सद्गुरुश्रीत्यागब्रह्मसहस्रकम् द्वितीयो भागः
ॐ
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
॥ श्रीत्यागराजस्वामिकीर्तनरागपुष्पावली ॥
ॐ गानगङ्गाय विद्महे । ज्ञानतीर्थाय धीमहि । तन्नो गुरुः प्रचोदयात् ॥
। ध्यानम् ।
नमः श्रीरामभद्राय नादसुधारसाय च ।
नादोपासनपूज्याय ससीताय नमो नमः ॥ १॥
नमः श्रीत्यागराजाय नादपूजाव्रताय च ।
नादोपासितरामाय गुरुश्रेष्ठाय ते नमः ॥ २॥
नमः श्रीत्यागराजाय लयरागस्वरूपिणे ।
रागावलिसुरागाय रागसन्नुतये नमः ॥ ३॥
नमः श्रीत्यागराजाय रागकीर्तनवासिने ।
पुष्पावलिसुपूज्याय आचार्याय नमो नमः ॥ ४॥
ॐ
रागपुष्पावलिस्मेररागावतारदैवतः ।
रागाक्षरसुवासश्च रागोपासितसद्गुरुः ॥ ५॥
रागमूर्तिगुरुस्वामी रागसाररसप्रियः ।
रागरागसुनेत्रश्रीसीतारामस्वरालयः ॥ ६॥
रागसारसरागश्रीरामरागगसारसः ।
रागसङ्गीतरामस्वहृत्सारससुपूजनः ॥ ७॥
रागानुरागसन्नूतरागस्वरूपरामकः ।
रागस्वरविलोलश्च रागपुष्पार्चनामुदः ॥ ८॥
अक्षरानन्ददायश्रीरामाभिरामगायनः ।
अक्षरस्वररागाभिनन्दितश्श्रीपकीर्तनः ॥ ९॥
अगराजसुतापुत्रगणनाथाभिवन्दनः ।
अगराजसुतावेगवाहसत्कृतिनन्दनः ॥ १०॥
असावेरीसुरागश्रीरामस्वागतकीर्तनः ।
अमृतावर्षललितोक्तरागस्वरमर्मवित् ॥ ११॥
अठाणारागगीतश्रीरामप्रहर्षदर्शनः ।
अठाणाकर्तृरामस्वगानठाणानिबन्धनः ॥ १२॥
अग्रपृष्ठद्विपार्श्वश्रीरामलक्ष्मणरक्षितः ।
असमानस्वभक्त्याह्वरामाविर्भावभावुकः ॥ १३॥
अमृतावाहगानश्रीरामपादाभिषेचनः ।
अतिलावण्यरामातिलालित्यकृतिलालनः ॥ १४॥
अभिरोरुदवाग्वर्षसंस्पष्टस्वमनस्स्थितिः ।
आभेरीरागसङ्गीतमनोगलनवाक्कृतिः ॥ १५॥
आकाशसुशरीरात्मारामसज्ज्ञानकीर्तनः ।
आगाधज्ञानसङ्गीतस्वरूपसुस्वरप्रियः ॥ १६॥
आगीतगीतवेदार्थसारकीर्तनबोधधिः ।
आगीतलोकतत्त्वार्थसर्वचिन्मयरूपकः ॥ १७॥
आभोगीगीतपूजावश्यनैश्चल्यमनस्स्थितिः ।
आपूर्णललितारागमारुतीसेवनानुतिः ॥ १८॥
आमन्त्रितस्वहृत्प्रेमसीतारामभवापहः ।
आनन्दकन्दगोविन्दनन्दनादिव्यनामगः ॥ १९॥
आद्यन्तरहितसुगुणसीतारामरागगः ।
आनूतोद्दण्डकोदण्डपाणिश्रीरामनामगः ॥ २०॥
आनन्दसुप्रसन्नाप्रमेयरामाह्वकीर्तनः ।
आनन्दसुप्रशान्तक्षीरसागरविहारगः ॥ २१॥
आनन्दभैरवीरासस्वमनोभावरामगः ।
आधाररामसर्वस्वदर्शसुज्ञानपूरगः ॥ २२॥
आनन्दरामसानन्दनामगानन्दसानदः ।
आबाल्यनामसारालीजपत्यक्तविचारगः ॥ २३॥
आनन्दसागराप्लावसङ्गीतज्ञानरागलीः ।
आत्माराममनोदर्श आशरदाशुगाशुगः ॥ २४॥
इहरक्षापरानन्दश्रीरामरागसत्कृतिः ।
इनवंशाब्धिचन्द्रश्रीरामबाणगतिस्तुतिः ॥ २५॥
ईशानविनुतश्रीसीतारामनुतिनामगः ।
ईशामोदनसन्नामतारकास्पदपावनः ॥ २६॥
उपचारक्रमागीतमनःपूजनरीतिगः ।
उपचारकुसुमनामसारसरसुस्वरः ॥ २७॥
उपचारिपरीतश्रीरामाविस्मृतियाचनः ।
उपचारैकपात्रश्रीरामप्रेमोक्तिकीर्तनः ॥ २८॥
उमाभरणरागस्वश्रीरामनिजमर्मगः ।
उमावरनुतश्रीमावरभावनकीर्तनः ॥ २९॥
ऊषकप्रशमश्रीरामभौलीरागजागरः ।
ऊषकश्रीपदशरूपगानसौम्यकीर्तनः ॥ ३०॥
ऋषभप्रियवाहेशबहुकीर्तनसंस्तुतिः ।
ऋषभारूढदारश्रीनारायणीनमस्कृतिः ॥ ३१॥
ऋषभप्रियरागश्रीरामयशोनुकीर्तनः ।
ऋषिसङ्कुलसन्नूतश्रीरामभक्ततल्लजः ॥ ३२॥
एकात्मरामरक्षार्थस्वोक्तलोकापराधगः ।
ऐकात्म्यावहसत्कीर्तनसर्वस्वपरात्मगः ॥ ३३॥
ओंकारधामरामेडादिव्यनामसुकीर्तनः ।
औजस्योंकारनादप्रणवाकारस्वरामगः ॥ ३४॥
कनकाङ्गिगगणनाथान्जनेयावतारनुः ।
कनकाभूषराजश्रीगौरीबहुकृतिस्तुतिः ॥ ३५॥
कनकादिविषयदूरमनःपक्वबोधनः ।
कलिमोचनहरिपूजनचोदनकीर्तनः ॥ ३६॥
कमलाप्तकुलालोकः कमलापतिरागगः ।
कमलामनआनन्दहरिनामसुकीर्तनः ॥ ३७॥
कलशाब्धिजरत्नाङ्गिमालक्ष्म्यष्टसुरूपनुः ।
करुणाब्धिस्वधनरामनामगघनस्वनः ॥ ३८॥
कलस्वरप्रसादस्थः कलवीणामृदुस्वरः ।
कलवीणाससङ्गीतकलस्वराभिपूजितः ॥ ३९॥
कलकण्ठिरमारामकविताच्छविकीर्तनः ।
कलकण्ठस्वरागीतमाश्रीजनकजास्तुतिः ॥ ४०॥
कलमानवतीगीतकथितस्वमनोव्यथः ।
कलिमानवतीर्थश्रीगङ्गाजनकगायनः ॥ ४१॥
कलिपीडितसंश्रायगङ्गाकीर्तनपावनः ।
कलिदोषनिवारश्रीकमलापतितन्मयः ॥ ४२॥
कलिदुष्कृत्यसद्भक्तिलोपातङ्कप्रलापनः ।
कलिसद्बुद्धिदामूल्यकृतिसद्वस्तुसालपः ॥ ४३॥
कल्गडस्वसुकृत्युक्तभक्तिसत्सङ्गमाहिनः ।
कल्यन्तरीकसद्भक्तिमार्गोपदेशकीर्तनः ॥ ४४॥
कल्यार्तिहरनारायणनामगानपावनः ।
कल्याणरामनामस्मरणगानप्रचोदनः ॥ ४५॥
कल्याणरामगानालीनदिव्यनामकीर्तनः ।
कल्याणसुन्दरश्रीरामकारुण्यसुपात्रगः ॥ ४६॥
कल्याणसुन्दराकारहरिस्वानुभवारमः ।
कल्याणीश्रीरमानाथकल्याणरूपवर्णनः ॥ ४७॥
कलावतीगसङ्गीतश्रीरामदर्शनोत्सुकः ।
कलावताननस्मेररागानुरागकीर्तनः ॥ ४८॥
कलानिधिकृतिश्रीपस्वबाल्यसख्यभावगः ।
कलानिधिविभाकोशवंशजप्रेमसेवकः ॥ ४९॥
कालातीतवरदकालातीतकृतिसालपः ।
काशीशनुतरामानूतिगावागीशभाग्यवान् ॥ ५०॥
काकुत्स्थराजसवैदेहीगकाकर्लवंशजः ।
काकुत्स्थराजगानाधिराजकाकर्लराजकः ॥ ५१॥
कामवैरिनुतसुनामसीतारामरामगः ।
कारुण्यरामरागार्थभाववाग्जालकीर्तनः ॥ ५२॥
काममोहैहिकेहानिन्दनतोडीसुकीर्तनः ।
कामितार्थप्रदश्रीपसङ्गीतोपासनप्रियः ॥ ५३॥
कान्तामणिरमाकान्तरक्षणार्थनभाषणः ।
कान्तामणिकृतिश्रेष्ठभक्तिमार्गपरार्थगः ॥ ५४॥
कान्तामणिकृतिस्वप्रश्नद्वैताद्वैतमार्गगः ।
कालातीतससीतादिमध्यान्तरहितालपः ॥ ५५॥
कापिरागसुगीतस्वक्षमाधर्मनिदर्शकः ।
कापिकृत्युक्तसर्वाध्यादिपाशबद्धमानसः ॥ ५६॥
कापिकीर्तनरागस्वरसुधासारखाण्डव-
-रामनामरसालीनसौख्यानुभवगालयः ॥ ५७॥
कापिसत्कृतिसंक्षिप्तनामगाधन्यलक्षणः ।
कानन्दनाममर्मज्ञधन्यश्श्रीरामतन्मयः ॥ ५८॥
कापिनारायणीरागरामचातुर्यगायकः ।
कार्यकारणकर्मानुबन्धव्यथाविमोक्तृगः ॥ ५९॥
काम्भोजिरागसङ्गीतलोलश्रीरघुनाथगः ।
काम्भोजपदरङ्गक्षेत्रालोकनसुमुत्यगः ॥ ६०॥
