श्रीधरोपनिषत्

श्रीधरोपनिषत्

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ नमस्ते सद्गुरु श्रीधराय । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमानन्दमयोऽसि । त्वं सत्यज्ञानमनन्तोऽसि । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं शान्तिमयोऽसि । प्रेममयोऽसि । त्वं नित्यनिर्गुण निराकार निरालम्बकोऽसि । त्वं निर्धूतकल्मषनिरामयनिष्क्रियोऽसि । त्वं सर्वव्यापकात्मरूपोऽसि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं गुरुवरोत्तमोऽसि । त्वदाज्ञया सूर्यस्तपति, वातः पवति, अग्निस्तपति, मृत्युर्धावति पञ्चमः । त्वत्सत्तया सर्वं क्रियावान् भवति । त्वत्तः सर्वाणि भूतानि जायन्ते । जातानि त्वत्तः जीवन्ति । त्वयि प्रयन्त्यभिसंविशन्ति । त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं सहस्रदळपद्मस्थितोऽसि नित्यम् । त्वमेव मनोबुद्ध्यहङ्कारः प्रेरकोऽसि । त्वमेव शमदमादि षट्सम्पत्प्रदायकाऽसि । त्वं मोक्षश्रियं धारकोऽसि । त्वमज्ञानतिमिरभास्करोऽसि । त्वं मायामोहविदूरकोऽसि । त्वं भवबन्धविमोचकोऽसि । त्वं सर्वसद्गुणकर्ताऽसि । त्वं सर्वदुर्गुणहर्ताऽसि । त्वं शान्तिदान्तिप्रदोऽसि । त्वं भक्तिज्ञानप्रदोऽसि । त्वं मोक्षानन्द प्रदायकोऽसि । त्वं सर्वविघ्नविनाशकोऽसि । त्वमभयवरदवरोऽसि । त्वं भक्तजनतारकोऽसि । त्वं निजसुखपदप्रदायकोऽसि । ऋतेत्वत् कोऽसि नेतरस्समर्थः । ऋतेत्वत् कोऽपि नेतरो दयालुः । ऋतेत्वत् कोऽपि नेतरो क्षमाशीलः । ऋतेत्वत् कोऽपि नेतरो भक्तवत्सलः । ऋतेत्वत् कोऽपि नेतरो धर्मरक्षकः । ऋतेत्वत् कोऽपि नेतरः सद्गुरुर्ज्ञानदायकः । त्वत्तः सकल साधन सम्पत्समृद्धत्वम् । त्वत्तः भक्तिज्ञानवैराग्यसाधनशक्तिमत्वम् । त्वयि समुपस्थितं जगदुत्पत्तिस्थितिलयकारण बीजम् । त्वयि सुप्रतिष्ठितं संसृतिनाशनाद्वैतभावनामूलम् । कनककामिनीमोहकत्वात् त्राहि त्राहि माम् । कामक्रोधादिषड्वैरिणत्वात् रक्ष रक्ष माम् । जन्मजरामरणरुग्दोषात् त्राहि त्राहि माम् । संसारहावानलदह्यमानं पाहि पाहि माम् । विषयकर्दमनिमज्जमानं त्राहि त्राहि माम् । त्वत्पादपङ्कजशरणागतिं देहि देहि मे । शमादिसम्पदं देहि देहि मे । त्वयाविना नास्ति कोऽन्याघारः । विना त्वया कोऽप्यस्ति आप्तो बन्धुस्तथा सखा । तव कृपाहस्तं देहि मे शिरसि । तव ध्यान देहि मे मनसि । सदा ते स्मरणं मे अस्तु । भो गुरो ! मन्मनोभृङ्गः त्वत्पदाब्जे निलीयतु । ॐ नमो भगवते श्रीधराय गुरवे सच्चिदानन्दाय ते नमः ॥ एतदुपनिषदं यो नित्यमधीते । स गुरुकृपावान्भवति । स ब्रह्म भूयाय कल्पते । स कैवल्यसुखमेधते । धर्मार्थकाममोक्षं च विन्दति । अनेन गुरुचरणमभिषिञ्चति स शुद्धो भवति । बुद्धो भवति । मुक्तो भवति । सहस्रावर्तनाद्योधीते स वाञ्च्छित फलमवाप्नोति । श्री गुरुसन्निधौ जप्त्वा सिद्धमन्त्रो भवति । श्रीगुरुकृपया स सर्वविद्भवति । स ब्रह्मविद् भवति । न स पुनरावर्तते । न स पुनरावर्तते । स पुनर्नाभिजायते । स पुनर्नाभिजायतेत्युपनिषत् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति श्रीमत् प. प. सच्चिदानन्दस्वामीविरचिता भगवान् सद्गुरु श्री श्रीधरोपनिषत् समाप्ता । (भगवान् सद्गुरु श्रीधर पूजाविधि ह्या कन्नड पुस्तकावरून) Proofread by Paresh Panditrao
% Text title            : Shridhara Upanishat
% File name             : shrIdharopaniShat.itx
% itxtitle              : shrIdharopaniShat
% engtitle              : shrIdharopaniShat
% Category              : deities_misc, gurudev, shrIdharasvAmI, upanishhat, upaniShat
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org