अगस्त्यद्वादशनामावलिः

अगस्त्यद्वादशनामावलिः

अगस्त्यनामावलिः काश्यपः -- शिवशर्मन् महाभाग श्रुणु ते कथयाम्यहम् । यस्य विज्ञानमात्रेण स्वयमायान्ति सम्पदः ॥ ४॥ अश्रोत्रियेषु पापेषु वेदमार्गविरोधिषु । न दातव्यमिदं स्तोत्रं मन्त्रराजं महामते ॥ ५॥ ऋषिरिन्द्रस्तथानुष्टुप् छन्दो देवो घटोद्भवः । सर्वाभीष्टस्य सिध्यर्थे जपोऽयं विनियोजितः ॥ ६॥ पाटीरशैलकोटीरमणिपीठाय वेधसे । मुनये कुम्भजायोद्यदनुकम्पाब्धये नमः ॥ ७॥ लोपामुद्रासमायुक्तं महायोगासनस्थितम् । प्रसन्नं तपसां राशिं प्रणुमः कुम्भसम्भवम् ॥ ८॥ इति ध्यात्वा नमस्कृत्य जपेन्नामावलिं मनुम् । अगस्त्यः कुम्भसम्भूतो मैत्रावरुणिरब्धिपः ॥ ९॥ लोपामुद्रापतिश्श्रीमान् वातापील्वलभक्षणः । विन्ध्याद्रिमथनो योगी महामलयकेतनः ॥ १०॥ सर्वतीर्थात्मकपदो भक्ताभीष्टफलप्रदः । लोपामुद्राभुजाश्लेषहर्षरोमाञ्चमूर्तिमान् ॥ ११॥ नाम्नां द्वादशकं पुण्यमगस्त्यस्य महात्मनः । पठन्त्यपि च श‍ृण्वन्ति ते वै सुकृतिनः परम् ॥ १२॥ तेषामभीष्टदानाय भगवान् कुम्भसम्भवः । अद्याभ्युद्यत्कराम्भोजो नात्र कार्या विचारणा ॥ १३॥ यशस्यं धन्यमायुष्यं ज्ञानदं भुक्तिमुक्तिदम् । नाम्नां स्तोत्रं पठेद्विद्वान् पुरुषार्थाः करे स्थिताः ॥ १४॥ विमलहृदयमुच्चैर्वेदवेदान्तवेद्यं विधिमुखसुरपूज्यं भूतिरुद्राक्षभाजम् । मुनिवरममलाङ्ग्या धर्मपत्न्याऽऽप्तभागं कलशजमभिरामं नौमि कारुण्यमूर्तिम् ॥ १५॥ इत्येतत्परमं गुह्यं मन्त्रं सर्वार्थसाधकम् । यतीश्वरादनुप्राप्य प्राप्तवान् परमं सुखम् ॥ १६॥ नित्यप्रमोदभूयिष्ठं प्रमोदः प्राप्तसौभगः । उपर्युपरि धर्मस्य प्राप्तभूतो न संशयः ॥ १७॥ चन्दनाद्रिसमुद्भूते सत्ये शङ्करलालिते । त्वयि स्नास्ये सुप्रसन्ने पाहि मां भवसागरात् ॥ १८॥ इति मन्त्रं समुच्चार्य स्नात्वा ताम्रानदीजले । पितॄन् देवान् ऋषीन् तर्प्य नाभिदघ्नजले स्थितः ॥ १९॥ जपेन्मन्त्रमिदं मन्त्री त्रिवारं विजितेन्द्रियः । षण्मासादेव सुप्रीतस्तस्य भूयाद्घटोद्भवः ॥ २०॥ शिवशर्मन् त्वया जप्यं प्रत्यहं प्रीतिमिच्छता । इति तेन समाख्यातां कथां कलिमलापहाम् ॥ २१॥ इति ताम्रपर्णीमाहात्म्ये एकत्रिंशाध्यायान्तर्गतं अगस्त्यद्वादशनामावलिः ताम्रपर्णीमाहात्म्य । अध्याय ३१/४-२१॥ tAmraparNImAhAtmya . adhyAya 31/4-21.. Proofread by PSA Easwaran
% Text title            : Agastyadvadashanamavali
% File name             : agastyadvAdashanAmAvaliH.itx
% itxtitle              : agastyadvAdashanAmAvaliH (tAmraparNImAhAtmyAntargatA)
% engtitle              : agastyadvAdashanAmAvaliH
% Category              : deities_misc, tAmraparNImAhAtmya, dvAdasha, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : tAmraparNImAhAtmya | adhyAya 31/4-21||
% Indexextra            : (Text)
% Latest update         : December 13, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org