सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतनामावलिः
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
॥ सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतनामावलिः ॥
ॐ त्यागराजाय विद्महे । नादब्रह्मणे धीमहि ।
तन्नस्सद्गुरुः प्रचोदयात् ॥
अथ अष्टोत्तरशतनामावलिः ।
ॐ
॥ मङ्गलस्वरूपश्रीसद्गुरुस्वामिसच्चरणारविन्दमेव शरणम् ॥
ॐ नादब्रह्मावताराय नमः ।
ॐ नारदांशभूताय नमः ।
ॐ करुणारस-परिपूर्णाय नमः ।
ॐ परमहंसाय नमः ।
ॐ ज्ञाननिधये नमः ।
ॐ रामभक्तिवपुषे नमः ।
ॐ मृदुतम-सत्त्व-सुभाषिणे नमः ।
ॐ मधुरगानमूर्तये नमः ।
ॐ रोधरहित-नादौघादिमूलाय नमः ।
ॐ स्वरलय-निलयाय नमः ।
ॐ कोकिलगान-सुकवीशाय नमः ।
ॐ सङ्गीतसाम्राज्याधिपतये नमः । १२
ॐ सुस्वरालय-नित्यवास-रसिक-दैवकाय नमः ।
ॐ एकाग्रचित्त-स्मरणार्द्रीभूत-भक्ताश्र्वभिषिक्त-पदपङ्कजाय नमः ।
ॐ तुम्बर-झल्लक-प्रसाधित-करकमलाय नमः ।
ॐ अक्षय-सुगन्ध-सुस्वर-पुष्पावल्यलङ्कृत-वक्षस्थलाय नमः ।
ॐ हरिगुण-मुक्ताहार-शोभितकण्ठाय नमः ।
ॐ श्रीरामनाम-परितुष्टि-विकसितवदनाय नमः ।
ॐ नामप्रभाव-स्वानुभव-बाष्पाकुल-दीप्रलोचनाय नमः ।
ॐ श्रीरामनाम-गानलय-लीनोज्ज्वल-सुमुखमण्डलाय नमः ।
ॐ तेजोमयगात्राय नमः ।
ॐ सत्त्वमूर्तये नमः ।
ॐ सगुणोपासकाय नमः ।
ॐ नादोपासक-वरिष्ठाय नमः । २४
ॐ श्रीराममन्दिर-झणझणायित-घण्टामणये नमः ।
ॐ शतकोटि-रामतारकमन्त्र-जपकाय नमः ।
ॐ श्रीरामध्यान-लीन-सम्मूर्च्छिताय नमः ।
ॐ श्रीराम-साक्षात्कारप्राप्त-महात्मने नमः ।
ॐ श्रीरामेण सह सरस-सम्भाषिणे नमः ।
ॐ श्रीरामार्पण-देहात्मने नमः ।
ॐ श्रीरामनाम-स्मरण-सुखस्थिताय नमः ।
ॐ श्रीरामकथा-सुधारस-पानमत्ताय नमः ।
ॐ श्रीरामभक्तिसाम्राज्य-चक्रवर्तिने नमः ।
ॐ श्रीसीताराम-नित्यपूजोत्सव-प्रमुदितहृदयाय नमः ।
ॐ श्रीरामाभरण-रागरत्नमालिका-विरचनाय नमः ।
ॐ श्रीरामनाम-महिमोद्घोषि-घनस्वनाय नमः । ३६
ॐ मधुरस्वर-जित-वीणावेणवे नमः ।
ॐ श्रुतिमनोहर-सुस्वरातिमञ्जुल-रवाय नमः ।
ॐ कलोत्तालामृतधारा-वाक्प्रवाहिणे नमः ।
ॐ श्रीरामसन्निधि-मधुस्रावि-गानानन्द-परिनर्तनाविष्टोन्मादिताय नमः ।
ॐ तारकनाम-स्मरण-ध्यान-समाधिस्थाय नमः ।
ॐ श्रीरामचन्द्र-सान्निध्य-पुलकिताय नमः ।
ॐ सारसपादार्पित-हृदयारविन्दाय नमः ।
ॐ नित्य-भजनोत्सव-निरताय नमः ।
ॐ भजनामृत-निमग्नाय नमः ।
ॐ नामकुसुमार्चन-रोमाञ्चिताय नमः ।
ॐ पावन-सुचरिताय नमः ।
ॐ सुस्वरगानार्द्राय नमः । ४८
ॐ सरिगमपधनि-वर-सप्तस्वरानन्द-नर्तनाह्लादिताय नमः ।