कानडानडहागीतरामनामसुगासुखी ।
कानडाप्रशमापूरगुरुश्रीनारदस्तुतिः ॥ ६१॥
किरणावलिभूषाहिवंशजस्तुतिभूषकः ।
किरणावलिकुलदीपहासप्रश्नकीर्तनः ॥ ६२॥
कीरवाणीस्वरागीतमनोगलनकीर्तन-
-प्रह्लादनारदकृतभक्तिललाटलेख्यगः ॥ ६३॥
कुलदैवाभिरामाभिमानार्थकुञ्जरीकृतिः ।
कुटिलालकलावण्यस्वज्ञानदृष्टिसत्कृतिः ॥ ६४॥
कुलोद्धारसुसीतारामपदभक्तियाचन-
-प्रासानुप्राससम्भासहुसेनीरागकीर्तनः ॥ ६५॥
कूर्ममत्स्यादिदशरूपश्रीरामसुकीर्तिगः ।
कूजितारामरामनामश्रीकरसुकीर्तनः ॥ ६६॥
कृतकृत्यसदयरामनामगानकालजित् ।
कृतिरत्नस्वदृढभक्तिप्रमाणोपदेशगः ॥ ६७॥
केदारगौलसङ्गीतवेणुगानस्वराकृतिः ।
केदाररागगीतस्वरामप्रेमरसानुतिः ॥ ६८॥
केशवानुजनारायणीनुकीर्तनगासरः ।
केसरीरागसत्कीर्तनगङ्गाप्रशमावहः ॥ ६९॥
कैकवशीसुरागावर्णनीयरामवर्णनः ।
कैकवशीकृतिश्रीरामबाणदक्षतानुतिः ॥ ७०॥
कोकिलध्वनिरामपृष्टपूर्वपूजनाफलः ।
कोकिलध्वनिरागस्वरामासक्तिसुगायनः ॥ ७१॥
कोकिलारवमाधुर्यनानाभावरसानुतिः ।
कोसलारामरामस्वप्रेमानन्दाढ्यसत्कृतिः ॥ ७२॥
कोकिलस्वादुगीतस्वरामामृतकथारसः ।
कोदण्डराममाधुर्यभाषणामिष्टगायनः ॥ ७३॥
कोदण्डरामसर्वोत्कृष्टावतारगकीर्तनः ।
कोलाहलरसस्वादुवाग्रामगानसत्कृतिः ॥ ७४॥
कोदण्डकोटिकोट्यापगावासज्ञानकीर्तनः ।
कोदण्डपाणिनादोपासनप्रत्यूषगानुतिः ॥ ७५॥
कौशल्यापुत्रकामारिमित्ररक्षाऽभयार्थनः ।
कौशिकाहवरक्षाग्रदर्शभक्ताग्रभाग्यवान् ॥ ७६॥
क्रूरराक्षसमदशिक्षकनामगुणारमः ।
क्रूरमानवदारिश्रीहरिरक्षार्थनामगः ॥ ७७॥
क्षितिनाथार्थितश्रीसीताप्राप्तानन्दसौख्यगः ।
क्षितिजाप्राप्तरामप्रेमरसार्थनकीर्तनः ॥ ७८॥
क्षीराब्धिदेवगांधारी क्षीरान्ननुनिवेदनः ।
क्षीराब्धिकन्यकारामगारागफलमञ्जरिः ॥ ७९॥
खगवाहनहृदयालयसत्कवितल्लजः ।
खगङ्गापूतवाक्सारमनःपावनकीर्तनः ॥ ८०॥
खंददाच्युतसन्नामसङ्कुलागानसारमः ।
खंददस्वरविद्याब्धिमर्मज्ञनादकोविदः ॥ ८१॥
खरहरप्रियाकीर्तनभक्तिराजमार्गणीः ।
खरारिरामहृद्गालनभक्तिघनकीर्तनः ॥ ८२॥
खाण्डवस्वादुभाषश्रीरामानुभवगायनः ।
खाण्डवस्वादुवाग्रागरामसुस्वररासगः ॥ ८३॥
गरुडारूढपरवासुदेवार्थनकीर्तनः ।
गरदाशनवाहश्रीविष्णुसन्नुतिकीर्तनः ॥ ८४॥
गङ्गाहमीरकल्याणीपूतवाक्कीर्तनालपः ।
गमनश्रमवाहज्ञानगङ्गीभूतकीर्तनः ॥ ८५॥
गम्भीरवाणिसन्नादसदाशिववरानुतिः ।
गम्भीरनादसद्वाणीधारासारसुगारसः ॥ ८६॥
गम्भीरवाणिसन्नाटसीतारामसुकीर्तनः ।
गम्भीरनाटसद्वाणीभजनोत्तमगायनः ॥ ८७॥
गाकोकिलवराल्युक्तरामसान्निध्यमाहिनः ।
गानोक्तानन्यभक्त्यन्यदुर्लभ्यरामसन्निधिः ॥ ८८॥
गाबिन्दुमालिनीनूतावाच्यशोभधुरीणसः ।
गाननिन्दितकामान्वितभागवतवेषधृक् ॥ ८९॥
गाननन्दितकमनीयतनुर्जितकामसः ।
गानवन्दितवीक्षाऽसाध्यलावण्यस्वरामकः ॥ ९०॥
गाङ्गेयभूषणीरागासमानरामकीर्तनः ।
गानगाङ्गेयकीर्तनाभूषरामरक्षणानुतिः ॥ ९१॥
गानमूर्तियदुश्रेष्ठदयार्थगानवारिधिः ।
गावेगवाहिनीशैलीप्रासानुप्रासलाघवः ॥ ९२॥
गागङ्गाकन्नडहरागार्थवाङ्लयजालकः ।
गारागनवरसकन्नडरामस्वसर्वगः ॥ ९३॥
गाधियागसुसंरक्षकराघवनिवेशहृत् ।
गानन्दकन्दपरमार्थमाधवस्वजीवनः ॥ ९४॥
गानलोलवरश्रीजानकीरमणगाननुः ।
गानश्रोत्रोत्सवस्वादुहरिनामपरस्कृतिः ॥ ९५॥
गानागनन्दिनीगौरीप्राणेशनन्दनस्वनः ।
गाननागस्वरालीननामतारकमन्त्रतः ॥ ९६॥
गिरिनन्दिनिसद्गङ्गानिभकीर्तननन्दनः ।
गिरिनन्दिनिगौरीनुकृतिरत्नघनाघनः ॥ ९७॥
गिरिजारमसंमिष्टकीरवाणीसुनामगः ।
गिरिजारमणप्रीतनामतारकगाव्रतः ॥ ९८॥
गिरिधारिमधुरवेणुगानखेलनारमः ।
गिरिधार्यभिलोलस्वादुवेणुगाजयस्वरः ॥ ९९॥
गिरिदर्शितरामस्वसहानाकृतिदर्शकः ।
गिरिराजनदीवाहगिरामाधुर्यकीर्तनः ॥ १००॥
गिरीशदेवसश्रीरामावताररहस्यगः ।
गिरीशचापखण्डश्रीरामसुप्रासपूर्णगः ॥ १०१॥
गिरीशविनुतश्रीरामभक्तिगतचिन्तनः ।
गिरीशवरगङ्गाधरगागङ्गाधरस्तुतिः ॥ १०२॥
गीर्वाणमुनिवन्द्यश्रीरामैकगतिगायनः ।
गीतप्रियप्रियागीतदिव्यनामसुकीर्तनः ॥ १०३॥
गीतार्थभावपुष्टिज्ञवातात्मजप्रियानुतिः ।
गीतानन्दमनोज्ञातवातात्मजसुगानुतिः ॥ १०४॥
गुर्वत्यवश्यताबोधगौरीमनोहरीकृतिः ।
गुरुमाहिनतत्त्वार्थज्ञानबोधनसत्कृतिः ॥ १०५॥
गुणातीतवरालीनगुरुसत्त्वगुणास्पदः ।
गुर्जरीगीतसद्भक्तिघनवैराग्यमानसः ॥ १०६॥
गूढोत्मरामनामस्मरणसौख्यसुकीर्तनः ।
गूढनादरहस्योपदेशसुज्ञानकीर्तनः ॥ १०७॥
गृहदैवत्यरामस्वबहुकीर्तनलालनः ।
गृहदैवत्यमत्स्वामी बहुश्लोकितसद्गुरुः ॥ १०८॥
गेयगाङ्गेयगङ्गश्च गेयरामनिदर्शकः ।
गेयगाम्भीर्यनाटश्रीरागच्छविलयध्वनिः ॥ १०९॥
गैरिकीगङ्गिकावाहपूर्णानन्दसुगेयतः ।
गोविन्दनामसङ्कीर्तनानन्दरागसँल्लयः ॥ ११०॥
गौरीकरशुकालापमनोरञ्जननामगः ।
गौरीपतिसुखाजप्तरामनामदिनोत्सवः ॥ १११॥
गौरीकृतिमनोवेदनश्रीरामनिवेदनः ।
गौरीगुरुशिरोधारगङ्गाप्रवाहनामगः ॥ ११२॥
गौलरागमनोवीणामन्द्रस्थायिस्वरालयः ।
गौलकीर्तनलोकापराधस्वकृतगायनः ॥ ११३॥
गौलसञ्चारनारायणदिव्यनामगाचरः ।
गौलश्रीरामदैवत्यरसवर्णनलालिगः ॥ ११४॥
घण्टागगोपिसंभाषवज्रवर्षभयानकः ।
घण्टारवगलस्वादुगीतश्रीकृष्णनाटकः ॥ ११५॥
घुषिताद्भुतनामश्रीरामतारककीर्तनः ।
घूर्णमानससंसान्त्वप्रशान्तलयकीर्तनः ॥ ११६॥
घृणापाङ्गैकगतिविश्वासपादाब्जसेवनः ।
घृणापाङ्गप्रियालापश्रोत्रदर्शनभाग्यवान् ॥ ११७॥
घृणिवंशप्रभावस्वादुघृतश्लक्ष्णकीर्तनः ।
घृतश्लक्ष्णस्रवस्वादुनामधोरणनाटगः ॥ ११८॥
घोरमारीचहारामललाटालककान्तिगः ।
घोरसंसारतारैकसारश्रीरामनामगः ॥ ११९॥
घोरपातकमूलच्छिन्नामतारकसालयः ।
घोरपातकदारिश्रीक्षीरसागरनामगः ॥ १२०॥
चन्द्रसूर्यसुनेत्रश्रीरामनामसुरक्षगः ।
चन्द्रज्योतिर्लसत्कृष्णनरार्जुनोक्तिगायनः ॥ १२१॥
चन्द्रास्यार्थितपूजाहडम्भमारीचहारगः ।
