श्रीसुश्लोक चैतन्यशतकम्
प्रणम्य त्वां प्रभो गौर तव पादे शतं ब्रुवे ।
सदाशयानां साधूनां सुखार्थं मे कृपां कुरु ॥ १॥
श्रीराधाकृष्णयोः सेवां स्थापयित्वा गृहे गृहे ।
श्रीमत्सङ्कीर्तने गौरो नृत्यति प्रेम विह्वलः ॥ २॥
जिह्वायां हरिनामसाधनमहो धाराशतं नेत्रयोः
सर्वाङ्गे पुलकोद्गमो निरवधि स्वेदश्च विभ्राजते ।
श्रीमद्गौरहरेः प्रगल्भमधुरा भक्तिप्रदातुर्जनैः
सेवा श्रीव्रज योषितामनुगता नित्या सदाशिक्ष्यते ॥ ३॥
कलिमल पतितानां शोक मोहावृतानां
निजजन पति सेवा वित्त चिन्ताकुलानाम् ।
इति समजनि गौरस्त्राणहेतुं विचिन्त्य
प्रकट मधुर देहो नाम दाता कृपालुः ॥ ४॥
श्रीश्रीमत्कृष्णचैतन्ये जगत्त्राणैक कर्तरि ।
यो मूढे भक्तिहीन स्यात्पच्यते नरके ध्रुवम् ॥ ५॥
यः कृष्णो राधया कुञ्जे विलास कृतवान् पुरा ।
गदाधरेण संयुक्तः स गौरो वसते भुवि ॥ ६॥
संसारसर्प दष्टानां मूर्च्छितानां कलौयुगे ।
औषधं भगवन्नाम श्रीमद्वैष्णव सेवनम् ॥ ७॥
विषयाविष्ट मूर्खानां चित्त संस्कारमौषधम् ।
विश्रम्भेण गुरोः सेवा वैष्णवोच्छिष्ट भोजनम् ॥ ८॥
वन्दे श्रीकरुणासिन्धुं श्रीचैतन्यं महाप्रभुम् ।
कृपां कुरु जगन्नाथ! तव दास्यं ददस्व मे ॥ ९॥
दास्यं ते कृपया नाथ! देहि देहि महाप्रभो! ।
पतितानां प्रेमदाताऽस्यतो याचे पुनः पुनः ॥ १०॥
संसार सागरे मग्नं पतितं त्राहि मां प्रभो ।
दीनोद्धारे समर्थस्त्वमतस्ते शरणं गतः ॥ ११॥
जगतां त्राण कर्तासि भर्ता दातासि सम्पदाम् ।
त्राणं कुरुष्व भो नाथ! दास्यं देहि शचीसुत! ॥ १२॥
सर्वेषामवताराणां पुराणैर्यत्श्रुतं फलम् ।
तस्मान्मे निष्कृतिर्नास्ति अतस्ते शरणं गतः ॥ १३॥
विचित्र मधुराक्षर श्रुतिमनोज्ञ गीतो मुदा
स्वभक्तगण मण्डली रचित मध्यगामी प्रभुः ।
मनोहर मनोहरो नटति गौरचन्द्रः स्वयं
जगत्त्रय विभूषणो परमधाम नीलाचले ॥ १४॥
विलोक्य पुरुषोत्तमं कनक गौर देहो हरिर्
मुदा हृदय पन्कजे जलदकान्ति आलिङ्गितुम् ।
पपात धरणीतले सकलभाव सम्मूर्च्छितः
कदाचिदपि नेङ्गते परमधारि संस्पन्दनम् ॥ १५॥
गौरस्य नयने धारा सगद्गद वचो मुखे ।
पुलकाङ्कित सर्वाङ्गो भावे लुठति भूतले ॥ १६॥
चैतन्य चरणाम्भोजे यस्यास्ति प्रीतिरच्युता ।
वृन्दातवीशयोस्तस्य भक्तिस्याच्छत जन्मनि ॥ १७॥
यथा राधा पदाम्भोजे भक्तिः स्यात्प्रेमलक्षणा ।
तथैव कृष्णचैतन्ये वर्धते मधुरा रतिः ॥ १८॥
कनकमुकुरकान्तिं चारु वक्त्रारविन्दं
मधुरमुकुर हास्यं पक्व बिम्बाधरोष्ठम् ।
सुवलित ललिताङ्गं कम्बुकण्ठं नटेन्द्रं
त्रिभुवन कमनीयं गौरचन्द्रं प्रपद्ये ॥ १९॥
सुदीर्घसुमनोहरं मधुरकान्ति चन्द्राननं
प्रफुल्लकमलेक्षणं दशनपङ्क्ति मुक्ताफलम् ।
सुपुष्प नवमञ्जरी श्रवणयुग्म सद्भूषणं
प्रदीप्तमणि कङ्कणं कषितहेम गौरं भजे ॥ २०॥
अखिलभुवनबन्धो प्रेमसिन्धो जनेऽस्मिन्
सकलकपटपूर्णे ज्ञानहीने प्रपन्ने ।
तव चरणसरोजे देहि दास्यं प्रभो त्वं
पतित तरण नाम प्रादुरासीत् यतस्ते ॥ २१॥
ऊर्ध्वीकृत्य भुजद्वयं करुणया सर्वान्जनानादिशेत्
रे रे भागवता हरिं वद वद श्रीगौरचन्द्रः स्वयम् ।
प्रेम्णा नृत्यति हुङ्कृति विकुरते हा हा रवैर्व्याकुलो
भूमौ लुण्ठति मूर्च्छति स्वहृदये हस्तौ विनिक्षिप्यति ॥ २२॥
हरेनाम कृष्णनाम गानदान कारिनीं
शोकमोह लोभताप सर्वविघ्न नाशिनीम् ।
पादपद्मलुब्ध भक्तवृन्द भक्तिदायिनीं
गौरमूर्तिमाशु नौमि नाम सूत्रधारिणीम् ॥ २३॥
मालतीमल्लिकादाम बद्ध कुञ्चित कुन्तलम् ।
भालोद्यत्तिलकं गण्ड रत्नकुण्डलमण्डितम् ॥ २४॥
श्रीखण्डागुरुलिप्ताङ्गं कङ्कणाङ्गद भूषितम् ।
क्वनन्मङ्जीर चरणं गौरचन्द्रमहं भजे ॥ २५॥
मधुरं मधुरं कनकाभ तनुमरुणाम्बर सत्परिधेयमहो ।
जगदेक शुभं सकलैक परं करुणप्रवणं भज तं परमम् ॥ २६॥
कृष्णरूपं परित्यज्य कलौ गौरो बभूव यः ।
तं वन्दे परमानन्दं श्रीचैतन्य महाप्रभुम् ॥ २७॥
पीतांशुकं परित्यज्य शोणाम्बर धरोति यः ।
तं गौरं करुणा सिन्धुमाश्रये भुवनाश्रयम् ॥ २८॥
अवतीर्णः पुनः कृष्णो गौरचन्द्र सनातनः ।
मग्नास्त्रिभाग पापेस्मिन्तेषां त्राणस्य हेतवे ॥ २९॥
अवतीर्णे कलौ गौरे चण्डालाद्याः कुजातयः ।
यावन्तः पापिनश्चापि प्रायसो वैष्णवा अमी ॥ ३०॥
पतितं दुर्गतं दृष्ट्वा वैष्णवा लोकपावनाः ।
करौ धृत्वा हरेर्नाम याचन्ति कृपया कलौ ॥ ३१॥
सङ्कीर्तनारम्भकृतेऽपि गौरे धावन्ति जीवश्रवणे गुणानि ।
अशुद्धचित्ताः किमु शुद्धचित्ताः श्रुत्वा प्रमत्ताः खलु ते ननर्तुः ॥ ३२॥
किमाश्चर्यं किमाश्चर्यं कलौ जाते शचीसुते ।
स्त्रीबाल जडमूर्खाद्याः सर्वे नामपरायणाः ॥ ३३॥
चण्डाल यवना मूर्खाः सर्वे कुर्वन्ति कीर्तनम् ।
हरेर्नाम्नां गुणानां च गौरे जाते कलौ युगे ॥ ३४॥
किमद्भुतं गौरहरेश्चरित्रं ततोऽधिकं तत्प्रिय सेवकानाम् ।
सङ्कीर्तनामोद जनानुराग प्रेमप्रदानं वितनोति लोके ॥ ३५॥
सुवलितमणि मालैर्बद्धचूडं मनोज्ञः
