श्रीनिम्बार्कसहस्रनामस्तोत्रम्

श्रीनिम्बार्कसहस्रनामस्तोत्रम्

श्रीसर्वेश्वरो जयति ॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥ उपोद्घातः- अनिरुद्धः सदा त्राता निम्बार्कः पुरुषार्थवृट् । कृपाचारसुधावृष्ट्या निगमौघ-प्रवर्तकः ॥ १॥ त्रेतायुगे गत-प्राये नैमिषारण्य-वासिनः । आराधनाय कृष्णस्य विप्रा गौरमुखादयः ॥ २॥ बहुकालं तपस्तप्त्वा नारायण-परायणाः । ध्रुवमध्वरमाराध्यारेभिरे ते मखान्तरम् ॥ ३॥ नीयमाने मखे तस्मिन् विघ्नदा बहवोऽभवन् । द्वेषिभिर्ध्वंसिते यज्ञे दैत्यैः सत्कदन-प्रियैः ॥ ४॥ तपोयाग-समावृत्या ऋषयः कृष्णयाजिनः । मरुप्रस्थपुरीयास्ते ब्रह्माणं शरणं ययुः ॥ ५॥ (मरुप्रस्थपुरीयां) गत्वा योगबलेनैवमुपद्रवं न्यवेदयन् । चतुर्मुखो द्विजाध्यक्षो निवेदितमुपद्रवम् ॥ ६॥ चिन्तयन् मनसा कृष्णं समाधौ शरणं ययौ । विष्णु-प्रस्थापितं चक्रं हृयोतं(१) कमलोद्भवः ॥ ७॥ (१ ``हृदि द्योतः'' (प्रकाशः) यस्य तत् । ``प्रकाशो द्योत आतपः'' इत्यमरः (१/३/३४)) पश्यन्नुन्मील्याक्षि बहिस्तदवस्थं ददर्श ह । प्रेषयामास विप्रांस्तान् सिद्धार्थान् पुनरप्यनु ॥ ८॥ स्वकं यागं समासाद्य त्वरा-वारित-विघ्नकम् । नेमि-स्पर्श-समृद्धञ्चवर्तयाञ्चक्रिरे पुनः ॥ ९॥ कृतज्ञा निष्क्रियां(३) कर्तुं स्तावयामासुराह्-वयैः(४) । (३ निस्तारं कृतज्ञता प्रकाशनमित्यर्थः ।) (४ नामभिः इति पाठान्तरम् ।) चक्रं सुदर्शनं साक्षाद्देदीप्यमानमात्मवत् ॥ १०॥ स्तवाय प्रेरितो विप्रैर्गौरमुखो मुनीश्वरः । निम्बार्काख्या-सहस्रेण संस्तोतुमुपचक्रमे ॥११॥ सुदर्शन ! महाबाहो ! सूर्यकोटि-समप्रभ ! । अज्ञान-तिमिरान्धानां विष्णोर्मार्गं प्रदर्शय ॥ १२॥ इति सम्प्रार्थितः पित्रा ब्रह्मणा हितकारिणा । अज्ञान-तिमिरान्धानां सम्प्रदाय-सुदुष्टये ॥ १३॥ तव नाम-सहस्रेण स्तोतुमिच्छामि नित्यदा । पालितानां सनाथानां तदभिधातुमर्हसि ॥ १४॥ एवं संप्रार्थितो विप्रैः(१) सुदर्शन उवाच तान्(२) । (विप्रा, उवाच ह) निम्बार्को ह्यनिरुद्धो वै निम्बार्को वै चतुःसनः ॥ १५॥ निम्बार्को नारदश्चैव निम्बार्कोऽहं सुदर्शनः । निम्बार्को वैष्णवाः सर्वे सम्प्रदायानुवर्तिनः ॥ १६॥ इति बुद्धया समाज्ञेयं मम नाम-सहस्रकम् । गुह्याद् गुह्यतरं दिव्यं राधाकृष्णपद-प्रदम् ॥ १७॥ ॐ अस्य श्रीमन्निम्बार्क-सहस्राख्य-स्तवस्य हि । (सहस्राख्य नमोऽस्तु ते) ऋषिर्गौरमुखश्च्छन्दोऽनुष्टुप् निम्बार्क एव तु ॥ १८॥ देवः सुदर्शनो बीजं शक्तिः पुराणमेव च । विततं कीलकं चैव पवित्रं कवचं तथा ॥ १९॥ चक्रमस्त्रं मनुस्त्वेव षडक्षर उदाहृतः । द्व्यनन्तर-नराकारमिति ध्यानं प्रकीर्तितम् ॥ २०॥ निम्बार्क-प्रीत्यर्थे जपे विनियोगः समीरितः । इति सङ्कल्प्य चर्ष्यादीन् स्वस्वाङ्गेषु क्रमान्न्यसेत् ॥ २१॥ शीर्षास्य-हृद्-गुह्य-पाद-सर्वाङ्ग-सन्धि-दिक्षु च । हार्दे बाह्याभ्यन्तरयोश्चतुर्थ्या च नमोऽन्तकाः ॥ २२॥ नमो निम्बार्कायोमिति मन्त्रं षडक्षरं विदुः । अङ्गली-तलपृष्ठेषु ङे-द्विवच-नमोऽन्तिषु ॥ २३॥ क्रमान्न्यसे देकैकशो द्वितीयान्तान् षडक्षरान् । नम आद्यन्तेष्वङ्गेषु द्वितीयान्तान् षडक्षरान् ॥ २४॥ हृदयं शिरः शिखा कवच-नेत्रत्रयाऽस्त्रतः । नमः स्वाहा वषट् हुं वौषट् फडेतान् क्रमान्न्यसेत् ॥ २५॥ ध्यानम् - कालचक्रमयं ध्यायेन्निम्बार्क-गुरुमीश्वरम् । द्वादश-मास-तीक्ष्णारं कालमूर्तिधरं विभुम् ॥ २६॥ चातुर्मास्य-त्रयाकार-वलयत्रय-भासितम् । ऋतुरूपं च षट्कोणमयन-द्वय-राजितम् ॥ २७॥ द्व्यनन्तर-नराकारं स्वस्तिकासन-संस्थितम् । तप्त-मुद्रा-धरं दिव्यमुपदिशन्तमात्मानम् ॥ २८॥ देदीप्यमानवपुषं तप्त-हाटक-सन्निभम् । शुक्लोत्तरीयमावासं पञ्च-संस्कार-संयुतम् ॥ २९॥ तुलसीमालया युक्तं सततं कण्ठलग्नया । पुण्डरीक-विशालाक्षं सूर्यकोटि-ललाटकम् ॥ ३०॥ संहृष्टं-पुष्ट-सर्वाङ्गं धृत-द्वादश-पुण्ड्रकम् । आजानु-भुज मृज्वङ्गं प्रसन्न-मुखमण्डलम् ॥ ३१॥ (आजानु-भुज संशुद्धम्) नैसैर्गिक-मन्द-हास्यं कृपापाङ्ग-तरङ्गितम् । (कृपापाङ्गतरङ्गिनम्) तेजोमयं प्रकाशं तं ध्यातं हृदय-पङ्कजे ॥ ३२॥ (तेजोमयं कृपासन्तम् तं ध्यातुर्हृदयपङ्कजम्) अथ स्तोत्रम्-- ॐ श्रीकृष्णहंसोऽनिरुद्धो निम्बार्कः पुरुषार्थवृट् । सच्चिदानन्दात्मा शुद्धो निरुपाधिः सदर्थकृत् ॥ ३३॥ आधारो निगमोत्पादी निजैतिह्य-प्रवर्तकः । आद्याचार्यः सदाचार्यो मोक्षाधिकार-धारकः ॥ ३४॥ सनकः सनत्कुमारः सनन्दनः सनातनः । चतुस्सनश्चतुर्मूर्तिः कुमारः पञ्चहायनः ॥ ३५॥ असंसृतिः सारोद्धारी सदैक-रस-रूप-धृक् कृत-मोक्षाधिकाराढ्यः कृत-स्मरण-दायकः ॥ ३६॥ कृत-संसार-विध्वंसो ब्रह्माविर्भूतिरव्ययः । ब्रह्मचर्य्याश्रमाधारी नैष्ठिक-ब्रह्मचर्य्यवान् ॥ ३७॥ ब्रह्मभूर्मानसो बालः सुसिद्धः संविदाकरः । ऊर्ध्वरेता ब्रह्मचारी निष्क्रियः समदर्शनः ॥ ३८॥ ब्रह्मज्ञो ब्रह्मदृग्ब्राह्मो ब्राह्मणो ब्रह्मवित्तमः । निष्कलोऽविक्रियोविद्वान् सर्वज्ञः सर्वतत्ववित् ॥ ३९॥ अनिरुद्धोपदिष्टात्मा शान्तो दान्तो हरिप्रियः । भक्ति-रहस्योपदेष्टा वैष्णव-धर्म-वित्तमः ॥ ४०॥ अनादिरादिसन्धाता धर्मज्ञो धर्मतत्त्ववित् । अर्थज्ञः संशयच्छेत्ता कृत-ध्यानोपदेशकः ॥ ४१॥ विश्व-गुरुर्विश्वतारो विश्वाश्रयः समस्तवित् । भावज्ञोऽनुभवो भावी प्रेमानन्दरसाश्रयः ॥ ४२॥ मोक्षधर्मा विमोक्षज्ञो मोक्ष-क्रिया-समुत्सुकः । अनिरुद्धो पदिष्टार्थ-प्रवृत्ति-सतताग्रहः ॥ ४३॥ नारद-समुपदेष्टा नारद-हार्द-दायकः । आचार्य-शेखरः स्वामी प्रेममूर्तिः कृपानिधिः ॥ ४४॥ सर्वाश्रमाङ्गसंमिश्रो भिक्षुर्भिक्षाशनो यतिः । योगी योगेश्वरो योग्यो भक्तियोग-प्रवर्तकः ॥ ४५॥ महावीरो महावर्चा अनिरुद्धोक्त मन्त्रवित् । वेदज्ञो वेदविख्यातो वेदहार्दविदांवरः ॥ ४६॥ वेदानुसारी वेदार्थो वेद-वेदाङ्ग-पारगः । वेद-विधान-सारज्ञो वेदान्तार्थ-प्रदर्शकः ॥ ४७॥ वेदेङ्गित-रसावादी वेदान्त-हार्द्द-सारवित् । निगमागम-सारज्ञः सच्छास्त्रार्थ-प्रवर्तकः ॥ ४८॥ (सर्व-शास्त्र-प्रवर्तकः) वेद-तात्पर्य-निष्णातो वेदान्तानुविधायकः । गुरुसेवी गुरूपासी गुरुधर्मोपदेशकः ॥ ४९॥ वैकुण्ठ-दर्शकः सिद्धो वैकुण्ठान्तर्गतः शुभः । पार्षदेशावतः श्रीमान् कक्षान्तसमवस्थितः ॥ ५०॥ पार्षद-क्षुभितः शक्तः पार्षद-शाप-दायकः । विष्णुद्रष्टा विष्णुस्तोता विष्णुपादप्रणामकृत् ॥ ५१॥ श्रीकृष्णाङ्घ्रि-प्रिया-गन्ध-परिशिक्त-रुडग्निकः । (तरुग्निकः) तुलसीगन्धहृद्धारी बहुकालतपोऽन्वितः ॥ ५२॥ तुलसीवृन्दसन्धारस्तुलसी-मालिकाकरः । वृन्दावन-समाविष्टा वृन्दायूथचरी सखी ॥ ५३॥ जटिला जंजपूका(१) कुधृताशा कृष्णवल्लभा । राधाकृष्ण-रहस्यज्ञा राधाकृष्ण-पदाश्रया ॥ ५४॥ (१ ``यङन्ताज्जपधातोः यजजपदशां यङः (३/२/१६६) इति सूत्रेण ऊकः । ततश्च टाप् ।) देवर्षिर्नारदः श्रीमानवधूत सुविग्रहः । ब्रह्मज्ञो ब्रह्मशापोक्त उदासीनो निराश्रयः ॥ ५५॥ कुमारोपकृतज्ञानः कुमारानुक्रियाधरः । कुमारैतिह्यसन्ध्याता कुमारानुक्रियाकरः ॥ ५६॥ दक्षपुत्रः समुन्मोक्ता मुनीशो वाग्विदांवरः । वीणापाणिर्महाभक्तो भक्तः-राजः सदुत्तमः ॥ ५७॥ कृष्णार्थ कर्मसंस्कारी त्रेता-शुभ-क्रियाकरः । कुमारादिष्ट-धर्मज्ञो गुरूक्तरीति-धारकः ॥ ५८॥ कृष्णर्पितमखः साधुः साधुधर्मपरायणः । भक्तिरहस्यसंसक्तो रसशास्त्र-प्रवर्तकः ॥ ५९॥ रसज्ञो रसिको रासी रसिकराड् रसायनः । निम्बादित्योपदेष्टा श्रीनिम्बादित्यरसप्रदः ॥ ६०॥ निम्बादित्यानुकम्पाम्भो निम्बादित्यहृदाश्रयः । व्यासात्म-हितोपदेष्टा व्यासचित्त-प्रतोषकः ॥ ६१॥ व्यासभाग्यो व्यासगुरुर्व्यासदेव सुपूजितः । व्यास-संताप-संहर्त्ता व्यासतत्त्वोपदेशकः ॥ ६२॥ कुमार-हार्द-संवेत्ता कुमारादेश-धारकः । कुमारमार्ग-संनिष्ठः कुमार-शिष्य-शेखरः ॥ ६३॥ वृन्दानुकम्पिता मुग्धा वृन्दायूथचरी शुभा । राधाकृष्णानुवृत्तिज्ञा राधाकृष्णानुरञ्जनी ॥ ६४॥ रस-गान-परा सौम्या सुधासारानुगायिनी । रसिका नायिका रम्या वेणु-वाद्य-विशारदा ॥ ६५॥ गुणवती गुणातीता गुण-ग्रामनिवासिनी । सुदर्शनो महाबाहुः सूर्यकोटि-सम-प्रभः ॥ ६६॥ विशुद्धात्माऽखिलाधारो ह्यज्ञानतिमिरान्ध्यनुत् । विश्वाधारोऽखिलाभासो विश्वरूप-सुधाकरः ॥ ६७॥ (विश्वरूपप्रकाशवान्) विश्वभावी जगद्बीजं स्वप्रकाशः प्रकाशकृत् । (विश्वभावन) शोभनो ज्योतिराकारो ज्योतीरूपः प्रकाशवान् ॥ ६८॥ दर्शनो दर्शको दर्शी दृश्यादृश्यस्वरूपकः । अनादिरादिरात्माऽन्तर्हार्दभूतोऽखिलाकरः ॥ ६९॥ जगद्धाता जगद्दर्शी जगज्ज्योतिस्तमोनुदः । अन्तारूपो मनोवृत्ति सङ्कल्पः सर्वसाधकः ॥ ७०॥ सुन्दरः सुन्दराकारः सुन्दरान्तः श्रियाचरः । (सुन्दरान्तः क्रियावरः) शुभाधारः शुभाभासी शुभदायी शुभंकरः ॥ ७१॥ सौभाग्य-भग-सम्पन्नः सौभाग्यदो भगान्वितः । आदिहेतुर् जगद्धेतुर् ज्ञानहेतुर् मनोभवः ॥ ७२॥ (or आदिहेतुर्जगद्धेतुर्ज्ञानहेतुर्मनोभवः) आत्माधारोऽखिलाभासो धराधारो धुरन्धरः । महर्षिमहानुभावो महानुभाव-भासितः ॥ ७३॥ सदविता सदाधारः सदाकारः सदाश्रयः । वैष्णवो विष्णुसेवीशो विष्णुभाग्वैष्णवोत्तमः ॥ ७४॥ आचार्यमन्त्रसन्धाता मन्त्र-व्याख्या-विशारदः । उपाङ्गवर्ग-संसक्तः शयस्थः शयशोभितः ॥ ७५॥ मुनिर्मननशीलेन्द्रो मुनिवर्थ्यो मुनीश्वरः । ज्येष्ठः श्रेष्ठः प्रजापालः प्रतापीशः प्रतापवान् ॥ ७६॥ करस्थितः शान्तिमूर्तिः पार्षदः पार्षदेश्वरः । (विष्णुकरस्थितः शान्तः पार्षदः) वैहायसो नभोगन्ता खेचरेन्द्रो विहङ्गमः ॥ ७७॥ अविहतगतिर्भर्ग--वत्सरापत्य --गर्भपत् । लोकपो लोक-संभेत्ता लोकालोकानुदर्शनः ॥ ७८॥ भक्तपो भक्तराजेन्द्रो भक्तप्रभाववर्द्धनः । भावज्ञो भावनीयात्मा भक्तभावानुवर्तनः ॥ ७९॥ चक्रं चमत्क्रियायुक्तं चमत्कृतिहृतेक्षणम् । कालचक्रं महाचक्रं चक्रवालं सुमण्डलम् ॥ ८०॥ (महाचक्रं बालं च मुखमण्डलम्) प्रचण्डं चण्डदोर्दण्डं पाषण्ड-खड-दारकम्(१) । (१) पाषण्डाः दुःशास्त्रवर्त्तिनो बौद्धादिक्षपणकाः (पाषण्डाः ``सर्वलिङ्गिनः'' इत्यमरः २/७/४५) तैः कृतो यः खडः भेदनम् । (खड भेदने चरादिः खाडयति-अच्) तस्य दारकं भेदकं इत्यर्थः ।) लोकद्वारं महोदारं ज्योतिष्मच्च प्रभाकरम् ॥ ८१॥ उद्धृतासुरमर्चिष्मत् सहस्रचरणं चरम् । पवित्रं विततं प्राणं प्रतत्पुराणमुत्तमम् ॥ ८२॥ (विततं त्राणं) सत्सोमधारसन्दोहं दुष्ट-मोह-दुरात्मभित् । प्रसिद्धं वाङ्मयं शुद्धमङ्कनमरिलक्षणम् ॥ ८३॥ वेदगीतं विदाधारं ब्राह्मणं पापनाशनम् । भ्राजमानं जगद्व्याप्यं जगद्विज्ञानभास्करम् ॥ ८४॥ साधुचन्द्रमसच्चण्डं भक्तमण्डं भयापहम् । पापकर्षं दुराधर्षमसदमर्षमिष्टिपम् ॥ ८५॥ अङ्गुलिस्थोऽनिरुद्धात्मा सङ्कल्पादिष्ट ईश्वरः । भागवतो हरिप्रेष्यो भागवतार्थतत्त्ववित् ॥ ८६॥ कृष्णसङ्कल्पमर्मज्ञो ब्रह्म-समाधि-दीपकः । ब्रह्मार्थितः प्रजादिष्टः सब्राह्मणो मखागतः ॥ ८७॥ मख-ध्वंसक-संहर्ता मखकार्याभिवन्दितः । हविर्द्धानो हविर्द्धाता हविःसन्धान-धारकः ॥ ८८॥ यज्ञपालो हविर्वर्द्धी नष्टयज्ञ-समुद्धरः । (यज्ञमादी हविर्बद्धाऽष्टयज्ञ-समुद्धरः ।) शुद्धिकारी प्रशुद्धात्मा नेम्या(१) निजो निजांशदः ॥ ८९॥ (१ नेम्या चक्रप्रान्तरूपया निजो नित्य इत्यर्थः । ``पुल्लिङ्गस्तिनिशे नेमिश्चक्रप्रान्ते स्त्रियामपि'' इति रुद्रः । ``स्वके नित्ये निजं त्रिषु'' इत्यमरः (३/३/३२) यद्वा नेम्या चक्रप्रान्तरूपया निजः पवित्रः पोषको वा (णिजिर शौच-पोषणयोः+कः)) यज्ञपाता यज्ञभर्ता नैमिनिजः प्रयोजकः । (यज्ञपाता यज्ञकर्ता) विप्रस्तुतो द्विजश्लाघ्यो विप्रसत्राभिरक्षकः ॥ ९०॥ अर्य्यन्तर्नरशरीरः प्रार्थित ऋषिरूपधृक् । ऋषिवर्य्य ऋषीशानो ब्रह्मर्षिर् ऋषिपालकः ॥ ९१॥ ब्रह्मवेत्ता सुब्रह्मज्ञो ब्रह्मण्यो ब्राह्मणार्थकृत् । जयन्तीनन्दनः श्रीमान् विप्राशा-परिपूरकः ॥ ९२॥ यज्ञ-निघ्न-तमोध्वंसी सवित्रात्मा सदर्थवृट् । (पवित्रात्मा) गौरमुख-गृहीताङ्घ्री रक्षार्थ-धृत-विग्रहः ॥ ९३॥ गोप्ता सद्धर्म-संस्थापी मानसो धर्म्म आत्मजः । भूतानुकम्पी(२) दयाब्धिः कृपालुर्दुष्कृदर्दनः(३) ॥ ९४॥ (सन्तानुकम्पी, दुष्टमर्दनः) ईशसृष्टः शस्त्रमस्त्रं विसर्ज्यो ब्रह्मरूपधृक् । मनोमयो मनोभासो मनःसङ्कल्प इष्टदः ॥ ९५॥ नैमिषाख्यानसंवर्ती नैमिषाख्यानिदानकः । नैमिषारण्य-संत्राता नैमिषारण्यपावनः ॥ ९६॥ नैमिषारण्य-विख्यातो नैमिषखण्डसंस्तुतः । सनम्रो नारदद्रष्टा नारदशिष्य इष्टभाक् ॥ ९७॥ नारदादिष्ट-संधर्त्ता नारद-हार्दमर्मवित् । तीर्थस्नायी पवित्रात्मा निसर्गदो निसर्गजित् ॥ ९८॥ वरो वरिष्ठो वरीयान् वरदाता वरार्चितः । महान् महिष्ठो महीयान् महत्तरो महत्तमः ॥ ९९॥ दोषहर्ता गुणद्रष्टा विपरीत-मुदावहः । मखहर्त्ता मखत्राता मख-धर्म-समर्पकः ॥ १००॥ अमानी मानदः क्षन्ता मान्योऽभिमानवर्जितः । सही सहिष्णु सहीयान् सहिष्ठः सङ्ग-वर्जकः ॥ १०१॥ धीरः प्रवीरो गम्भीरः शुण्डीरो धृत-धैर्यकः । सहायी व्यवसायज्ञो व्यवसायी सहायदः ॥ १०२॥ गुरुर्गरिष्ठो गरीयान् गुरुतरो गुरूतमः । मार्गी मार्गानुगो मार्गोपदेष्टा मार्गवित्तमः ॥ १०३॥ अजितो दिग्जयी जिष्णु सर्वजेता ककुब्जयी । मदनो मोददो मोदी मोदको मुक्त-शुद्धभुक् ॥ १०४॥ (मुक्ति ऋद्धकः) पूजितः पूजकः पूजी पूजावित् पूज्यभाग्ध्रुवः । ब्रह्मानन्दो निमानन्दो नियमानन्द इष्टदः ॥ १०५॥ सर्वाश्चर्यमयो धीमान् ब्राणावतेय आरुणः । (ब्रह्मणा तप आरुणः) अगस्त्यः शोक-संशोध आरुणिररुणोऽरुणिः ॥ १०६॥ ब्रह्मात्मजो ह्यजानन्दो नेमानन्दो नियामकः । कविः कवीश्वरः काव्यकर्त्ता काव्यविधायकः ॥ १०७॥ चतुर्व्यूहश्चतुर्मूर्तिश्चतूरूपश्चतुस्तनुः । निम्बो निम्बी सुनिम्बादो निम्बभोजी सुनिम्बभुक् ॥ १०८॥ वाग्मी वाग्मीश्वरो वक्ता वाचस्पतिरुदारधीः । तर्त्ता तारयिता तीर्णस्तरदद्रिवहित्रवाट् ॥ १०९॥ पारः पारयिताऽपारः पारद-मूर्त्तिकृत् परः । पुर-पूरयिता पूरः पूर्णबोधः पुराणभृत् ॥ ११०॥ सम्पूर्णः पूरक पूरी पुरीस्थः स्वपुरीश्वरः । सुमार्गो मार्गदो मार्गी मार्गानुवृत्तिदः सुधीः ॥ १११॥ पर्वतः पर्वतोद्धर्त्ता गिरिरूप्यद्रितारकः । वंशी वंशधरो वंशो वंशसन्धिकरो विभुः ॥ ११२॥ (प्रभुः) सूर्यः सूर्यायितः सूरिर्नियति-भोजनार्थकः । भूमा भूयान् प्रभविष्णुः संहर्त्ता पशुसंज्ञकः ॥ ११३॥ पशुपालः पशुद्रष्टा पशु-हिंसा-निवारकः । शुद्धिदः शुद्धिसंधायी शुद्धाचार-प्रचारकः ॥ ११४॥ तीर्थाङ्गस्तीर्थदस्तीर्थो तीर्थपात् तीर्थशोधनः । मुनिभोजी मुनिस्नायी मुनिमानी मुनीङ्गितः ॥ ११५॥ शास्त्रज्ञः शास्त्रसंवादी शास्त्रानुसारदीपकः । धर्मज्ञो धर्मदो धर्मी धर्मदृग्धर्मसेवकः ॥ ११६॥ पावकः पावनः पावी पवित्राङ्गः पवित्रकृत् । मोक्षदो मोक्षको मोक्षी मोक्षकृन्मोक्षदायकः ॥ ११७॥ रमादृष्टो रमापृष्टो रमाहृष्टो रमार्थवित् । रमातुष्टो रमापुष्टो रमाशेषान्नभोजितः ॥ ११८॥ रमाद्रष्टा प्रहृष्टाङ्गो हर्षवर्षी हृदाकुलः । शेषभुक् शेषसंभोक्ता हरिशेषवशेशयः ॥ ११९॥ पोषणः पोषकः पोषी पोषदः पुष्टिवर्द्धनः । सुप्रसन्नः प्रसन्नात्मा प्रसादकः प्रसादवान् ॥ १२०॥ हरिध्यायी हरिध्याता हरिक्रियानुचिन्तकः । तोषकस्तोषदस्तोषी तोषणस्तोषधारणः ॥ १२१॥ कृष्णभाक् कृष्णसंसेवी कृष्णानुकम्पितः प्रभुः । औदुम्बरात्मसंमोक्षी सारूप्य-सुप्रदः कृती ॥ १२२॥ सुकृती सुकृताभिज्ञः सुकृतार्थी कृतार्थकृत् । द्विजावेद्यो हितः सोढा गूढोऽनुग्राहको ग्रहः ॥ १२३॥ ग्रहीता ग्राहको ग्राही सङ्ग्रहणाग्रहोज्झितः । आनन्दो नन्दनो नन्दो नन्द-नन्दन-चिन्तनः ॥ १२४॥ समानन्दः सदानन्दो निमानन्दः सुनन्दनः । द्विजाभिप्रायमर्मज्ञो द्विजाभिशापमर्षकः ॥ १२५॥ मृत्यूपायौघसंग्रासो मृत्यूपायविवर्जितः । अमृतो मारको मारी मारणो मृत्युधर्षणः ॥ १२६॥ पद्मनाभ-पदध्याता पद्मनाभ-हृदर्चितः । पद्मनाभ-द्विज-विजित् पद्मनाभ-द्विजार्थितः ॥ १२७॥ पद्मनाभ-द्विजार्थार्थी पद्मनाभाग्निशान्तिकृत् । पद्मनाभ-द्विजादेष्टा भक्त-तत्त्वोपदेशकः ॥ १२८॥ पद्मनाभान्न-संभोजी शश्वत्सच्छेषभागकृत् । पद्मनाभ-द्विजाज्ञायी पद्मनाभ-प्रसादकः ॥ १२९॥ पद्मनाभ-प्रसन्नात्मा पद्मनाभ-मनोहरः । द्विजाभिवन्दितपदः पद्मनाभ-द्विजस्तुतः ॥ १३०॥ पद्मनाभाङ्घ्रिसंचित्तः पद्मनाभ-स्तवः-स्मरः । पद्मपत्रविशालाक्षः पद्मनाभ-स्तुतिकरः ॥ १३१॥ नैर् ऋत-स्तुति-निष्ठा-त्यगुच्ययातो वरार्थितः । बुद्धाचारो विशुद्धेहो निगमार्थ-विशुद्धिकृत् ॥ १३२॥ द्वारकावास-तत्त्वज्ञो द्वारकावास-संस्थितः । वासुदेवाङ्घ्रि-संद्रष्टा वासुदेव-प्रणामकृत् ॥ १३३॥ वासुदेवाङ्घ्रि-नीराशी वासुदेवावशेषधृत् । तप्तमुद्रा-समुद्धर्त्ता तप्ताङ्क-स्थापको गुरुः ॥ १३४॥ तप्त-संस्कार-सन्धर्त्ता पाषण्ड-खण्ड-दण्डकृत् । द्वारकाधामसंग्राही तप्तमुद्रानिदेशकृत् ॥ १३५॥ सर्वाचार्यो महाचार्यः पतितोद्धारकारकः । वासुदेवाङ्ग-संस्तोता वासुदेवान्नसंग्रहः ॥ १३६॥ वासुदेव-प्रणीतात्मा वासुदेवानुगो नरः । स्वधर्म-स्थापकः स्थायी स्थाता स्थानकरोवृतः ॥ १३७॥ द्वारकास्वीकृतस्वामी द्वारकातापसंस्कृतिः । तापनस्तापकस्तापी सुप्रतापी प्रतापवान् ॥ १३८॥ धारको धारणो धर्त्ता धारी धारणकृत् स्थिरः । सरिदुत्पादको नेता चेता चातुर्य्यवारिधिः ॥ १३९॥ कारकः कारणं कर्त्ता करणं कार्यकृत् करः । नदीकर्त्ता नदीवोढा नदीघर्ष्टा नदीश्वरः ॥ १४०॥ कोल्लू-कल्लोल-संशोषी जैनजिज्जैनशिक्षकः । जैनोच्चाटक उद्धर्त्ता जैनदारो जिनस्तुतः ॥ १४१॥ धर्षको धर्षणो धर्ष्टा धर्षी धर्षितजैनकः । कृष्णार्थी कृष्णसेवार्थः कार्ष्णिः कृष्णजनप्रियः ॥ १४२॥ निम्बग्रामकृतावासो निम्बक्काथैक भोजनः । निम्बाशो निम्बसंभोक्ता निम्बग्रामनिवासकृत् ॥ १४३॥ निम्बाशनो निराहारो निम्बाहारो निराश्रयः । निम्बसेवी निम्बनामा निम्बाशी निम्बभास्करः ॥ १४४॥ निम्बीयान् निम्बनो निम्बी निम्बो निम्बप्रियोऽनघः । निम्बेष्टो निम्बको निम्बो निम्बासो निम्बपाककृत् ॥ १४५॥ वर्षिष्णुर्वर्षणो वर्षी वर्षो वर्षाधरो वृषः । वर्षिष्ठो वर्षको वर्षी धर्षिष्णुधृष्टसूदनः ॥ १४६॥ वर्षीयान् कृष्णभक्त्यर्थो भक्तेशो भक्तवत्सः । तपस्वी तापसस्तप्ता तपोनिष्ठस्तपोऽन्वितः ॥ १४७॥ वदरीदिङ्मदीचिह्नः पुरुषोत्तमवंशकः । (वदरीदिङ्गदीविङ्ग) सेतुदिगब्जनाभाङ्कश्चतुर्व्यूहधराङ्ककः ॥ १४८॥ (वज्रदिगब्ज) द्वारकातापसंस्कारो द्वारकातापसंस्क्रियः । सेविष्टः संचिनः सेक्ता सेचिष्णुः सिक्तवैष्णवः ॥ १४९॥ ( सेचिष्णुः सिक्तवैभवः) सेवीयान् सेचिकः सेची सेकाह्लादित-सज्जनः । शरण्यः शर्मदः श्रेयान् शरणागतिदोऽविता ॥ १५०॥ शक्यः शरणदः शक्तो महद्गति-महामुनिः । विजेता विजयी ज्यायान् ज्येष्ठो भक्त-यशः-प्रदः ॥ १५१॥ अभक्तविप्रसन्दग्धा वैष्णवधर्मपालकः । विशिष्टःशिष्टकृच्छिष्टो निर्विशेषो विशेषवान् ॥ १५२॥ सुधाधारः सुधासारः सुधावृष्टिकरो घनः । द्योतको द्योतनो द्योतिर्द्योतिष्णुर्द्योतितात्मकः ॥ १५३॥ द्योतीयान् करुणासिन्धुर्द्योतिष्टो द्युतिसत्तमः । जीवीयान् जीवनो जीवी जीविष्णुर्जीवनाश्रयः ॥ १५४॥ जीविष्टो जीवको जीवी जीवधर्मविवर्जितः । साधिष्टः साधकः साधुः साधिष्णुः साधुसंमतः ॥ १५५॥ साधीयान् साधुमार्गस्थः साधुधर्मप्रवर्तकः । राधाकृष्ण-सदाध्यायी राधाकृष्णनुरञ्जनः ॥ १५६॥ राधाकृष्णमनोधर्ता राधाकृष्णानुशीलनः । राधाकृष्णयुगाराधी राधाकृष्णाह्व-योजकः ॥ १५७॥ माथुरो मथुराधारो मथुरावासतत्परः । गोवर्द्धनपरिक्रामो गोवर्द्धनान्तिकस्थितः ॥ १५८॥ गोवर्द्धनसदाद्रष्टा राधाकुण्डाभिषेचकः । चक्रतीर्थ-सदास्नायी मानसी स्नाननिष्ठितः ॥ १५९॥ बृहत्सानुपरिद्रष्टा राधाकृष्णानुदर्शकः । नन्दग्रामसुसंस्थाता यशोदानन्ददर्शनः ॥ १६०॥ कीर्ति-वृषभानु-वपुर्दर्शी सुसूक्ष्मदृष्टिकृत् । व्रजस्थ-तीर्थ-संस्थाता व्रजस्थ-तीर्थ-धारणः ॥ १६१॥ व्रजस्थ-तीर्थ-संस्नायी व्रज-तीर्थानुरञ्जितः । व्रजवासकृतोल्लासो व्रजवास-सदोत्सुकः ॥ १६२॥ व्रजवासानुसारस्थो व्रजवास-विशारदः । वृन्दावन-सदाद्रष्टा वृन्दावनाभिषज्जितः ॥ १६३॥ वृन्दावन-निदानज्ञो वृन्दावन-निवासकृत् । वृन्दावन-सदाचारी वृन्दावन-कृतोत्सवः ॥ १६४॥ यमुना-कूल-संस्नातो यमुना-कूल-जापकृत् । व्रजवास-सदाध्यायी निम्बग्राम-सदास्थितः ॥ १६५॥ राधाकृष्णयुगोपासी राधाकृष्णोपदेशकः । वेदस्थो वेदसंज्ञाता वेद-वेदाङ्ग-पारगः ॥ १६६॥ वेदोक्तार्थानुसारस्थो वेदोक्तार्थानुसाधकः । (वेदोक्तार्थानुसारधृक्) राधाकृष्णमनोऽभिज्ञो राधाकृष्णवशङ्करः ॥ १६७॥ राधाकृष्णहृदाविष्टो राधाकृष्णपदार्थितः विश्वरूपानुसंदर्शी विश्वरूप प्रदर्शनः ॥ १६८॥ भूखण्ड-विग्रह-स्थाता परिचर्य्या-प्रवर्तकः । अध्यक्षो द्वापराचार्य्यः परिचर्य्यात्ममोचकः ॥ १६९॥ परिचर्य्या विधानज्ञः परिचर्य्योपदेशकृत् । हरिविग्रह-संस्थाता महीमण्डल-पूजितः ॥ १७०॥ अखण्ड-मण्डलाचार्यः पाषण्ड-खण्ड-दूषणः । गौरमुखाशय-त्रायी नरहर्य्युपमाचरः ॥ १७१॥ गवेषिता सुरोद्धर्त्ता जामदग्न्योपमाधरः । ब्रह्माण्ड खण्ड-संघोष्टा पाषण्डाङ्ग-विडम्बनः ॥ १७२॥ विघ्न-निर्विघ्नितो भ्राता कृष्णनामोपमाकरः । मज्जज्जनोपरिष्ठाता भूशैलोद्धारसन्निभः ॥ १७३॥ जलस्थलैक्यसंभावी वटपत्रशयोपमः । निर्वंश-वंशता-दाता महर्षि-तुलनाधरः ॥ १७४॥ नक्तं दिनानुसन्धायी कृष्णाङ्घ्रि-नखरोपमः । भागवतोपमाभावः कारुण्य-करुणाकरः ॥ १७५॥ व्राणावत्यम्बुसंशोधः शर्वरी-तुलनाधरः । (व्राणावत्यनुसंशोधः, शंवरी) कृष्णरामोपमाभाव औदुम्बरात्ममुक्तिदः ॥ १७६॥ चतुर्व्यूहावतारीशो व्रजनाथात्मजोपमः । ब्रह्मेन्द्रादिकसंकाशः पद्मनाभ-सुशामकः ॥ १७७॥ विमुख-श्रुति-संमोक्षो बुद्ध-सादृश्य-भासकः । (बुद्धि) द्वारका-धर्म्म-संस्थापी कल्कि-सादृश्य-सूचकः ॥ १७८॥ कोल्लूनदीसमुत्पादी वामन--तुलनाधरः । विश्वरूपात्मसंभावी कृष्णानुभावभावकः ॥ १७९॥ सुदर्शन-संहिताकृत् सुदर्शनागमानुवृत् । सुदर्शन-कल्पोद्धारी शुभदर्शी शुभार्थकृत् ॥ १८०॥ श्रीस्वधर्माध्व-बोधाब्धिर्नैमिष-खण्ड-भाषकः । श्रीनिवासशिष्यसेक्ता कलि-निस्तारदर्शकः ॥ १८१॥ अनेक-भक्त-संराध्यः सत्सेविताङ्घ्रि-पल्लवः । तुलसीमालिकाधारी तुलसी-वृन्द-सेचनः ॥ १८२॥ तुलसी-सौरभ-घ्राता तुलसीवन-संश्रयः । तुलसीदल कृष्णार्ची तुलसी-मञ्जरीष्टकृत् ॥ १८३॥ आद्याचार्य्यवराकारो निम्बग्रामसदास्थितः । रङ्गा-रङ्गवती रङ्गा रङ्गदेव्यङ्कलेखनी ॥ १८४॥ अनुलेख-क्रियाभिज्ञा चित्रकर्म-विशारदा । (अनुत्सेक) राधिकावामभागस्था राधिकाप्रियकारिणी ॥ १८५॥ पद्मकिञ्जल्कवर्णाभा जपापुष्पाभवाससी । सल्लक्षणयुता मध्या सिद्धि-मुक्ति-प्रकल्पिका ॥ १८६॥ शाश्वती श्रीमती सौम्या भागवती हरिप्रिया । निम्बादित्यो निदानात्मा विभूत्यब्धिर्विभूतिभाक् ॥ १८७॥ कोल्लूनद्या जयोऽन्नाद्रिः शेषादिक-द्विजान्वयः । सर्ववेदान्त-सन्धर्त्ता सर्वेषामुपकारकः ॥ १८८॥ फलस्तुतिः इति वैष्णव-सन्दोह-सदानन्द-प्रदायकम् । निम्बार्क-नाम-साहस्रं संपठन् निर्धनो धनी ॥१८९॥ पुत्र्यपुत्रः पठन् स स्यान्निम्बार्काख्यसहस्रकम् । कुष्ठ्यकुष्ठः पठन् स स्यान्निम्बार्काख्यसहस्रकम् ॥ १९०॥ ताप्यतापो वात्यवातो रोग्यरोगोऽज्वरो ज्वरी । भोग्यभोगः पठन् स स्यान्निम्बार्काख्यसहस्रकम् ॥ १९१॥ सद्विद्यावानविद्यः स्यादज्ञानी ज्ञानवत्तमः । अवैराग्यो विरागी स्यान्निम्बार्काख्यसहस्रकात् ॥ १९२॥ धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते । कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ॥ १९३॥ निम्बार्काख्यसहस्रं यो ह्येकदापि पठेन्नरः । सर्वतीर्थानि संस्पर्शेद् भू-परिदक्षिणां चरेत् ॥ १९४॥ निम्बार्कनामसाहस्रं यः पठेद्वैष्णवो नरः । सेवते सर्वक्षेत्राणि श्रीविग्रहांश्च पश्यति ॥ १९५॥ निम्बार्कनामसाहस्रं यः पठेदेकदा नरः । (पठेद् वैष्णवो नरः) सर्वतीर्थौघ-संस्पर्शे भूपरिदक्षिणे फलम् ॥ १९६॥ सर्व क्षेत्रनिवासे यत् कृष्णविग्रह-दर्शने । सकृत्संपठतां तत्स्यान्निम्बार्काख्यसहस्रकम् ॥ १९७॥ यज्ञकोटिफलं यायात् प्रयागे तत्फलं चरेत् । अन्नदानफलं ब्रूयान्निम्बार्काख्यसहस्रकम् ॥ १९८॥ फलं निगमपाठस्य पुराणपठनस्य यत् । शास्त्रपाठस्य पठतां निम्बार्काख्यसहस्रकम् ॥ १९९॥ गोदानस्य च यत्पुण्यमश्वदानस्य यत्फलम् । विद्यादानस्य यत्पुण्यं तत्फलं पठतां सकृत् ॥ २००॥ वैष्णवानां मनुष्याणां निम्बार्काख्यसहस्रकम् । स्त्रीगोघ्नः पितृहन्ता च राजघ्नो बालघातकः ॥ २०१॥ ब्रह्महा मद्यपः पापो मुच्यते सर्वपातकात् । संपठेदेकदा वाऽपि निम्बार्काख्यसहस्रकम् ॥ २०२॥ मानसं वाचिकं घोरं कायिकं पापसम्भवम् । गुरुनिन्दोद्भवं पापं वेदब्राह्मणदोषजम् ॥ २०३॥ पठितात् क्षयमाप्नोति निम्बार्काख्यसहस्रकात् । गुर्विणी सूयते पुत्रं कन्या सत्पतिमश्नुते ॥ २०४॥ विधवा सद्गतिं याति जीवत्पतिः सभर्तृका । भवति, संपठेत् सकृन्निम्बार्काख्यसहस्रकम् ॥ २०५॥ ब्राह्मणो लभते विद्यां क्षत्रियो जयमाप्नुयात् । वैश्यो धनौघमायाति शूद्र आनन्दमश्नुते ॥ २०६॥ संपठेदेकदा वापि निम्बार्काख्यासहस्रकम् । निम्बार्कनामसाहस्रात् संपठिताच्छुतादपि ॥ २०७॥ वश्यतां याति राजाऽपि स्वल्पजीवस्य का कथा । यः कोऽपि पठते वाऽपि निम्बार्काख्यसहस्रकम् ॥ २०८॥ ज्ञान-वैराग्य-विद्यादेरञ्जसा फलमश्नुते । निम्बार्कनामसाहस्रं निष्कामः पठते सकृत् ॥ २०९॥ अञ्जसा भक्तिमाप्नोति राधाकृष्णप्रतोषिणीम् । कार्तिकस्नायिनां पुण्यं माघाभिषेचिनां फलम् ॥ २१०॥ वैशाखस्नायिनां पुण्यमेकादशीव्रते फलम् । पठतां तत्सकद्वापि निम्बार्काख्यसहस्रकम् ॥ २११॥ मथुरावासिनां पुण्यं द्वारिकावासिनां फलम् । माया-वासेन यत्पुण्यमयोघ्यावासिनां फलम् ॥ २१२॥ काशीवासेन यत्पुण्यं काञ्ची-वासेन यत्फलम् । अवन्तीवासिनां पुण्यं सप्तपुरी-निवासिनाम् ॥ २१३॥ सकृत् संपठतां तत्तनिम्बार्काख्यसहस्रकम् । बदरीनाथदृष्टौ यज्जगन्नाथावलोकने ॥ २१४॥ रामसेतुदृशः पुण्यं कुशस्थलीश-दर्शने । सकृत् संपठतां तत्तनिम्बार्काख्यसहस्रकम् ॥ २१५॥ निम्बार्कनामसाहस्रं पठन् दिग्विजयं चरेत् । शत्रवो भीतिताः सर्वे नमन्ति ह्यग्रतः स्वयम् ॥ २१६॥ निम्बार्कनामसाहस्र-पाठकाद् वैष्णवाग्रतः । भूत-प्रेत-पिशाचाश्च ब्रह्मराक्षस-भैरवाः ॥ २१७॥ वैताला गुह्यकाश्चैव शाकिनी-डाकिनी-ग्रहाः । निम्बार्कतेजसा तप्ताः पलायन्ते दिशो दश ॥ २१८॥ निम्बार्कनामसाहस्रं पठतां कृष्णसेविनाम् । पापसंघा विलीयन्ते सूर्योदये तमो यथा ॥ २१९॥ निम्बार्कनामसाहस्रं पठतां हृदि चिन्तिता । कार्यसिद्धिर्भवत्यग्रे साधिता निम्बभास्वता ॥ २२०॥ निम्बार्कनामसाहस्रपाठे निम्बार्कसेविनाम् । सर्वसाधनहीनानां प्रेमभक्तिः सुसिद्ध्यति ॥ २२१॥ स्वर्णस्तेय्यनृतोद्वाची सर्वापराधदूषितः । शुद्ध्यति संपठन्नेव निम्बार्काख्यासहस्रकम् ॥ २२२॥ निम्बार्कनाम-साहस्र-पाठादृते तु वैष्णवः । निम्बार्कैतिह्यहीनो वै स ज्ञेयो वैष्णवाधमः ॥ २२३॥ रंगदेव्यननुवृत्या सखीभावो न सिद्ध्यति । निम्बार्कनामसाहस्रपाठादेव तु वैष्णवः ॥ २२४॥ अभीतः श्रुतयः साङ्गाः शास्त्र-पुराण-संहिताः । यैः पठितं श्रुतं वापि निम्बार्काख्यासहस्रकम् ॥ २२५॥ बहुधा साधितैर्मन्त्रैः साधकानां तु यत्फलम् । यच्छति पठितं तत्तन्निम्बार्काख्यासहस्रकम् ॥ २२६॥ नीचाय दुर्विनीताय हिंस्राय दोषदर्शिने । गुरुभक्तिविहीनाय परदाररताय च ॥ २२७॥ पञ्चसंस्कारहीनाय दुराचाराय पापिने । शठाय परशिष्याय नास्तिकायात्मघातिने ॥ २२८॥ निम्बादित्याङ्घ्रिहीनाय सम्प्रदायविवर्जिने । न देयं नैव देयं वै निम्बार्काख्यासहस्रकम् ॥ २२९॥ देयं शान्ताय शुद्धाय सम्प्रदायरताय च । राधाकृष्णोपसन्नाय गुरुभक्तिपराय च ॥ २३०॥ निम्बादित्याङ्घ्रिभक्ताय निम्बादित्योक्तवेदिने । पञ्चसंस्कारयुक्ताय तुलसीमालिने तथा ॥ २३१॥ जितक्रोधाय नम्राय शुद्धाचारयुताय च । शिष्याय समभक्ताय स्वच्छान्तः करणाय च ॥ २३२॥ नित्यपूजारतायाऽथ निम्बार्काख्यासहस्रकम् । ब्राह्मणाय न देयं वै विष्णुभक्तिविदूषिणे ॥ २४३॥ श्वपचाय सदा देयं कृष्णभक्तिरताय च । निम्बार्कनामसाहस्रं न पठेत् संस्कृतोऽपि यः ॥ २३४॥ कथं स वैष्णवो ज्ञेयो निम्बार्क-साम्प्रदायिकैः । निम्बार्कभक्तिहीनो यः श्वपचादधिको हि सः ॥ २३५॥ निम्बार्कनामसाहस्रादृते वै वैष्णवस्य तु । सिद्ध्यति मन्त्रराजो न कल्पकोटिशतैरपि ॥ २३६॥ तुलसी-मन्दिरे तीर्थे गोपालमूर्तिसन्निधौ स्वसम्प्रदायके साधौ निरुपद्रवसंस्थितौ ॥ २३७॥ निम्बार्कनामसाहस्रं सम्पठेद्वैष्णवः सदा । निम्बार्कनामसाहस्रं पठतां सततं सताम् ॥ २३८॥ राधाकृष्णाऽऽविरस्तिस्तु भवत्यत्र न संशयः । (आविरस्तिः-आविर्भावः इत्यर्थः ।) निम्बार्कनामसाहस्रं पठतां महतां सताम् ॥ २३९॥ विघ्ना नैव भविष्यन्त्यकालमृत्युभयादिकाः । जीवन्मुक्तो भवेत्सोऽपि कृष्णसायुज्यमाप्नुयात् । सत्यं सत्यं पुनः सत्यं श्रीनिम्बार्कप्रसादतः ॥ २४०॥ जयतु जयतु निम्बार्कोऽनिरुद्धो गरिष्ठो जयतु जयतु कार्ष्णिः श्रीकुमारो महिष्ठः ॥ जयतु जयतु देवर्षिर्महार्हो वरिष्ठो (जयतु जयतु देवकृष्णमार्होवरिष्ठ) जयतु जयतु निम्बादित्यसंज्ञा-धरिष्ठः ॥ २४१॥ जयतु जयतु सिद्धः श्रीनिवासो बलिष्ठो जयतु जयतु राधाकृष्णयुग्मं विशिष्टम् । जयतु जयतु वृन्दारण्यसंज्ञासुकीर्त्तिः सुमधुर-रसदा वृन्दासखी यूथमुख्या ॥ २४२॥ (वृन्दासखी यूथपाली) जयतु जयतु नित्या जंजपूका क्रियाधा (जयतु जयतु जटिलाद्यास्ताद्वियुग्यासुधा) जयतु जयतु मुग्धा जानती गीतभेदान् । जयतु जयतु मुख्या रंगदेवी सुमध्या (रंगदेवी सुकर्वी) जयतु जयतु गम्भीरा सुदेवैकनिष्ठा ॥ २४३॥ (सुदेवी कनिष्ठा) अरिवरमवतीर्ण(१) विष्णुहस्तात् सुवर्णं (विष्णुहस्तस्थमेव, विष्णुहस्तासवर्णम्)) हरिविधिकरपार्श्वे सेवितं विद्यमानम् । (सेव्यतो विद्यमानम्) व्रजपतिसुतयोः श्रीरंगदेवीस्वरूपे (श्रीरंगदेव्या समंताम्, श्रीरंगदेव्याकृतिं तम्) प्रणमत सततं निम्बार्कमाचार्यवर्य्यम् ॥ २४४॥ ॥ इति श्रीनिम्बार्कसहस्रनामस्तोत्रं सम्पूर्णम् ॥ (१) Footnote टिप्पणी अरिवरमिति पद्यस्य व्याख्या-- अरं रथाङ्गस्य (चक्रस्य) अङ्गमक्षाग्रकीलकम् । ``अरमङ्गे रथाङ्गस्य शीघ्र-शीघ्रगयोरपि'' इति शाश्वतः (५८५) तदस्यास्तीति अरी च चक्रम् । तेषु वरः श्रेष्ठ इति । तं अरिवरं चक्रराजम् । विष्णुहस्तादवतीर्णम् । ``सुदर्शन ! महाबाहो ! कोटिसूर्यसमप्रभ! अज्ञानतिमिरान्धानां विष्णोर्मार्गं प्रदशर्य'' इत्येवं विष्णोराज्ञया कृतावतारम् । सुवर्णम्। सुष्ठु वर्णो यस्य तम्--ब्राह्मणवर्णम्। यद्वा सुवर्णं हिरण्यमिव देदीप्यमानम् । हरेः विष्णोः विधिना शास्त्रोक्त- विधानेन ``कल्पे विधिक्रमौ'' इत्यमरः (२/७/३७) करपार्श्वे सेवितम् । व्रजपतिसुतयोः श्रीराधाकृष्णयोः सेवायां निकुञ्जधाम्नि श्रीरङ्गदेवी स्वरूपे विद्यमानम् । आचार्यवर्य्यं श्रीनिम्बार्कं सततं प्रणमतेत्यर्थः । श्रीगोविन्दं गुरुं स्मृत्वा निम्बार्काख्यासहस्रकम् । सम्पादितं मया, तेन श्रीनिम्बार्कः प्रसीदतु ॥ ॥ श्रीराधासर्वेश्वरो विजयतेतराम् ॥ ॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥ Proofread by Chandrasekhar Karumuri
% Text title            : Nimbarka Sahasranama Stotram
% File name             : nimbArkasahasranAmastotram.itx
% itxtitle              : nimbArkasahasranAmastotram (gauramukhAchAryapraNItam)
% engtitle              : nimbArkasahasranAmastotram
% Category              : deities_misc, gurudev, nimbArkAchArya, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : gauramukhAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Chandrasekhar Karumuri
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (nAmAvalI, Scan)
% Acknowledge-Permission: Jagadguru Nimbarkacharyapitham, Shrinimbarkatirtha, Kishangadh, Ajmer, Rajasthan
% Latest update         : January 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org