चन्द्रज्योतिसुकृत्यर्थनैत्ययागाभिरक्षणः ॥ १२२॥
चन्द्रास्यबाल्यमुनियागरक्षातिशौर्यानुतिः ।
चन्द्रालोकहृदब्जालोकब्रह्मानन्दगानतः ॥ १२३॥
चराचरात्मकश्रीराघवसर्वस्वतत्त्ववित् ।
चण्डभास्करवंशाब्धिचन्द्ररक्षितपुण्यवान् ॥ १२४॥
चारुकेशीसुगीतश्रीरामभाषणलालसः ।
चारुशैलीसुवाक्सख्यभावैकरामभक्तिगः ॥ १२५॥
चारुवाग्रामसत्पादनैजभक्तिदृढग्रहः ।
चारुरागस्वरारामरामपादगपूजनः ॥ १२६॥
चारुकीर्तनरामप्रेममाहिनाभयोक्तिगः ।
चारुनेत्ररघुवरार्थनतारकनामगः ॥ १२७॥
चित्तश्रीराघवसमीक्षणोत्तमसुखस्थितः ।
चित्तश्रीराघवस्वान्तरात्मदृक्सुखफुल्लहृत् ॥ १२८॥
चित्तपूरितहरिदाशरथीसर्वदर्शनः ।
चित्तपूजितरामस्वभक्तिसङ्गीतमोदनः ॥ १२९॥
चिदम्बरशुभाकारदिव्यनामगचिल्लयः ।
चिद्विलासवरगुणश्रीवासुदेवसन्नुतिः ॥ १३०॥
चेतनाचेतनव्यापिश्रीरामसर्वदर्शनः ।
चैतन्यपररामज्ञानघनबहुकीर्तनः ॥ १३१॥
छन्द्रसीतापवन्द्रस्वनादोपासनसँल्लयः ।
छन्दस्कृताभिवन्द्यश्रीसद्गुरुस्वामिदैवतः ॥ १३२॥
छायातरङ्गिणीगास्वहृत्स्थरामकृपार्थनः ।
छायातरङ्गिणीगङ्गारागसंलास्यसत्कृतिः ॥ १३३॥
छायाच्छायालसद्गङ्गाच्छविशैलीसुवाचकः ।
छायावृतसुकन्नाटच्छविगङ्गासुकीर्तनः ॥ १३४॥
छायाकोशेनवंशेनश्रीरामाग्रनिवेदनः ।
छायानाटकृतिस्वोक्तकलिनाटकविद्रवः ॥ १३५॥
छायानाटच्छविस्मेरवाग्रासरसगायनः ।
छायास्वरूपरामावासहृद्गङ्गापवित्रतः ॥ १३६॥
छायागङ्गासुपुण्यामग्नशिष्यहृत्सुवासनः ।
छायागङ्गासुनामस्वशिष्यागृहातिदैवतः ॥ १३७॥
छिद्रहृच्छमनश्रीरामभद्रशरणागतः ।
छिद्रहृच्छरणागन्तुशिष्यार्तिहरसद्गुरुः ॥ १३८॥
जङ्गमस्थावरव्यापिरघुवीरहुसेनिगः ।
जयरामनुतिप्रासानुप्रासलसकीर्तनः ॥ १३९॥
जगदानन्दकारश्रीरामगायकतल्लजः ।
जयजानक्यतिप्रेष्ठप्राणनायकवल्लभः ॥ १४०॥
जयनारायणीकृत्यर्थितभक्तमनोहरः ।
जयरामस्वसौभाग्यगानातिमिष्टदिव्यगः ॥ १४१॥
जयनारायणीरामरामनामसुकूजनः ।
जयनारायणीजानिजप्ततारकगायकः ॥ १४२॥
जयन्तश्रीकृतिस्वान्तर्गलनवाग्राघवार्थनः ।
जयन्तश्रीनुतस्वान्तरङ्गज्ञसर्वराघवः ॥ १४३॥
जयरामसुनामस्वादुगास्वार्तिनिवेदनः ।
जयकारसुनामश्रीसीतारामनुकीर्तनः ॥ १४४॥
जगन्मोहनरामावतारमाहिनगायनः ।
जगदुद्धाररामस्वादुगानजगदुद्धरः ॥ १४५॥
जगदुद्धारणातुल्यनामगातुल्यभावुकः ।
जगदात्मस्वगत्यैकश्रीरामनामसारगः ॥ १४६॥
जप्तरामसुपादग्राहतनुर्मानसार्पणः ।
जगत्स्वरूपरामस्वसर्वस्वभावनाकृतिः ॥ १४७॥
जपयोगसुनिष्ठापरानन्दरामनामलीः ।
जपस्मरणनामप्रेमनिष्काममनोरमः ॥ १४८॥
जप्तनामस्मरादर्शमनःप्रत्यक्षरामकः ।
जनरञ्जनिगारामनामस्मरसुखालपः ॥ १४९॥
जनरञ्जनिगीतस्वबाल्यश्रीरामभाषणः ।
जनरञ्जनरामस्वभक्तिसागरपारदृक् ॥ १५०॥
जाजीसरोजनानासुमाभिवर्षितरामकः ।
जानकीजानिगत्यैकगदिव्यनामकीर्तनः ॥ १५१॥
जानकीनायकस्वादुधन्यासीमङ्गलारतिः ।
जाह्नवीवरगङ्गास्नानरामध्यानगाकृतिः ॥ १५२॥
जिज्ञासुश्रायसद्बोधबहुरागसुकीर्तनः ।
जिह्वामिष्टसुनामश्रीरामरागोपचारगः ॥ १५३॥
जितरामार्थनसुमाधुर्यवाक्सारकीर्तनः ।
जितकामसुहृत्कामजितकाममहामुनिः ॥ १५४॥
जीवन्तिनीकृतिस्वानन्यचित्तशरणागतिः ।
जीवस्फूर्तिकरानन्यभक्तिप्रमाणसत्कृतिः ॥ १५५॥
जीवहेमवतीगङ्गानिभजीवनकीर्तनः ।
जीवनाविरतध्यातपदानुपमरामगः ॥ १५६॥
जीवाधारस्वजपमन्त्रस्वरूपपरात्मगः ।
जीवशक्तिस्फुरद्गानप्राणसंत्राणसद्गुरुः ॥ १५७॥
जीवनाधाररामाविस्मृतसात्त्विकजीवनः ।
जीवब्रह्मैक्यतत्त्वार्थबहुकीर्तनसूचनः ॥ १५८॥
ज्याजावरवरप्रासज्वलदीडनकीर्तनः ।
ज्यायिष्ठरामशब्दार्थच्छविराससुकीर्तनः ॥ १५९॥
झङ्कारध्वनिगाम्भीर्यफणिनाथसुतल्पगः ।
झङ्कारश्रुतिह्रीङ्कारसङ्गीतोपासनायुतः ॥ १६०॥
झञ्जूतिकृतिसंदृश्यवैराग्यैकान्तभक्ति-
-सुज्ञानपक्वान्तरङ्गाद्वैतमनोभावसद्गुरुः ॥ १६१॥
ज्ञानकेदारसर्वस्वरामचिन्तनतन्मयः ।
ज्ञानकेदारनादयोगरामैकान्तचिल्लयः ॥ १६२॥
ज्ञानकेदारसंस्रावभक्तिगङ्गासुकीर्तनः ।
ज्ञानार्थनसुपूर्वीकल्याणीकीर्तनबोधधिः ॥ १६३॥
ज्ञानसद्बोधश्रीकृष्णगीतासारसुकीर्तनः ।
ज्ञानसद्भक्तिसङ्गीतसन्मार्गदर्शकोत्तमः ॥ १६४॥
टङ्कारज्याघुषश्रीरामबाणत्राणशौर्यगः ।
टाङ्कारघोषकोदण्डसावेरीरागवर्णनः ॥ १६५॥
तन्त्रीलयस्वरविलोलनादोपासनायुतः ।
तन्त्रीरागलयालीननादोपासितसद्गुरुः ॥ १६६॥
तपस्तीर्थपुराम्बाभ्रातृदयापात्रचारुगः ।
तरुणारुणचरणार्पणतारकमङ्गलः ॥ १६७॥
तरणीन्द्वक्षसीतावरवंशधनजीवनः ।
तरण्यन्वयपरमार्थरामवसपूतहृत् ॥ १६८॥
तारकध्यानसँल्लीनदिव्यनामसुकीर्तनः ।
तारकाधिपवक्त्रश्रीरामतारकतारणः ॥ १६९॥
तितीर्षुश्रायगङ्गीभूततीर्थतमकीर्तनः ।
तिमिरावृतशिष्यान्तर्ज्योतिःपूरककीर्तनः ॥ १७०॥
तीर्थीभूतमनःपक्वनिदर्शबहुकीर्तनः ।
तीव्रगङ्गागतिस्वाशुनामधोरणकीर्तनः ॥ १७१॥
तुलसीदलसौगन्ध्यसुमपूजनतोषितः ।
तुलसीबिल्वपूजार्चितानन्दनिरुपाधिकः ॥ १७२॥
तुम्बुर्वनिलजश्रीनारदानन्दसुखस्वकः ।
तुम्बरानादनामारामगाहरिसमर्पणः ॥ १७३॥
तूष्णीकमानसादृष्टसंभाषितस्वरामकः ।
तूष्णींभावमनोनादप्रणवाकारसँल्लयः ॥ १७४॥
तृप्तिसंतुष्टिसद्बोधबहुकीर्तनरत्नकः ।
तृपतद्युतिलावण्यराममोहनमोहितः ॥ १७५॥
तेजोविग्रहरामध्याननामभजनालयः ।
तेजस्करहरिभजनगाग्रहबलापहः ॥ १७६॥
तैर्थिकस्वादुगानध्यानगङ्गास्नानमाहिनः ।
तैर्थिकस्वकृतिश्लक्ष्णवाग्धारागानगङ्गिकः ॥ १७७॥
तोडीसत्कृत्युषोगानतथ्योपासनबोधनः ।
तोडीकीर्तनसालापहरिपूजनसत्क्रमः ॥ १७८॥
तोयजारिमुखश्रीसीताकान्तभैरवीनुतिः ।
तोयालयोर्मिनटसङ्गतिशृङ्खलचारुगः ॥ १७९॥
तौषाराद्रिमनस्स्थैर्यज्ञानगङ्गासुकीर्तनः ।
तौषाराचलगङ्गाशैशिरसौख्यदकीर्तनः ॥ १८०॥
त्यागराजगुरुस्वामी त्यक्तसङ्गहरिस्मरः ।
त्यागयागस्वयोगश्रीरामोपासनरागगः ॥ १८१॥
त्रिगुणातीतरामस्वसगुणोपासनानुतिः ।
त्रितापरहितार्चालोपतापोद्भवसत्कृतिः ॥ १८२॥
दमादिशमगुणगङ्गास्नानसुखसंस्थितः ।
दक्षशिक्षकसन्नूतवरलीलनुगानतः ॥ १८३॥
दर्भारिसूदनास्त्रश्रीरामशौर्यगविस्मयः ।
दमनाद्भुतशौर्यश्रीरामसद्गुणगायनः ॥ १८४॥
दासपोषकसीतापतिस्वार्तिगानिवेदनः ।
दासार्तिहररामज्ञसत्सहवासचोदनः ॥ १८५॥
दिगम्बरपदाम्भोजार्चनसुनामकीर्तनः ।
दिव्यलावण्यरामाभूषणगाङ्गेयकीर्तनः ॥ १८६॥
दिव्यकुलोत्तमप्रश्नकृतिभावाढ्यगायनः ।
दिनान्वयतिलकलावण्यरागाढ्यगायनः ॥ १८७॥
दीपकस्तुतिसङ्गीतसर्वकारणराघवः ।
दीपकारतिसत्कीर्तनसीतापतिराधनः ॥ १८८॥
दीक्षागुरुस्वरामप्रदक्षिणाह्वानकीर्तनः ।
दीनावनरमारामदशरूपावनानुतिः ॥ १८९॥
दुन्दुभीतरवाद्यौघसन्नादवेदघोषस-
-सप्तस्थानोत्सवामिष्टपृथुकीर्तनवर्णनः ॥ १९०॥
दुःखवारणसङ्गीतमाहात्म्यबहुकीर्तनः ।
दुरितेभहरिश्रीपहरिकीर्तनदुःखहा ॥ १९१॥
दूषणाहरणश्रीभूजेश्वरहरिकीर्तनः ।
दूरीकृताज्ञसुज्ञानघनगानहरिस्वरः ॥ १९२॥
दृष्टश्रीरामसंतोषहर्षप्रवाहकीर्तनः ।
दृश्यमङ्गलरूपश्रीरामवर्णनगायनः ॥ १९३॥
दृष्टसभ्रातृहनुमत्सीताकान्तदयार्थनः ।
दृष्टराममनश्चक्षुरन्तर्लयसुगायनः ॥ १९४॥
देवगांधारिरागश्रीक्षीरसागरशायनः ।
देवगान्धर्वसङ्गीतसर्वलोकवशीकरः ॥ १९५॥
देवतासार्वभौमश्रीरामगासार्वभौमिकः ।
देवादिमृग्यहरिगेहस्वहृद्दर्शसन्मुनिः ॥ १९६॥
देवदेवार्चितश्रीसीतारामवाग्घनार्थनः ।
देवाध्यक्षरघुवरश्रीरामनामधोरणिः ॥ १९७॥
देवमाधवशिवमन्त्रजीवराममन्त्रगः ।
देवामृतकवर्षस्वशैलीरागलयाद्भुतः ॥ १९८॥
दैत्यविदाररामाविस्मृतिचोदनदिव्यगः ।
दैवश्रीराममाहात्म्यगदिव्यनामकीर्तनः ॥ १९९॥
दैनाराधननादोपासनसेवितरामकः ।
दैनारम्भान्तरश्रीरामपूजान्युङ्खकीर्तनः ॥ २००॥
दोलोत्सवसुदिव्यालापलालिगाभिनन्दनः ।
दोषार्तिहररामेडनदिव्यवाक्सुकीर्तनः ॥ २०१॥
दौर्मनस्यापहश्रीरामोत्सवसेवनोत्सुकः ।
दौर्ग्यापहागमनिगमार्थसारसुगायनः ॥ २०२॥
द्युतिनिर्जितकामश्रीरामपृष्टदयाह्नुतिः ।
द्युतिविद्युत्प्रभाप्रासहास्यानुविद्धवाक्कृतिः ॥ २०३॥
द्योतितस्वहृदयहरिनामजपभासुरः ।
द्योतितस्वरमर्मग्रन्थस्वरार्णवकीर्तनः ॥ २०४॥
द्राक्षारसकृतिभजनमोहितस्वरामकः ।
द्रौपदीमानरक्षार्थनिन्दास्तुत्यारभीकृतिः ॥ २०५॥
द्वारकानिलयाह्वानशरणागतरक्षगः ।
द्वारकानिलयस्वार्त्युक्तमनोगालकीर्तनः ॥ २०६॥
द्विरदाद्भुतगमनालोकगानमनोहरः ।
द्विकरश्रीपवाक्प्रासधारासाराभिवर्षणः ॥ २०७॥
द्विकरेहपरार्थश्रीरामभक्तिप्रमाणगः ।
द्वैताद्वैतनिजज्ञानतत्त्वार्थबोधगायनः ॥ २०८॥
धरावताररामस्वगानेडार्थावतारकः ।
धरणीतनयार्थश्रीरामप्रेमरसार्थनः ॥ २०९॥
धनुर्विद्यातिशूरश्रीरामनैपुण्यशंसनः ।
धनुर्भङ्गरघुवरश्रीरामशौर्यविस्मयः ॥ २१०॥
धन्यासीतासमेतश्रीराममङ्गलगायनः ।
धन्यनिर्मलचित्तश्रीरामस्वगुरुमानितः ॥ २११॥
धाराधराभगात्रश्रीरामतारकधारणः ।
धार्यश्रीरामसन्नामसंसारवनतारकः ॥ २१२॥
धिष्ण्यकीर्तनरामोपासनजीवनसद्गुरुः ।
धीरमेरुसमानश्रीरघुवीरसुसारगः ॥ २१३॥
धुनिगङ्गाजलसुपादध्यानहरिपूजनः ।
धूपदुष्कर्मफलदीपभक्त्युपासनाविधिः ॥ २१४॥
धृतचक्रहरिश्रीपनुतिकीर्तनरत्नकः ।
धृतमानसधृतरामपदैकगतिश्रयः ॥ २१५॥
धेनुकाकृतिविलपिताज्ञातभक्तिवेषधृत् ।
धेयसद्भक्तिकृतिरामनाममहिमालयः ॥ २१६॥
धैर्यरूपकसीताकलत्रहास्यरसानुतिः ।
धोरणीनामधाराधौतीगङ्गावेगकीर्तनः ॥ २१७॥
ध्यानदेवनदीस्नानधन्यासिकृतिगायनः ।
ध्यानस्मरणसुखरामनामानुभवालयः ॥ २१८॥
ध्रुवसत्फलदश्रीरामैकभक्तिप्रमाणकः ।
ध्रुवप्रह्लाददृष्टान्तसद्भक्तिशक्तिगायनः ॥ २१९॥
नटनालोकरामोक्तिकृतिदेवक्रियालपः ।
नटदेवक्रियारागमधुवाणिसुकीर्तनः ॥ २२०॥
नटराजविनुतविश्वाससंदृश्यकीर्तनः ।
नश्वरैहिकदूरश्रीरामप्रश्रब्धिपूरितः ॥ २२१॥
नरदेवमनोहारिकृतिरामावतारनुः ।
नवमन्मथकोटिस्वरूपरामदयार्थनः ॥ २२२॥
नरानन्दरमारम्यचित्तालङ्करणारमः ।
नरवेषकृतिस्तोमनन्दनन्दननन्दनः ॥ २२३॥
नव्यसत्कृतिनूतश्रीजानकीकलकण्ठिनी ।
नव्यवर्णनपदनीराजनचित्तहारकः ॥ २२४॥
नवनीतकृतिस्तोत्ररामदैननिवेदनः ।
नवनीतसुनैवेद्यस्वातङ्ककृतिसार्पणः ॥ २२५॥
नवग्रहबलापोहरामानुग्रहशक्तिगः ।
नवग्रहव्यथापोहहरिध्यानप्रचोदनः ॥ २२६॥
नागधारिनुतश्रीपपदचिन्तनजीवनः ।
नागस्वरावलीश्रीपार्थितस्वार्तिनिवारणः ॥ २२७॥
नागाधिपविनुतनामसारवर्षसन्नुतिः ।
नागारिरथपदभक्तिदरक्षणशक्तिगः ॥ २२८॥
नागनन्दिनिरागप्रलापितकलिदुर्गतिः ।
नागमोचकविलपनभक्तिलोपदुष्कृतिः ॥ २२९॥
नागराजसुपालश्रीराघवानुतिवन्दनः ।
नागराट्शायिगायस्वहास्यानुविद्धकीर्तनः ॥ २३०॥
नागभूषसतीनिष्कामचित्तवरदानुतिः ।
नासिकाभूषणीगौरीधर्मसंवर्धनीस्तुतिः ॥ २३१॥
नागगांधारिरागप्रह्लादोक्तिस्वमनःस्थितिः ।
नामगारामसर्वोन्नतैकसत्योक्तसन्मुनिः ॥ २३२॥
नागाचलनिलयवेङ्कटेशपदसेवनः ।
नामगाभागवतप्रियश्रीनायकगायनः ॥ २३३॥
नाटसत्कीर्तनागीतजगदानन्दकारकः ।
नाटरागलयालास्यगतिगांभीर्यहारकः ॥ २३४॥
नाटकीर्तनसम्भासवाग्विशेषार्चनावलिः ।
नाटनामसुधागाननादार्चनमुदानुतिः ॥ २३५॥
नादरूपदयाभाग्यरीतिगौलसुगीतिगः ।
नागनाथशयदयाशङ्कतारकबोधगः ॥ २३६॥
नादनामक्रियायोगवरिवस्यादिनाचरः ।
नादनामस्वरालीनचित्तश्रीरामतन्मयः ॥ २३७॥
नामपूजजपध्याननिजदासानुभूतिगः ।
नामतारकरूपस्वसर्वदर्शनभावुकः ॥ २३८॥
नादप्रणवगुप्तार्थचेञ्चुकाम्भोजिसूचनः ।
नाददेहोद्भवसुदिव्योंकारस्वानुभूतिगः ॥ २३९॥
नादलोलगुरुस्वामी ब्रह्मानन्दसुखालयः ।
नादालोकनकल्याणवसन्तरागकीर्तनः ॥ २४०॥
नादलोलहरिस्वादुनादसुस्वरतोषणः ।
नामकीर्तनसंहर्षाश्रुपूरिताक्षतैजसः ॥ २४१॥
नादतृष्णापहश्रीशनामसङ्कीर्तनानुतिः ।
नादाकृतिशिवानूतिचित्तरञ्जनिसत्कृतिः ॥ २४२॥
नादवराङ्गिणीगीतापवर्गमार्गरोधन-
-नानासिद्ध्यनुकरणप्रत्यादेशसुकीर्तनः ॥ २४३॥
नादाद्रिसुप्रदीपश्च शिखिवाहनगाद्युतिः ।
नारायणस्वसृसुताप्तोदारसुकुमारनुः ॥ २४४॥
नामदिव्यमणिज्वालरामार्थनसुकीर्तनः ।
नानाण्डरामलीलादृङ्महत्सङ्गार्थगायनः ॥ २४५॥
नादोपासनमाहात्म्यरागबेगडसत्कृतिः ।
नादोपासनदिव्योत्सवसम्प्रदायकीर्तनः ॥ २४६॥
नादोपासनभासश्रीनारायणाभिनन्दनः ।
नादस्वरविलोलस्वबेगडाकृतिवन्दनः ॥ २४७॥
नामतारकगानेडनस्वजन्मार्थगायनः ।
नामतारकसद्गाननित्यानन्दसुखस्वकः ॥ २४८॥
नामगाभक्तिसन्मार्गमार्गहिन्दोलगायनः ।
नाथसाकेतरामप्रेमभक्त्यर्थनकीर्तनः ॥ २४९॥
नारदगानलोलस्वादुवाक्कृतिमनोहरः ।
नारदागमनारायणपारायणचारुगः ॥ २५०॥
नारायणहरिध्याननामसंकीर्तनालयः ।
नारायणहरिभजनानन्दबाष्पहर्षितः ॥ २५१॥
नारायणसुनामानन्ददिव्याकृतिभासुरः ।
नारायणीशसामोदजप्ततारकसन्नुतिः ॥ २५२॥
नारायणसुसद्गानसङ्गीतालयसेवनः ।
नादानन्दरसाकारगानानन्दरसाकृतिः ॥ २५३॥
नामध्यानहरिश्रीपरामगानाभिनन्दितः ।
नामकीर्तनहरिदाससङ्गानन्दवर्णनः ॥ २५४॥
नारायणीकृतिश्रीरामसद्भजनमार्गदर्शनप्रार्थन-
-नामानन्दसद्भजनपुण्यवान् ॥ २५५॥
नारायणीप्रियभ्रातृराममाहिनसन्नुतिः ।
नारायणीरमाप्रेष्ठनामधारासरानुतिः ॥ २५६॥
निगमागमसञ्चाररामसञ्चारमानसः ।
निजदासरिपुमदघ्नरामसुमपूजनः ॥ २५७॥
नित्यस्वरूपसत्यश्रीरामरत्नगमङ्गलः ।
निर्वाणफलदश्रीरामघण्टारवमङ्गलः ॥ २५८॥
निरामयदसीताकान्तज्ञानार्थनकीर्तनः ।
निरातङ्कशुभदश्रीरामसुप्रासपूर्णगः ॥ २५९॥
निर्मलापघनश्रीरामगानघननिर्मलः ।
निर्विकारगुणापूतसर्वस्वरामकीर्तनः ॥ २६०॥
नित्यसेवितसङ्गीतश्रीहृज्जयमनोहरिः ।
निष्ठाभक्तिसुधागाननिधिप्लावसुभाग्यवान् ॥ २६१॥
निरञ्जनहरिश्रीकृष्णदिव्यपादभावनः ।
निर्गुणब्रह्मसगुणध्यानान्तर्ज्ञानकीर्तनः ॥ २६२॥
नीरदश्यामगात्रनामगोत्रगाननीरदः ।
नीलाभहरिकुसुमाशयतथ्योपचारगः ॥ २६३॥
नीलाम्बरीसुगानश्रीरामदोलोपचारिकः ।
नीलाम्बरीसुखालापरामस्वापनकीर्तनः ॥ २६४॥
नृत्यगीताभिवन्द्यश्रीराममिष्टोक्तिगायनः ।
नृपोत्तमस्वरामोक्तिरागभावाढ्यकीर्तनः ॥ २६५॥
नेत्रोत्सवससीतश्रीरामवर्णनकीर्तनः ।
नेमनित्योत्सवाराधनोत्तमानुभवालयः ॥ २६६॥
नैजस्वकृतपूजाविधिवर्णनसुकीर्तनः ।
नैजानुरागपुष्पामानसपूजितसद्गुरुः ॥ २६७॥
नौयानगोपिकाकृष्णसंभाषगेयनाटकः ।
नौयायिगोपिकाडम्भहबालकृष्णजालगः ॥ २६८॥
पञ्चरत्नकृतिश्रीरामनामगुणारमः ।
पदार्थरागभावाढ्यलयालासगरत्नकः ॥ २६९॥
पदप्रासालसपरिपूर्णकामाश्रयार्थनः ।
पदलालित्यसन्नाटकुरञ्जितसुकीर्तनः ॥ २७०॥
पररामकथासारकर्माब्धितारनावगः ।
परमात्मलयस्फोटहरिसर्वस्वकीर्तनः ॥ २७१॥
पररामसुवासातिमञ्जुकोकिलनादगः ।
परादिवाक्स्वरूपश्रीवाणीसेवनकीर्तनः ॥ २७२॥
परलोकभयाभावभवमज्जनखण्डनः ।
परलोकभयापोहरामतारकबोधनः ॥ २७३॥
परार्थप्रातिकूल्यैहिकेहागर्हणकीर्तनः ।
परार्थरामकारुण्यदयापरार्थबोधनः ॥ २७४॥
पट्टाभिरामचन्द्रस्वानुभूतिव्यक्तकीर्तनः ।
पवमानसुताग्राह्यपदमङ्गलकीर्तनः ॥ २७५॥
पार्श्वसेवनसीतासौमित्रिश्रीरामकीर्तन-
-पादवन्दननामध्यानमनोभावहर्षितः ॥ २७६॥
पापज्वलनशाम्यापघनश्रीरामतारक-
-स्वर्णदीस्नानसत्फलसत्यवाग्वरमाननः ॥ २७७॥
पिकमिष्टस्वरश्रीरामस्वागतप्रशान्तगः ।
पिचुमञ्चसुमास्ताररामोपचारसेवनः ॥ २७८॥
पुष्पावर्षार्चितश्रीरामस्वहृत्कुमुदार्पणः ।
पुष्पावर्षामितपराक्रमश्रीरामचन्द्रगः ॥ २७९॥
पुष्पावर्षश्रीरामस्वाहिरीकीर्तनवर्णनः ।
पुष्पावर्षबहुश्लोकमुदाङ्गीकरसद्गुरुः ॥ २८०॥
पुराणपुरुषश्रीपनामावलिझरासरः ।
पुरसंहरनुतनामसहस्रगरत्नकः ॥ २८१॥
पुराणपुरुषप्रासपूरवाक्चारुकीर्तनः ।
पुराणागमसारश्रीराममाहिनगायनः ॥ २८२॥
पूर्णषड्जप्रशान्त्यैकरामपूर्णज्ञगायनः ।
पूर्णेन्दुवक्त्रलावण्यरामालोकनकीर्तनः ॥ २८३॥
पूतवाग्वर्षसंसिक्तशङ्कराभूषनामकः ।
पूषवंशसुभूषस्वनामकीर्तनभूषणः ॥ २८४॥
पृथिवीपतिवन्द्यश्रीरघुनन्दनवन्दनः ।
पृथिवीजापतिश्रीरामचन्द्रवन्द्रगायनः ॥ २८५॥
पृथुसुप्रभसीतापमङ्गलारतिभासनः ।
पृथुमञ्जुलसीतापत्यारतिज्वलकीर्तनः ॥ २८६॥
पेशलादिव्यसङ्कीर्तनगालप्रभुराघवः ।
पेशलारम्यगानालापस्वानुभूतनामगः ॥ २८७॥
पेशलस्वहृदयारामाहूतभवतारकः ।
पेशलस्वानुरागश्रीरामाह्वानप्रशान्तगः ॥ २८८॥
पैतृकाराधनस्वान्तःप्रेमावर्षणगायनः ।
पैतृकप्रतिमाप्रत्यक्षदृष्टरामचन्द्रकः ॥ २८९॥
पोतनालयचित्तश्रीरामपादसुगेयनुः ।
पोतनाचार्यवर्यश्श्लोकावर्षार्चितसत्पदः ॥ २९०॥
पौनःपुनिकगीतश्रीरामतारकमाहिनः ।
प्रह्लादभक्तिविजयसङ्गीतभक्तिमाहिनः ॥ २९१॥
प्रयागयमुनागङ्गावाणीत्रिवेणिसङ्गम-
-सङ्गीतज्ञानरागानुरागसङ्गमकीर्तनः ॥ २९२॥
प्रागुषोदिव्यनामध्यानसङ्कीर्तनभावुकः ।
प्रागुषोनित्यगानाराधनवन्दितरामकः ॥ २९३॥
प्राणानलसुयोगप्रणवनादस्वरासर-
-वीणालोलशिवमनोज्ञजीवन्मुक्तसद्गुरुः ॥ २९४॥
प्राणश्रीरामसद्भक्तिसङ्गीतज्ञानमोक्षसाधन-
-सद्गानसुस्वादुरागसारमतीकृतिः ॥ २९५॥
प्रासपूरकृतिस्वाधिप्रारब्धबलगायनः ।
प्रासानुप्राससंभासटक्करागसुकीर्तनः ॥ २९६॥
प्रासानुप्रासवाग्रागकविताच्छविलालिगः ।
प्राञ्जलिप्रार्थितश्रीरामभक्तिभिक्ष्यसात्त्विकः ॥ २९७॥
प्रेष्ठश्रीरामभक्तिप्रौढशुभाकरकीर्तनः ।
प्रोक्षितश्रीपचरणोदकदिव्यशुभाकृतिः ॥ २९८॥
फणिशायिस्वहृच्चारिझङ्कारध्वनिगायनः ।
फणितल्पविराजश्रीहरिदर्शप्रहर्षगः ॥ २९९॥
फलसत्सुखसत्सङ्गान्तरङ्गभयवारण-
-दान्तसंरक्षकान्तरिकभक्तिमार्गबोधनः ॥ ३००॥
फाललोचनसाक्षित्त्वरामनामसुखानुतिः ।
फाललोचनिधर्माम्बिकानूतिरससत्कृतिः ॥ ३०१॥
फुल्लराजीववीक्षश्रीरामसोक्तजानकीस्तुतिः ।
फेनद्युतिसुनामोर्मिदिव्यकीर्तनसागरः ॥ ३०२॥
बङ्गालगजगत्साक्षिवंशजामितशक्तिनुः ।
बहुदारिसुकृतिश्रीवासुदेवमहत्वनुः ॥ ३०३॥
बलहंसस्वहृद्धामसुपुण्यानन्दकीर्तनः ।
बलहंसकृतिस्वेष्टरामार्थितनिरामयः ॥ ३०४॥
बालरामपरत्वाभासमातापुत्रभाषगः ।
बाललालिस्वकविताशक्तिदृष्टान्तकीर्तनः ॥ ३०५॥
बालकृष्णमनोरम्यलीलागारसकीर्तनः ।
बालकस्वादुवेणुस्वरगोपिमोहनानुतिः ॥ ३०६॥
बालार्काभसुचेलश्रीहरिध्यानसुखस्थितः ।
बाल्यालापसुवाक्कीर्तनश्रीराघवसन्नुतिः ॥ ३०७॥
बिलहृत्श्रीहरिध्यानहंसस्सोहँल्लयालयः ।
बिलहृदात्मलीप्राणोज्जीवनापुण्यकीर्तनः ॥ ३०८॥
बीजप्रणवनादाकृतिरामभजनालयः ।
बीजोंकारसुनादोपासनश्रीरामतन्मयः ॥ ३०९॥
बुद्धिप्राप्त्यर्थसद्रामदासमैत्र्यगुरुत्वगः ।
बुद्ध्यर्थप्राप्त्यवश्यानन्यभक्तवाक्तपानगः ॥ ३१०॥
बृहत्प्रमाणभुवनाधारैकरामगानुतिः ।
बृहद्भुवनमूलामूलनारायणगौलगः ॥ ३११॥
बृन्दावनाभिलोलश्रीकृष्णगोविन्दगारमः ।
बृन्दाराधाररघुवीरस्वहृच्चारिगायनः ॥ ३१२॥
बोधाराधितसीताराघवसन्नुतिकीर्तनः ।
बोधातीतपरब्रह्मश्रीरामभक्तिबोधनः ॥ ३१३॥
बोधवर्धनसत्कीर्तनभक्तलक्षगायनः ।
बौद्धश्रीरामभक्तिप्रवाहसंमग्नसद्गुरुः ॥ ३१४॥
ब्रह्माशङ्करविष्णूत्कृष्टपरब्रह्मरामगः ।
ब्रह्मैक्यतत्त्वसद्दर्शगरुडध्वनिगीतिकः ॥ ३१५॥
ब्राह्ममुहूर्तगासुप्रभातसीतासरामकः ।
ब्राह्ममुहूर्तनादोपासनपूजितरामकः ॥ ३१६॥
भक्तपापविमोक्तृश्रीरामरागस्वरायुतः ।
भक्तमोचकरामेडासत्कीर्तनगमोचकः ॥ ३१७॥
भक्तसेवनरामस्वनिश्चलभक्तिसेवनः ।
भक्त्याप्तियत्नसत्सारोपदेशसामकीर्तनः ॥ ३१८॥
भवजीवनजभवार्चितश्रीरामभावगः ।
भवनाटकपापघ्नसौख्यहर्यैक्यचित्तगः ॥ ३१९॥
भवपाशनिबद्धस्वमन्दारिकृतिखण्डनः ।
भवपाशविमोक्तृश्रीपरामपाशबन्धितः ॥ ३२०॥
भवक्लेशविनाशश्रीहरिनामगचोदनः ।
भवरोगहरश्रीहरिसंकीर्तनवाग्घरः ॥ ३२१॥
भवसन्नुतसन्नामजपरोधभवापहः ।
भवनीरधितारश्रीरामतारकजापकः ॥ ३२२॥
भवानीरतसन्नामतारकास्पदगायनः ।
भवानुतस्वहृदयारमसंमृदुगायनः ॥ ३२३॥
भवप्रियसुनामश्रीकान्तगानुतिभाषणः ।
भवप्रियप्रियारामरामशौर्यसुवर्णनः ॥ ३२४॥
भवाब्धितरणोपायरामाधृतकराम्बुजः ।
भववारणवरवारणरक्षणगारमः ॥ ३२५॥
भवसारसभवमानसस्वभवनानुतिः ।
भवदश्रीपसन्नुत्यद्भुतप्राससुवाक्कृतिः ॥ ३२६॥
भावसस्तुतभावाभावस्वश्रीरामचन्द्रकः ।
भावस्थस्वमनश्श्रीरामनामसततव्रतः ॥ ३२७॥
भावभावितभावश्रीसीतारामस्थभावनः ।
भावकीर्तनसन्नूतश्रीपपावनराघवः ॥ ३२८॥
भावजारिनुतश्रीरामपादसेवरक्षगः ।
भानुवंशतिलकरामभक्ततिलकादृतः ॥ ३२९॥
भिन्नषड्जकृतिस्फोटभिन्नमानसवेदनः ।
भिषज्यरामसान्निध्यस्वाधिगाननिवेदनः ॥ ३३०॥
भीतिच्छेदनकोदण्डपाण्याह्वानसुसत्कृतिः ।
भीतिच्छिद्रामसौमित्रिप्रसन्नजीवकीर्तनः ॥ ३३१॥
भुक्तिमुक्तिदसद्भक्तिकृतिदाशरथीर्णगः ।
भुक्तिमुक्तिदरामेडासीताकल्याणसत्कृतिः ॥ ३३२॥
भुवनाधाररामप्रासज्वलद्भजनालयः ।
भुवनाधाररामस्वजीवाधारदिनाचरः ॥ ३३३॥
भुवनत्रयदुर्लभ्यहरिदर्शनभाग्यवान् ।
भुवनत्रयपालश्रीकृष्णगानस्वरूपगः ॥ ३३४॥
भुवनावासभुवनवासिरामपरानुतिः ।
भुवनेशजनकजासमेतरामगेयनुः ॥ ३३५॥
भुविलावण्यनिधिकीर्तनविस्मितशिक्षकः ।
भुविस्थहरिनारायणरामसेवगासरः ॥ ३३६॥
भुजगाभूषणाजप्तनामतारकभूषणः ।
भुजङ्गशायिसीतापमङ्गलारतिराजकः ॥ ३३७॥
भूजापनामप्रत्यूषभूपालरागकूजनः ।
भूपालवन्द्यरामस्वस्वादुगानाभिवन्दनः ॥ ३३८॥
भूजापदृश्यमानायोध्यानगरीस्वमानसः ।
भूजारामान्तरारामज्ञानपक्वसुमानसः ॥ ३३९॥
भृगुसूनुमदापोहरघुवीरहृदालयः ।
भृत्यपालकरामप्रासपूर्णामृतवाक्सुगः ॥ ३४०॥
भेषजापुण्यसन्नामकीर्तनानुतरामकः ।
भैषज्यनामसङ्कीर्तनानन्दपुलकाङ्कितः ॥ ३४१॥
भैरवारामसन्नामश्रीरामरक्षणार्थगः ।
भैरवापूजितश्रीहरिरामकृतिभाषणः ॥ ३४२॥
भैरवीरागसत्कीर्तनानन्दसारवर्णकः ।
भैरवीकीर्तनामोदरामशृङ्गारगायकः ॥ ३४३॥
भैरवीकृतिसीतासकोदण्डपाणिवर्णनः ।
भैरवीगीतहृद्वाससर्वान्तर्यामिरामकः ॥ ३४४॥
भोगानुभवबुद्धिश्रीसीतारामलयस्थितः ।
भोगतृष्णापहश्रीरामकेदारगसँल्लयः ॥ ३४५॥
भोगीन्द्रशुभ्रशायिश्रीजानकीप्राणनाथगः ।
भोग्यनामरुचिप्रेमस्वानुभूतिगसद्गुरुः ॥ ३४६॥
भौलीप्रत्यूषगानश्रीरामजागरघाण्टिकः ।
भौलीरागनुतागीतदशावताररामकः ॥ ३४७॥
मदमत्सरपटपाटनार्थहरिगायनः ।
मदमात्सर्यविच्छेतृगौलीपन्तुसुकीर्तनः ॥ ३४८॥
मनोविषयवशदुर्लभ्यरामकृपाप्तिगः ।
मनःपक्वसहजभक्तिस्वरज्ञानमुक्तिगः ॥ ३४९॥
मनस्स्वाधीनतत्त्वार्थज्ञानावबोधगानखः ।
मनोनैर्मल्यनैश्चल्यरामस्वगुरुगायनः ॥ ३५०॥
मनोबिलहरिश्रीनरसिंहभक्तिसेवनः ।
मनोबिलहरिस्मरजपपादार्चनार्थनः ॥ ३५१॥
मन्त्रराजजपविराजमहराजभक्तिमान् ।
महराजस्वरामार्चनराजसुमतारकः ॥ ३५२॥
मन्दरागधरश्रीमाधवमङ्गलकीर्तनः ।
मञ्जुलरूपधरकृष्णसुमङ्गलगायनः ॥ ३५३॥
मनोरञ्जनिरागस्वमनोभावनिवेदनः ।
मनोरञ्जनबहुरङ्गनानाभावकीर्तनः ॥ ३५४॥
महार्थनादविद्यामर्मज्ञवेदार्थतत्त्ववित् ।
महद्बुद्ध्यपलापपृष्टरामविनयान्वितः ॥ ३५५॥
माधुर्यपूर्णवाग्राममाधुर्यपूर्णवाग्रमः ।
मानवावतरश्रीरामपरत्वज्ञसदृषिः ॥ ३५६॥
मानरक्षकरामस्वानन्यहिन्दोलकीर्तनः ।
माश्रीरमणरामगेयसायरक्षबन्धनः ॥ ३५७॥
मानसापूजितश्रीरघुनाथपदचिन्तनः ।
मानसस्नानसत्कीर्तनध्यानवरिवस्यितः ॥ ३५८॥
माररञ्जनिगाश्रीरामदयारोधसूचनः ।
माराममन्त्रमहिमाज्ञतमोऽन्वितखण्डनः ॥ ३५९॥
मालवगौलधीरश्रीरघुवीरसुवर्णनः ।
मायाम्बुदसमीरश्रीरामस्वाधिनिवेदनः ॥ ३६०॥
माप्तसाकेतरामस्वातङ्कतीव्रवाचकः ।
मालवश्रीकृतिस्वायासालापहृदयङ्गमः ॥ ३६१॥
मातापितृगुरुस्वाश्रयदैवसर्वरामगः ।
मासिंहवाहिनीरामनामसद्भक्ततल्लजः ॥ ३६२॥
मित्रवंशेशचारित्रामृतपायनगायनः ।
मित्रकुलेशमित्रीभावसंभाषणकीर्तनः ॥ ३६३॥
मित्रिसेवननानारागश्रीरामनुहर्षगः ।
मित्रिश्रीरामतत्त्वार्थनुतिगासेवभाग्यगः ॥ ३६४॥