सुललित मृदुभाले चन्दनेनाणुचित्रम् ।
श्रवणयुगलरन्ध्रे कुण्डलौ यस्य भातौ
हृदिविनिहितहारं नौमि तं गौरचन्द्रम् ॥ ३६॥
चैतन्यरूपगुणकर्म मनोज्ञवेशं यः सर्वदा स्मरति देहमनोवचोभिः ।
तस्यैव पादतलपद्मरजोभिलाषी सेवां करोमि शतजन्मनि बन्धुपुत्रैः ॥ ३७॥
इयं रसज्ञा तव नामकीर्तने श्रोत्रौ मनो मे श्रवणेऽनुचिन्तने ।
नेत्रे च ते रूपनिरीक्षणे सदा शिरोऽस्तु चैतन्य पादाभिवन्दने ॥ ३८॥
सङ्कीर्तनानन्दरस स्वरूपाः प्रेमप्रदानैः खलु शुद्धचित्ताः ।
सर्वे महान्तः किल कृष्ण तुल्याः संसार लोकान्परितारयन्ति ॥ ३९॥
यस्मिन्देशे कुलाचारो धर्माचारश्च नास्ति वै ।
तथापि धन्यस्तद्देशो नाम सङ्कीर्तनाद्धरेः ॥ ४०॥
यावतां च कुतन्त्राणां समुद्धारस्य हेतवे ।
अवतीर्णः कलौ कृष्णचैतन्यो जगतां पतिः ॥ ४१॥
सर्वावतारा भजतां जनानां त्रातुं समर्थाः किल साधुवार्ता ।
भक्तानभक्तानपि गौरचन्द्रस्ततार कृष्णामृतनामदानैः ॥ ४२॥
चैतन्य प्रेमदाताखिल भुवन जनान्भाव हुङ्कार्
नादैर्गोविन्दाकृष्ट चित्तान्कुविषय विरतान्कारयामास शीघ्रम् ।
एवं श्रीगौरचन्द्रे जगति च जनिते वञ्चितो यहि मूर्खस्तापी
पापी सुरापी हरिगुरुविमुखः सर्वदा वञ्चितः सः ॥ ४३॥
त्रिभुवनकमणीये गौरचन्द्रेऽवतीर्णे पतितयवनमूर्खाः सर्वथा स्फोटयन्तः ।
इह जगति समस्ता नाम सङ्कीर्तनार्ता वयमपि च कृतार्थाः कृष्णनामाश्रयात् ॥ ४४॥
मधुरमधुरमेतद् वैष्णवानां चरित्रं कलिमलकृत हीनान्दोषबुद्ध्या न जग्मुः ।
सकल निगमसारं नामदातुं च तत्र प्रबलकरुणया श्रीगौरचन्द्रोऽवतीर्णः ॥ ४५॥
लोकान्समस्तान्कलिदुर्ग वारिधेर्नाम्ना समुत्तार्य स्वतः समर्पितम् ।
श्रीगौरचन्द्रैर्हरि वैष्णवानां नाम्नश्च तत्त्वं कथितं जने जने ॥ ४६॥
यावन्तो वैष्णवा लोके परित्राणस्य हेतवे ।
रटन्ति प्रभुनादिष्टा देशे देशे गृहे गृहे ॥ ४७॥
जगद्बन्धोर्जगत्कर्तुर्जगतां त्राणहेतवे ।
यत्र तत्र हरेः सेवा कीर्तने स्थापिते सुखे ॥ ४८॥
गौराङ्गः प्रेममूर्तिर्जगति यदवधि प्रेमदानं करोति
पापी तापी सुरापी निखिल जनधनस्यापहारी कृतघ्नः ।
सर्वान्धर्मान्स्वकीयान्विषमिव विषयं सम्परित्यज्य कृष्णं
गायन्त्युच्चैः प्रमत्तास्तदवधि विकलाः प्रेमसिन्धौ विमग्नाः ॥ ४९॥
येषां कस्मिन्कलि युगे नोद्धारो बहु जन्मसु ।
कलौ ते ते सुखे मग्ना नामगानप्रसादतः ॥ ५०॥
हरेर्नाम्नां प्रसादेन निस्तरेत्पातकी जनः ।
उपदेष्टा स्वयं कृष्णचैतन्यो जगदीश्वरः ॥ ५१॥
