श्रीधरोपनिषत्
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ नमस्ते सद्गुरु श्रीधराय । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमानन्दमयोऽसि । त्वं सत्यज्ञानमनन्तोऽसि ।
त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं शान्तिमयोऽसि ।
प्रेममयोऽसि । त्वं नित्यनिर्गुण निराकार निरालम्बकोऽसि ।
त्वं निर्धूतकल्मषनिरामयनिष्क्रियोऽसि ।
त्वं सर्वव्यापकात्मरूपोऽसि । त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं गुरुवरोत्तमोऽसि । त्वदाज्ञया सूर्यस्तपति, वातः पवति, अग्निस्तपति,
मृत्युर्धावति पञ्चमः । त्वत्सत्तया सर्वं क्रियावान् भवति ।
त्वत्तः सर्वाणि भूतानि जायन्ते । जातानि त्वत्तः जीवन्ति ।
त्वयि प्रयन्त्यभिसंविशन्ति । त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः ।
त्वं देहत्रयातीतः । त्वं कालत्रयातीतः ।
त्वं सहस्रदळपद्मस्थितोऽसि नित्यम् ।
त्वमेव मनोबुद्ध्यहङ्कारः प्रेरकोऽसि ।
त्वमेव शमदमादि षट्सम्पत्प्रदायकाऽसि ।
त्वं मोक्षश्रियं धारकोऽसि । त्वमज्ञानतिमिरभास्करोऽसि ।
त्वं मायामोहविदूरकोऽसि । त्वं भवबन्धविमोचकोऽसि ।
त्वं सर्वसद्गुणकर्ताऽसि । त्वं सर्वदुर्गुणहर्ताऽसि ।
त्वं शान्तिदान्तिप्रदोऽसि । त्वं भक्तिज्ञानप्रदोऽसि ।
त्वं मोक्षानन्द प्रदायकोऽसि । त्वं सर्वविघ्नविनाशकोऽसि ।
त्वमभयवरदवरोऽसि । त्वं भक्तजनतारकोऽसि ।
त्वं निजसुखपदप्रदायकोऽसि ।
ऋतेत्वत् कोऽसि नेतरस्समर्थः ।
ऋतेत्वत् कोऽपि नेतरो दयालुः । ऋतेत्वत् कोऽपि नेतरो क्षमाशीलः ।
ऋतेत्वत् कोऽपि नेतरो भक्तवत्सलः ।
ऋतेत्वत् कोऽपि नेतरो धर्मरक्षकः ।
ऋतेत्वत् कोऽपि नेतरः सद्गुरुर्ज्ञानदायकः ।
त्वत्तः सकल साधन सम्पत्समृद्धत्वम् ।
त्वत्तः भक्तिज्ञानवैराग्यसाधनशक्तिमत्वम् ।
त्वयि समुपस्थितं जगदुत्पत्तिस्थितिलयकारण बीजम् ।
त्वयि सुप्रतिष्ठितं संसृतिनाशनाद्वैतभावनामूलम् ।
कनककामिनीमोहकत्वात् त्राहि त्राहि माम् ।
कामक्रोधादिषड्वैरिणत्वात् रक्ष रक्ष माम् ।
जन्मजरामरणरुग्दोषात् त्राहि त्राहि माम् ।
संसारहावानलदह्यमानं पाहि पाहि माम् ।
विषयकर्दमनिमज्जमानं त्राहि त्राहि माम् ।
त्वत्पादपङ्कजशरणागतिं देहि देहि मे ।
शमादिसम्पदं देहि देहि मे । त्वयाविना नास्ति कोऽन्याघारः ।
विना त्वया कोऽप्यस्ति आप्तो बन्धुस्तथा सखा ।
तव कृपाहस्तं देहि मे शिरसि । तव ध्यान देहि मे मनसि ।
सदा ते स्मरणं मे अस्तु । भो गुरो ! मन्मनोभृङ्गः त्वत्पदाब्जे निलीयतु ।
ॐ नमो भगवते श्रीधराय गुरवे सच्चिदानन्दाय ते नमः ॥
एतदुपनिषदं यो नित्यमधीते । स गुरुकृपावान्भवति ।
स ब्रह्म भूयाय कल्पते । स कैवल्यसुखमेधते ।
धर्मार्थकाममोक्षं च विन्दति ।
अनेन गुरुचरणमभिषिञ्चति स शुद्धो भवति । बुद्धो भवति ।
मुक्तो भवति । सहस्रावर्तनाद्योधीते स वाञ्च्छित फलमवाप्नोति ।
श्री गुरुसन्निधौ जप्त्वा सिद्धमन्त्रो भवति ।
श्रीगुरुकृपया स सर्वविद्भवति ।
स ब्रह्मविद् भवति । न स पुनरावर्तते । न स पुनरावर्तते ।
स पुनर्नाभिजायते । स पुनर्नाभिजायतेत्युपनिषत् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति श्रीमत् प. प. सच्चिदानन्दस्वामीविरचिता भगवान् सद्गुरु
श्री श्रीधरोपनिषत् समाप्ता ।
(भगवान् सद्गुरु श्रीधर पूजाविधि ह्या कन्नड पुस्तकावरून)
Proofread by Paresh Panditrao