मीनादिदशवेषश्रीरामवेषसमीडनः ।
मुकुन्दनामगारामस्ववेदनानिवेदनः ॥ ३६५॥
मुकुन्दनामधाराप्रासमनोहरकीर्तनः ।
मुनियागसुपालश्रीरघुरामकृतिस्तुतिः ॥ ३६६॥
मुत्यवाक्कृतियमचिन्तनकारणतारक-
-नामसङ्कीर्तनभजनसन्मार्गगसूचनः ॥ ३६७॥
मुदसन्नुतनादब्रह्मानन्दरूपवेदसारनामधेयभद्रश्रीरामचिन्तनहर्षितः ॥ ३६८॥
मूलाधारजनादप्रणवाकृतिमनोलयः ।
मूलस्थानोत्थनादानन्दमोक्षप्राप्तिगायनः ॥ ३६९॥
मृदङ्गतालयुक्तस्वरशुद्धियतिविश्रम-
-सद्भक्तिनिजवाग्द्राक्षारससत्कृतिचञ्चुरः ॥ ३७०॥
मेघश्यामावनिसुताधवनित्यानुभूतिगः ।
मेधाविलाससंभासपदलासाङ्ककीर्तनः ॥ ३७१॥
मैत्रावरुणरामायणरसानुभवास्पदः ।
मैथिलीशकविप्राणबहुकीर्तनसन्नुतिः ॥ ३७२॥
मोहनद्युतिशोभश्रीराममोहनमोहितः ।
मोहनश्रुतिशुद्धस्वगानमोहितरामकः ॥ ३७३॥
मोहनालास्यरागश्रीराममोहनकीर्तनः ।
मोहनारामरामस्वमोहोत्पन्नसुकीर्तनः ॥ ३७४॥
मोक्षदश्रीपसद्भक्तिसङ्गीतज्ञानमार्गणीः ।
मोक्षप्रणवनादज्ञानजीवन्मुक्तसद्गुरुः ॥ ३७५॥
मोदसश्रीरघुवराबोधसद्भक्तिमर्मगः ।
मोदरूपस्वरामप्रेमपूरैकान्तलालिगः ॥ ३७६॥
मौन्युपासितनादब्रह्मानन्दलयसन्मुनिः ।
मौनात्मलयनादप्रणवाकृतिसुखध्वनिः ॥ ३७७॥
यज्ञादिबाह्यकर्मस्थसुज्ञानहीनखण्डनः ।
यदुनन्दननौकालीलागोपीगर्वहारगः ॥ ३७८॥
यादवाभ्युपदिष्टश्रीगीतासारसुकीर्तनः ।
यागपालनरामस्वरक्षार्थार्थनकीर्तनः ॥ ३७९॥
यागरक्षणसंदर्शस्फुटाश्चर्यकृतिस्तुतिः ।
यागयोगफलावर्षरागसुधारसासरः ॥ ३८०॥
यान्तभान्तनिशान्तश्रीरामनामनिशान्तगः ।
योगिवृन्दार्चितपदार्चनप्रासनटाशुगः ॥ ३८१॥
योगातिश्रेष्ठनादोपासनयोगस्थसद्गुरुः ।
योगीन्द्रवरहृद्भावितस्वहृद्भावनाशुगः ॥ ३८२॥
यौगिकस्वादुसङ्गीतनामसङ्कीर्तनौषधिः ।
यौवनारामरामस्वयौवनारम्यकीर्तनः ॥ ३८३॥
रमणीयसुनामश्रीरामाभिरामगारमः ।
रञ्जनीरागसत्कीर्तनान्तर्गलनमार्दवः ॥ ३८४॥
रसालीकीर्तनशतानायासरचनाद्भुतः ।
रसिकावनरामस्वातुल्यवाग्रीतिगायनः ॥ ३८५॥
रघुरामसतीनूतिकविताच्छविकीर्तनः ।
रघुरामगुणारामगापुण्यतीर्थसूचनः ॥ ३८६॥
रघुराजदिवसराजराजनयनानुतिः ।
रघुनायकपादाब्जदृढग्रहणभक्तिमान् ॥ ३८७॥
रघुनन्दनसद्भक्तोत्तमोत्तमसुगायनः ।
राजमोहनरममानससप्रेमचिन्तनः ॥ ३८८॥
रघुनन्दनगत्यैकसद्गानशरणागतः ।
राजेश्वरमहाराजरामावतारसाधुगः ॥ ३८९॥
राकाशशिवदनपादसेवदैनभावनः ।
रामभक्तिसुसाम्राज्यब्रह्मानन्दानुभूतिगः ॥ ३९०॥
रागरत्नसुमालारञ्जितश्रीहरिसेवनः ।
रामसेवनसौभाग्यतारकानन्दकीर्तनः ॥ ३९१॥
रागसारमतिद्योतकृतिनादसुमूलगः ।
रागच्छविलसत्कीर्तनतन्त्रीस्वररागगः ॥ ३९२॥
रामश्रीरामलाल्यैकान्तपूजासूचकीर्तनः ।
रामदैवस्वनिन्दास्तुतिहास्यपूरकीर्तनः ॥ ३९३॥
रामावतारमर्मार्थकथानलिनकान्तिगः ।
रागतालच्छविसहजप्रासमञ्जुकीर्तनः ॥ ३९४॥
रामचन्द्रसुकरुणान्तरङ्गज्ञानगायनः ।
रामावतारभववन्यकर्म्यादर्शरीतिगः ॥ ३९५॥
रागानुरागसङ्गीतरामास्यपूर्णचन्द्रिकः ।
रामस्वमानसाराध्यनामकीर्तनतन्मयः ॥ ३९६॥
रामचिन्तनसुज्ञाननामतारकतत्त्वगः ।
रामनामसुखालीनसमाधिस्थमहामुनिः ॥ ३९७॥
रामैकान्तार्चनाराधनचिन्तनैक्यभावनः ।
रामसद्भक्तिवैराग्यसुज्ञानाद्वैतभावगः ॥ ३९८॥
रामरामसदानादज्ञानपुष्कलसत्कृतिः ।
रामगानसुधानादभावपुष्कलसङ्गतिः ॥ ३९९॥
रामसान्निध्यदौर्लभ्यापभूजालक्ष्मणादिमहात्मकीर्तन-
-कोकिलवरालीरागचारुगः ॥ ४००॥
रागामृतरसापानस्वरोंकारज्ञनादवित् ।
रागस्वरयुतप्रेमभक्तरक्षकरामगः ॥ ४०१॥
रामैकसत्यतथ्योपचारसारङ्गकीर्तनः ।
रामैकनित्यनित्योत्सवागीतनिजदासगः ॥ ४०२॥
रामनित्यैकसत्यस्वनिजदासत्वतथ्यगः ।
रागनित्योत्सवागीतदेवादिदेवरामकः ॥ ४०३॥
रागरत्नाङ्गिलक्ष्मीश्रीरूपाष्टकसुकीर्तनः ।
रागकीर्तनरत्नश्रीलक्ष्मीस्वमोक्षरूपगः ॥ ४०४॥
रागपञ्जरकीरश्रीरामानुरागपञ्जरः ।
रागताललयारामरामसम्भाषणोत्सुकः ॥ ४०५॥
रागार्थितस्वसंभाषणसार्वभौमरामगः ।
रागसङ्गीतनवनीताशश्रीकृष्णसन्नुतिः ॥ ४०६॥
रागवाग्रसधारासारश्रीकृष्णनुकीर्तनः ।
रागपञ्जररागप्रासस्फुरत्कृतिरत्नकः ॥ ४०७॥
रागपञ्जरगाकीरः कीरवाणीसुखश्रुतिः ।
रागमानससंतापकीरवाणीसुगाकृतिः ॥ ४०८॥
रामसर्वस्वसुज्ञानपूर्वीकल्याणिसत्कृतिः ।
रामानवधिसुखनिष्कलङ्कपरिपूर्णगः ॥ ४०९॥
रामरागोपचारस्वशतिरागकृतिस्तुतिः ।
रागरत्नशतालङ्कारराजितस्वरामकः ॥ ४१०॥
रामस्वजपमन्त्राक्षरजीवाधारसर्वगः ।
रामसर्वस्वभावाजीवनिर्विकल्पसुस्थितिः ॥ ४११॥
रिपुभीषणनामासारगङ्गीभूतकीर्तनः ।
रीतिगौलसुरागद्वैताद्वैततत्त्वसूचनः ॥ ४१२॥
रुद्राधीशरमेशश्रीरामसञ्चरमानसः ।
रूपातिदिव्यलावण्यैकरामैकनुकीर्तनः ॥ ४१३॥
रोहिणीतोयजारीदृशसीतारामगेडनः ।
रोमाञ्चनकरश्रीसीतारामाशुगकीर्तनः ॥ ४१४॥
रोमाञ्चनकवचरामभक्तमुद्रसेवकः ।
रोचिष्णुरामनामस्वखड्गषच्छत्रुसंदमः ॥ ४१५॥
लताङ्गिकृतिसौमित्रिपादसेवनवर्णनः ।
लक्ष्मणाहर्षकरदृष्ट्यपाङ्गार्थनकीर्तनः ॥ ४१६॥
लसन्मकुटहरिवेङ्कटेशारभिगानुतिः ।
लक्ष्मीनृसिंहपदभक्तिसत्सङ्गार्थनाकृतिः ॥ ४१७॥
लालिगानरघुश्रेष्ठसुमराजसुशायनः ।
लालिनीलाम्बरीरागमृदुमाधुर्यसान्त्वनः ॥ ४१८॥
लिखितश्लोकसंपूर्णवाससद्गुरुदैवतः ।
लिपिसङ्गीतसामोदपुष्पालङ्कृतसद्गुरुः ॥ ४१९॥
लीलावतारजगदीशप्रासरसवाङ्नुतिः ।
लीलानाटकरामामृतकथारससारगः ॥ ४२०॥
लुप्तविग्रहसंतापकृत्युन्नतमनस्स्थितिः ।
लुब्धार्थराममूर्त्यन्वेषणकृत्यार्द्रभक्तहृद् ॥ ४२१॥
लूनमानसपुष्पाराधनप्रीणितसद्गुरुः ।
लेखारूपकसंदृश्यमानसद्गुरुदैवकः ॥ ४२२॥
लोकावनचतुररामाग्रावनतभावुकः ।
लौक्यातीतस्वभावादर्शानेकस्फटिककृतिः ॥ ४२३॥
वकुलाभरणसुगीतनिर्दोषस्वपोषकः ।
वररामजपानन्दधिप्लावपुण्यराशिगः ॥ ४२४॥
वनजाक्षस्वनिन्दास्तुतिकीर्तनसुगारसः ।
वनजाक्षाननाजीवदर्शनानन्दसार्चनः ॥ ४२५॥
