श्रीजनमङ्गलस्तोत्रम्

श्रीजनमङ्गलस्तोत्रम्

श्री हरये नमः । नमोनमः श्रीहरये बुद्धिदाय दयावते । भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च ॥ १॥ सुगन्धपुष्पहाराद्यैर्विविधैरुपहारकैः । सम्पूजिताय भक्तौघैः सिताम्बरधराय च ॥ २॥ नाम्नामष्टोत्तरशतं चतुर्वर्गमभीप्सताम् । सद्यः फलप्रदं नॄणां तस्य वक्ष्यामि सत्पतेः ॥ ३॥ अस्य श्रीजनमङ्गलाख्यस्य श्रीहर्यष्टोत्तरशत- नामस्तोत्रमन्त्रस्य शतानन्द ऋषिः । अनुष्टुप् छन्दः । धर्मनन्दनः श्रीहरिर्देवता । धार्मिक इति बीजम् । बृहद्व्रतधर इति शक्तिः । भक्तिनन्दन इति कीलकम् । चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानम् । वर्णिवेषरमणीयदर्शनं मन्दहासरुचिराननाम्बुजम् । पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये ॥ ४॥ श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः । भक्तिधर्मात्मजोजन्मा कृष्णो नारायणो हरिः ॥ ५॥ हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः । बृहद्व्रतधरः शुद्धो राधाकृष्णेष्टदैवतः ॥ ६॥ मरुत्सुतप्रियः कालीभैरवाद्यतिभीषणः । जितेन्द्रियो जिताहारस्तीव्रवैराग्य आस्तिकः ॥ ७॥ योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् । ज्ञानी परमहंसश्च तीर्थकृत्तैर्थिकार्चितः ॥ ८॥ क्षमानिधिः सदोन्निद्रो ध्याननिष्ठस्तपः प्रियः । सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः ॥ ९॥ पाषण्डोछेदनपटुः स्वस्वरूपाचलस्थितिः । प्रशान्तमूर्तिर्निर्दोषोऽसुरगुर्वादिमोहनः ॥ १०॥ अतिकारुण्यनयन उद्धवाध्वप्रवर्तकः । महाव्रतः साधुशीलः साधुविप्रप्रपूजकः ॥ ११॥ अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः । स्वामिनारायणः स्वामी कालदोषनिवारकः ॥ १२॥ सच्छास्त्रव्यसनः सद्यःसमाधिस्थितिकारकः । कृष्णार्चास्थापनकरः कौलद्विट् कलितारकः ॥ १३॥ प्रकाशरूपो निर्दम्भः सर्वजीवहितावहः । भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः ॥ १४॥ निर्मत्सरो भक्तवर्मा बुद्धिदाताऽतिपावनः । अबुद्धिहृद्ब्रह्मधामदर्शकश्चापराजितः ॥ १५॥ आसमुद्रान्त सत्कीर्तिः श्रितसंसृतिमोचनः । उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः ॥ १६॥ कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः । पञ्चायतनसम्मानो नैष्ठिकव्रतपोषकः ॥ १७॥ प्रगल्भो निःस्पृहः सत्यप्रतिज्ञो भक्तवत्सलः । अरोषणो दीर्घदर्शी षडूर्मिविजयक्षमः ॥ १८॥ निरहङ्कृतिरद्रोह ऋजुः सर्वोपकारकः । नियामकश्चोपशमस्थितिर्विनयवान् गुरुः ॥ १९॥ अजातवैरी निर्लोभो महापुरुष आत्मदः । अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः ॥ २०॥ मनोनिग्रहयुक्तिज्ञो यमदूतविमोचकः । पूर्णकामः सत्यवादी गुणग्राही गतस्मयः ॥ २१॥ सदाचारप्रियतरः पुण्यश्रवणकीर्तनः । सर्वमङ्गलसद्रूपनानागुणविचेष्टितः ॥ २२॥ इत्येतत्परमं स्तोत्रं जनमङ्गलसंज्ञितम् । यः पठेत्तेन पठितं भवेद्वै सर्वमङ्गलम् ॥ २३॥ यः पठेच्छृणुयाद्भक्त्या त्रिकालं श्रावयेच्च वा । एतत्तस्य तु पापानि नश्येयुः किल सर्वशः ॥ २४॥ एतत्संसेवमानानां पुरुषार्थचतुष्टये । दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः ॥ २५॥ भूतप्रेतपिशाचानां डाकिनीब्रह्मराक्षसाम् । योगिनीनां तथा बालग्रहादीनामुपद्रवः ॥ २६॥ अभिचारो रिपुकृतो रोगश्चान्योऽप्युपद्रवः । अयुतावर्तनादस्य नश्यत्येव न संशयः ॥ २७॥ दशावृत्या प्रतिदिनमस्याभीष्टं सुखं भवेत् । गृहिभिस्त्यागिभिश्चापि पठनीयमिदं ततः ॥ २८॥ इति श्रीशतानन्दमुनिविरचितं श्रीजनमङ्गलाख्यं श्रीहर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ श्रीजनमङ्गलस्तोत्रम्
% Text title            : Shri Janamangala Stotram
% File name             : janamangalastotram.itx
% itxtitle              : janamaNgalastotram (shatAnandamunivirachitam)
% engtitle              : janamangalastotram
% Category              : deities_misc, svAminArAyaNa, gurudev, mangala, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : shatAnandamuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (Texts 1, 2, 3, Scan, Swaminarayan Sampradaya 1, 2, 3, 4, nAmAvalI)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org