अखिलभुवन बन्धुर्नाम दाता कृपालुः कषितकनकवर्णः सर्वमाधुर्यपूर्णः ।
अतिसुमधुरहासः स्निग्धदृक्प्रेमभासः स्फुरतु हृदयमध्ये गौरचन्द्रो नटेन्द्रः ॥ ५२॥
अतिमधुरचरित्रः कृष्णनामैकमन्त्रो भुवनविदित सर्वप्रेमदाता नितान्तः ।
विपुल पुलक धारी चित्त हारी जनानां स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ५३॥
सकल निगम सारः पूर्ण पूर्णावतारः कलि कलुष विनाशः प्रेम भक्ति प्रकाशः ।
प्रिय सहचर सङ्गे रङ्ग भङ्ग्या विलासी स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ५४॥
जगदतुलमनोज्ञो नाट्य लीलाभिविज्ञः कलितमधुरवेशो मूर्छिताशेषदेशः ।
प्रबलगुणगभीरः शुद्धसत्त्वस्वभावः स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ५५॥
निरवधि गलदश्रुः स्वेद युक्तः सकम्पः पुलकवलितदेहः सर्वलावण्यगेहः ।
मनसिजशतचित्तक्षोभकारी यशस्वी स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ५६॥
शमनदमननाम कृष्णनामप्रदानः परमपतितदीनत्राण कारुण्यसीमः ।
व्रजविपिनरहस्य प्रोल्लसच्चारुगात्रः स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ५७॥
सकलरसविदग्धः कृष्णनामप्रमोदः प्रबलगुणगभीरः प्राणिनिस्तारधीरः ।
निरुपमतनुरूपः द्योतितानङ्गभूपः स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ५८॥
विमलकमलवक्त्रः पक्वबिम्बाधरोष्ठस् तिलकुसुमसुनासः कम्बुकण्ठः सुदीर्घ ।
सुवलितभुजदण्डो नाभिगम्भीररूपः स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ५९॥
कषितकनककान्तेः सारलावण्यमूर्तिः कलिकलुषविहन्ता यस्यकीर्तिवरिष्ठाः ।
अखिलभुवनलोके प्रेमभक्तिः प्रदाता स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ६०॥
बहुविधमणिमाला बद्धकेशो विचित्रो मलयज तिलकोद्यद् भालदेशोऽलकालिः ।
श्रवणयुगल लोलत्कुन्तलो हारवक्षाः स्फुरतु हृदय मध्ये गौरचन्द्रो नटेन्द्रः ॥ ६१॥
यदवधि हरिनाम प्रादुरासीत्पृथिव्यां तदवधि खलु लोका वैष्णवाः सर्वतस्ते ।
तिलकविमलमाला नामयुक्ताः पवित्राः हरि हरि कलिमध्ये एवमेवं बभूव ॥ ६२॥
जीवे पूर्णोदया यतः करुणया हा हा रवैर्प्रार्थनां
हे हे कृष्ण कृपानिधे! भव महादावाग्निदग्धान् जनान् ।
त्राहि त्राहि महाप्रभो! स्वकृपया भक्तिं निजां देह्यलं
मैवङ्गौरहरेः सदा प्रकुरुते दीनैकनाथः प्रभुः ॥ ६३॥
विषण्ण चित्तान्कलि पाप भीतान्संवीक्ष्य गौरो हरिनाम मन्त्रम् ।
स्वयं ददौ भक्तजनान्समादिशेत्कुरुष्व सङ्कीर्तननृत्यवाद्यान् ॥ ६४॥
हरेर्मूर्तिं सुरूपाङ्गीं त्रिभङ्गमधुराकृतिम् ।
इति गौरो वदेद्भक्तान्स्थापयध्वं गृहे गृहे ॥ ६५॥
सुशोणपद्म पत्राक्ष! सुबिम्बाधरपल्लव! ।
सुनासापुटलालित्य! गौरचन्द्र नमोऽस्तु ते ॥ ६६॥
कन्दर्पकोटि लावण्य! कोटिचन्द्रानन त्विषे ।
कोटिकाञ्चन पुष्पाभ! गौरचन्द्र! नमोऽस्तु ते ॥ ६७॥
समुक्तादन्त पङ्क्त्याभ! हास्यशोभा शुभाकर! ।
सिंहग्रीव! लसत्कण्ठ! गौरचन्द्र! नमोऽस्तु ते ॥ ६८॥
मल्लिमालोल्लसद्वक्षः कर्णालम्बित मौक्तिक! ।
कङ्कणाङ्गदसंयुक्त! महाभुज! नमोऽस्तु ते ॥ ६९॥
मृगेन्द्रमध्यकङ्काल! जानुरम्भातिसुन्दर! ।
कूर्मपृष्ठपदद्वन्द्व! गौरचन्द्र! नमोऽस्तु ते ॥ ७०॥
७१
आश्रये तव पादाब्जं कलिकाचम्पकाङ्गुलम् ।
कृपां कुरु दयानाथ! गौरचन्द्र! नमोऽस्तु ते ॥॥
नखपङ्क्तिजितानेक माणिक्यमुकुरद्युते ।
चरणे शरणं याचे गौरचन्द्र नमोऽस्तु ते ॥ ७२॥
ध्वजवज्राङ्किते पादपद्मेऽहं शरणं गतः ।
करिष्यति यमः किं मे गौरचन्द्र! नमोऽस्तु ते ॥ ७३॥
शतशत पतितानां त्राणकर्ता प्रभुस्त्वं
कथमपि किमुदोषे वञ्चितोऽहं प्रपन्नः ।
कलिभयकृतभीतं त्राहि मां दीनबन्धो!
सरणगतगतिस्त्वं किं ब्रुवे गौरचन्द्र! ॥ ७४॥
किमद्भुतं गौरहरेश्चरित्रं नामोपदेशाद्धरिमाश्रयन्ति ।
नृत्यन्ति गायन्ति रुदन्ति लोका रटन्ति स्वार्थान्हरिभक्तियुक्ताः ॥ ७५॥
निरन्तर कृष्णकथा परस्परं सुभक्तिदं नाम हरेर्वदन्ति वै ।
जल्पन्ति लोका भुवि भावविह्वला गौरेऽवतीर्णे कलिपापनाशके ॥ ७६॥
सत्यत्रेताद्वापरेषु यज्ञध्यानतपव्रतैः ।
केषां केषां फलं जातं शुभकर्मविधानतः ॥ ७७॥
कलौ श्रीगौरकृपया नाम मात्रैक जल्पकाः ।
कृष्णसान्निध्यसम्प्राप्ताः प्रेमभक्तिपरायणाः ॥ ७८॥
अणुब्रह्माण्डयोर्मध्ये चैतन्येन समाहृताम् ।
हरेकृष्णरामनाममालां भक्तिप्रदायिनीम् ॥ ७९॥
जल्पन्ति हरिनामानि चैतन्यज्ञानरूपतः ।
भजन्ति वैष्णवान्ये तु ते गच्छन्ति हरेः पदम् ॥ ८०॥
शृण्वन्ति ये वै गुरुतत्त्वगाथां गायन्ति यत्नैर्हरिनाम मन्त्रम् ।
अर्चन्ति साधुं गुरुदेवतां च चैतन्यभक्ताः कलिकालमध्ये ॥ ८१॥
कृष्णचैतन्य देवेन हरिनाम प्रकाशितम् ।
येन केनापि तत्प्राप्तं धन्योऽसौ लोकपावनः ॥ ८२॥
यदि स्यात्वैष्णवे प्रीतिः सदा कीर्तनलम्पटः ।
गौराङ्गचन्द्रविमुखः न वै भागवतोऽपि सः ॥ ८३॥
अनन्यचेता हरिमूर्तिसेवां करोति नित्यं यदि धर्मनिष्ठः ।
तथापि धन्यो न हि तत्त्ववेत्ता गौराङ्गचन्द्रे विमुखो यदिस्यात् ॥ ८४॥
किमु सुखमुपभोक्तुं वाञ्छयेद्वञ्चितोऽसौ सकलनिगमसिद्धं गौरचन्द्रं न वेत्ति ।
हरि हरि कथमेतत्कुत्र यातं चरित्रंस भवजलधिमध्ये कुम्भीपाके प्रपात ॥ ८५॥
शचीसुतपदाम्बुजे शरणमात्रमन्वेषणं करोमि कुलदैवते प्रबलकातरे वैष्णवाः ।
कृपां कुरुत सर्वदा मयि विचित्रवाञ्छास्पदं ममप्रणतचेतसो भवतु सिद्धिरव्याहता ॥ ८६॥
न धनं न यशो न कुलं न तपो न जनं न शुभं न सुतं न सुखम् ।
चरणे शरणं तव गौरहरे! मम जन्मनि जन्मनि देहि वरम् ॥ ८७॥
नानाक्लेशामयैर्युक्तं स्मृतिहीनं च मां प्रभो ।
भवभीतेर्गौरचन्द्र! त्राहि त्राहि कृपानिधे! ॥ ८८॥
अनेकजन्मभ्रमणे मनुष्योऽहं भवन्कलौ ।
व्याकुलात्मा पदाब्जे ते शरणं रक्ष मां प्रभो ॥ ८९॥
कातरं पतितं शोच्यं त्राहि मां श्रीशचीसुत! ।
सर्वे प्रेम सुखे मग्ना वञ्चितं मा कुरु प्रभो ॥ ९०॥
सर्वेषां पापयुक्तानां त्रातुं शक्तोऽन्यदैवतः ।
ममोद्धारे प्रभुर्गौरो यतः पतितपावनः ॥ ९१॥
श्रीगौरचरणेद्वन्द्वे याचे याचे पुनः पुनः ।
जीवने मरणे वापि तव रूपं विचिन्तये ॥ ९२॥
कृष्ण त्वं द्वापरे श्यामं कलौ गौराङ्गविग्रहम् ।
धृत्वाऽशेष जनान्प्रेमभक्तिं यच्छसि लीलया ॥ ९३॥
यथेप्सितं गौरपदारविन्दे निवेदितं देहमनोवचोभिः ।
सर्वार्थसिद्धिं कुरु मे कृपालो निरन्तरं ते स्मृतिरस्तु नित्या ॥ ९४॥
स्वतन्त्रस्तु प्रभुरेव लीलामनुजविग्रहम् ।
धृत्वा लोकपरित्राणं कृतवान्हरिनामभिः ॥ ९५॥
अनाथबन्धो करुणैकसिन्धो! संसारबन्धात्कुरु मां विमुक्तम् ।
भ्रमामि तीर्थान्तव नाम गानैर्दृष्ट्वा सुसाधून्हरिदेवरूपान् ॥ ९६॥
यदुक्तं यत्कृतं पूर्वं यच्छ्रुतं यन्मनोगतम् ।
सर्वं क्षमस्व हे गौर त्वत्स्मृतिः स्यात्सदा मम ॥ ९७॥
लज्जां त्यक्त्वा पदे याचे भक्तिं मां प्रेमलक्षणाम् ।
देहि गौर कृपासिन्धो! त्वद्विना नास्ति दुःखहा ॥ ९८॥
अनेकजन्मकृतमज्जतोऽब्धौ सिद्धिं कुरुष्व प्रभुगौरचन्द्र! ।
समुज्ज्वलां ते पादपद्मसेवां करोमि नित्यं हरिकीर्तनं च ॥ ९९॥
व्रजेन्द्रनन्दनाभिन्नं गौराङ्ग! त्वां निवेदये ।
कृपां कुरु दयानाथ! सर्वसेवां करोम्यहम् ॥ १००॥
गीयते यै रतित्वेन चैतन्यशतकं मुदा ।
पठ्यते श्रूयते तैस्तु प्राप्तः स्यात्श्रीशचीसुतः ॥ १०१॥
इति सार्वभौमभट्टाचार्यविरचितं
श्रीसुश्लोक (चैतन्य)शतकं सम्पूर्णम् ।