ॐ साक्षात् सुस्वरदेवतायै नमः ।
ॐ मूलाधारज-नाद-रहस्यज्ञ-नादयोगिने नमः ।
ॐ नादविद्या-मर्माभिज्ञ-गानवारिधये नमः ।
ॐ स्वररागसुधारसयुतभक्ताय नम ।
ॐ रागसुधारसपानरञ्जिताय नमः ।
ॐ नादसुधारसाकृतये नमः ।
ॐ गीतामृत-सार-वर्षिणे नमः ।
ॐ भक्ति-सङ्गीत-ज्ञानार्णवाय नमः ।
ॐ स्वरार्णवमर्मज्ञाय नमः ।
ॐ वीणावादन-तत्त्वज्ञाय नमः ।
ॐ श्रुतिशास्त्र-विशारदाय नमः । ६०
ॐ भावरागतालमोदिने नमः ।
ॐ रागताललयलास्यरूपाय नमः ।
ॐ तुम्बर-सहित-गानलोलाय नमः ।
ॐ शिञ्जान-झल्लरी-मञ्जीर-नर्तनाय नमः ।
ॐ मृदङ्गनादमोदिताय नमः ।
ॐ सुशोभन-सप्तस्वर-सुन्दरदेवता-भजनकाय नमः ।
ॐ नाद-पञ्जर-कीराय नमः ।
ॐ गानगगनोर्ध्वगमन-मधुगायनाय नमः ।
ॐ सङ्गीतवन-नर्तन-मयूराय नमः ।
ॐ सङ्गीतानन्दसागर-विहार-वैसारिणाय नमः ।
ॐ श्रुतिलय-समुद्र-परिप्लुताय नमः ।
ॐ ध्यानगङ्गास्नानानन्दिताय नमः । ७२
ॐ गान्धर्व-गानविद्या-परिनैष्ठिकाय नमः ।
ॐ प्राणानल-संयोग-समुत्थ-प्रणवनाद-रहस्योपदेष्ट्रे नमः ।
ॐ श्रीगायत्रीहृदय-सूक्ष्मरूप-प्रकाशनाय नमः ।
ॐ अज्ञानतिमिरादित्याय नमः ।
ॐ साक्षादग्नये प्रज्वलच्छुचये नमः ।
ॐ मानवरूप-भूसञ्चरित-दैवताय नमः ।
ॐ तामसनिद्रा-भञ्जनाय नमः ।
ॐ तापस-हृदयताप-निर्वापकाय नमः ।
ॐ भयनाशनाय नमः ।
ॐ भवसागरोल्लङ्घनानुकूल-मारुतये नमः ।
ॐ संसार-मकरघ्न-चक्रायुधाय नमः ।
ॐ आशापाश-बन्धन-विच्छेत्रे नमः । ८४
ॐ शरणागत-हृत्खेद-शमनाय नमः ।
ॐ शिष्य-मनोनाश-कारकाय नमः ।
ॐ स्वभक्त-मनोमन्दिर-ज्वलज्ज्योतीरूपाय नमः ।
ॐ आश्रित-हृदयालय-नित्यवासाय नमः ।
ॐ प्रणयि-प्राणार्चिताय नमः ।
ॐ प्रपन्नानन्यगतये नमः ।
ॐ उपासकानुरागैकास्पदाय नमः ।
ॐ आराधयितृ-जीवनाधाराय नमः ।
ॐ शिष्यहृदय-पुष्पसुगन्ध-भक्तिमधु-रसिक-भृङ्गाय नमः ।
ॐ सङ्गीतसौभाग्यप्रदायकाय नमः ।
ॐ सुशरीर-सुस्वरानुग्राहिणे नमः ।
ॐ शरणार्थि-परिनिर्वृत्तिभूताय नमः । ९६
ॐ मोक्षमार्गदर्शकाय नमः ।
ॐ नादोपासनतत्पराय नमः ।
ॐ नादात्मकश्रीरामतन्मयाय नमः ।
ॐ ब्रह्मानन्दचिन्मयाय नमः ।
ॐ सच्चिदानन्दपरिपूर्णाय नमः ।
ॐ सङ्गीतानन्दसाराय नमः ।
ॐ सङ्गीतयोगब्रह्मनिष्ठाय नमः ।
ॐ नादचिन्तामणये नमः ।
ॐ नादोत्तुङ्गशृङ्ग-दीपाङ्कुराय नमः ।
ॐ तेजोमय-जाज्वल्यमान-परमात्म-निलीनाय नमः ।
ॐ साक्षात्परब्रह्मणे नमः ।
ॐ श्रीत्यागब्रह्मसद्गुरवे नमो नमः । १०८
ॐ
इति सद्गुरुश्रीत्यागराजस्वामिनः शुभचरणयुगपुष्पे
गुरुशरणार्थिपुष्पया अनुरागेण कृता
अष्टोत्तरशतनामावलिः समर्पिता ।
ॐ
शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan