति। पचतीति पाचिका। ण्वुल्। "युवो"रित्यकादेशे टापि "प्रत्ययस्था"दितीत्त्वम्। रसिकाभार्य इति। रसोऽस्त्यास्या इति रसिका। "अत इनिठनौ"इति ठन्। मद्रिकायत इति। "क्यङ्भानिनोश्चे"ति पुंवत्त्वप्राप्तिः। मुद्रेषु भवा मद्रिका। "मद्रवृज्योः कन्"। सति तु पुंवद्भावे इत्वं न श्रूयेतेति भावः।

तद्धितवुग्रहणमिति। द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं सम्बध्यते, तद्धितग्रहणं वुग्रहणं चेत्यर्थः। पाका भार्येति। "अर्भकपृथुकपाका वयसी"ति कप्रत्ययान्तोऽयमुणादिषु निपातितः। न चायं तद्धितस्य ककारो, नापि वोः। "वयसि प्रथम्" इति ङीपं बाधित्वाऽजादित्वाट्टाप्।