वनस्पतिहरिस्वान्तरातङ्कोक्तसुकीर्तनः ।
वरदपृष्टपरिहासार्थस्वशरणागतिः ॥ ४२६॥
वनेहभवतरणोपायरामैकतत्त्वगः ।
वरश्रीरमणोपासनशरणार्थिसत्त्वगः ॥ ४२७॥
वनमालिदयार्थस्वाद्वितीयरीतिगायनः ।
वनसत्कृतिरागान्दालीप्रासपुष्कलाशुगः ॥ ४२८॥
वरनामरुचिस्वानुभूतिप्रेमार्द्रगायनः ।
वररामखरहरप्रियसालापकीर्तनः ॥ ४२९॥
वरमन्त्रग्रहणलोलनामतारकालयः ।
वरुणालयगांभीर्यगौरीडाकवितालसः ॥ ४३०॥
वररामस्ववीणामिष्टस्वरोत्सवकीर्तनः ।
वरनारायणश्रीहरिदिव्यनामगालयः ॥ ४३१॥
वरनारायणश्रीकृष्णलीलारससत्कृतिः ।
वरकीर्तनगङ्गाशङ्कराभरणसङ्गतिः ॥ ४३२॥
वरनारदवीणासदर्शनाह्लादगायनः ।
वरनारदमौन्याजप्तनारायणनामगः ॥ ४३३॥
वरमूर्छनभेदस्वरजातिज्ञगुरूत्तमः ।
वररागलयोंकाराकारनादरहस्यवित् ॥ ४३४॥
वरेतज्ज्ञानहीनात्मशंसनगर्वखण्डनः ।
वररागलयज्ञस्ववरगानवरारकः ॥ ४३५॥
वरदोत्सवदर्शार्थस्वरभूषणिगायनः ।
वरनागवरदवरगाननागसन्मुनिः ॥ ४३६॥
वरमारुवधन्यासीकीर्तितामृदुभाषणः ।
वरमावरपदपङ्कजगत्यैकगायनः ॥ ४३७॥
वरासमानरामश्रीभक्तिपञ्जरकीरगः ।
वरभाषमधुस्वादुहरिस्वकुलभूषगः ॥ ४३८॥
वसन्तभैरवीमिष्टाभिरोरुदसुकीर्तनः ।
वसन्तकैरवीलासरागलक्षणकीर्तनः ॥ ४३९॥
वसन्तारागसीताराममातापितृभावगः ।
वसन्तच्छविलास्यश्रीरामप्राप्तिस्वभाग्यगः ॥ ४४०॥
वाक्चेलावृतनादब्रह्मानन्दरसरामकः ।
वाग्रागसुस्वराभूषमृदुभाषस्वरामगः ॥ ४४१॥
वाणीचामररामोपचारक्रमसुगायनः ।
वाणीगम्भीरनाटसीतापभजनयोगगः ॥ ४४२॥
वाचस्पतिस्वरारामवरारामसुकीर्तनः ।
वाचस्पतिवरानन्दवाग्वर्षगानतल्लजः ॥ ४४३॥
वाचामगोचरश्रीरामवागमृतवर्णनः ।
वाग्वर्षगानलोलश्रीराममाहिनगानुतिः ॥ ४४४॥
विजयश्रीदहरिजपानन्दनारदानुतिः ।
विष्णुस्वरूपवरसद्गुरुनारदकीर्तिनुः ॥ ४४५॥
विनतासुतघननागपाशखण्डनार्थित-
-विष्णुवाहनभक्तप्रह्लादाह्वानचरित्रगः ॥ ४४६॥
विनतासुतवाहश्रीवरदोत्सववर्णनः ।
विधिदेवनुवैशाखोत्सवकाञ्चीपकान्तिगः ॥ ४४७॥
विनतासुतवाहश्रीरमणादर्शसेवनः ।
विरक्तासक्तसुज्ञानिसत्सङ्गतिसौख्यगः ॥ ४४८॥
विनयानुतसीतापदर्शोत्करसगायनः ।
विनायकनुतश्रीरघुवीरनुतिगानतः ॥ ४४९॥
वीणानादससङ्गीतपुजोत्सवदिनाचरः ।
वीतदुर्मतिसत्सङ्गनामपूजागुरुत्वगः ॥ ४५०॥
वृन्दारगणवन्द्यश्रीराममङ्गलकीर्तनः ।
वेङ्कटेशसुनामामृतसोपानपरामुदः ॥ ४५१॥
वैदेहीपदभक्त्यर्थनसहानसुकीर्तनः ।
वैभोगरङ्गरङ्गक्षेत्रोत्सवस्वादुवर्णनः ॥ ४५२॥
वैकुण्ठनाथभूलोकमुत्याङ्गिसेववर्णनः ।
वैनतेयगमनश्रीवासुदेवकृपार्थगः ॥ ४५३॥
शङ्कराभरणापूतगङ्गासारसुकीर्तनः ।
शङ्करप्रियसन्नाममाहात्म्यस्वादुगायनः ॥ ४५४॥
शङ्कराभरणागम्भीरवाक्शैलीसुकीर्तनः ।
शम्भुत्रिजगदीशस्वगानाह्वानसुगापतिः ॥ ४५५॥
शङ्कराभरणागीतस्वररागसुधारसः ।
शङ्करप्रासपूर्णस्वविशिष्टशब्दरीतिगः ॥ ४५६॥
शर्मश्रीरामगुणगानज्ञानधनसद्गुरुः ।
शमनस्वरसप्तस्वरूपादिमूलगायनः ॥ ४५७॥
शान्तसौख्यमनःपक्वसामरागसुकीर्तनः ।
शान्तसन्ध्यासुवेलाभामञ्जुगुञ्जसुगायनः ॥ ४५८॥
शिखिवाहनसन्नूतिसुप्रदीपसुगामणिः ।
शिञ्जज्झल्लकमञ्जीरस्वादुगानटनाकृतिः ॥ ४५९॥
शीकारगङ्गिकाभूतसुदिव्यनामकीर्तनः ।
शीकारदृष्टिदीक्षाज्ञानोपदेशनसद्गुरुः ॥ ४६०॥
शुद्धान्तरङ्गनादोपासनबोधनसद्गुरुः ।
शुद्धबङ्गालकृतिरामभक्तिस्वानुभूतिगः ॥ ४६१॥
शुद्धस्वमानसारामरामप्रेमाह्वसत्कृतिः ।
शुद्धसीमन्तिनीजानकीरामरामगायनः ॥ ४६२॥
शुभाङ्गयदुवीरस्वार्पणगोपीसुतोषगः ।
शुभचारित्ररामोत्सवशोभानसुकीर्तनः ॥ ४६३॥
शुभश्रीरामसद्भक्तरक्षविश्वासपूरगः ।
शूरश्रीरामशरनैपुण्याशंसनकीर्तनः ॥ ४६४॥
शृङ्गाररामसीतासेवनवर्णनकीर्तनः ।
शेषतल्परमासेवान्तश्चक्षुर्दशकीर्तनः ॥ ४६५॥
शृङ्गारजानकीमल्लिकामोदवर्षसेवन-
-शेषशायिस्वसङ्गीतगानाख्यानवरार्थनः ॥ ४६६॥
शैलीलाघवगूढानवगमार्थाङ्ककीर्तनः ।
शैलवच्चित्तनैश्चल्यरामस्वगुरुगायनः ॥ ४६७॥
शोभनाचारुसप्तस्वरोपासनोपदेशनः ।
शोभावद्रामनादोपासनवन्दनचोदनः ॥ ४६८॥
शोकवारणसङ्गीतात्मारामलयसाधनः ।
शौभश्रीरामहृदयायोध्यादर्शनसूचनः ॥ ४६९॥
श्यामसुन्दररामैकसर्वशक्तिसुगायनः ।
श्यामश्रीराममरकताभप्रेमरसोत्सुकः ॥ ४७०॥
श्रितचिन्तामणिश्रीरामगानानन्दसालयः ।
श्रितावनव्रतश्रीरामनामकीर्तनव्रतः ॥ ४७१॥
श्रीरामायणसंक्षिप्तरीतिगौलसुकीर्तनः ।
श्रीमद्रामायणरसानुभूतिबहुकीर्तनः ॥ ४७२॥
श्रीरामसोक्तमाजानकीमहच्छ्रैष्ठ्यकीर्तनः ।
श्रीनायकयशोमूलजानकीनुतिगायनः ॥ ४७३॥
श्रीरामनामसर्वोन्नतसुखस्वानुभूतिगः ।
श्रीरामनामसुज्ञानतारकेहपरार्थगः ॥ ४७४॥
श्रीरामपार्श्वसीतालक्ष्मणसाष्टाङ्गवन्दन-
-नामध्यानसुगानप्रश्नस्वानुभूतिहर्षगः ॥ ४७५॥
श्रीरामापाङ्गदृष्टिन्यायप्रश्नरसकीर्तनः ।
श्रीरामादृश्यदिव्यातिसौन्दर्यगानवर्णनः ॥ ४७६॥
श्रीरामरघुरामस्वान्तरार्द्रीभूतभावुकः ।
श्रीरामबन्धुमित्रातिभाग्यविस्मयकीर्तनः ॥ ४७७॥
श्रीराममानसस्थापननामकुसुमार्चनः ।
श्रीरागगीतपूजार्चननामसुममाहिनः ॥ ४७८॥
श्रीरामचरणश्रायहृदब्जसुमपूजनः ।
श्रीरामस्वेहपरसर्वस्वपूर्णैक्यदिव्यगः ॥ ४७९॥
श्रीरामरागरत्नावलीभूषरीतिगौलगः ।
श्रीपमानसपूजाविध्येतद्रागसुगायनः ॥ ४८०॥
श्रीरामध्यानसङ्गीतसद्गङ्गास्नानपावनः ।
श्रीरामान्दोलिकारागसुधारसगपायनः ॥ ४८१॥
श्रीरामाकृतिनादब्रह्मानन्दरसगारसः ।
श्रीरामनादनवरत्नहृन्मण्डपगारमः ॥ ४८२॥
श्रीरामस्वार्तिगालापकेदारगौलवाग्रसः ।
श्रीरमारमणशरणार्थनजपपूजनः ॥ ४८३॥
श्रीकृष्णकीर्तनगतिहिन्दोलरम्यमञ्जुलः ।
श्रीरामस्वमनोभाववेद्यार्थनकीर्तनः ॥ ४८४॥
श्रीरामपदसेवास्वपूर्वपूजाफलामुदः ।
श्रीरामलालनस्वादुप्रशान्तोत्सवकीर्तनः ॥ ४८५॥
श्रीरामवासरम्यस्वक्षेत्रमञ्जुलवर्णनः ।
श्रीवाणीनर्तनाह्लादमुखारीरागकीर्तनः ॥ ४८६॥
श्रीवाणीलयवीणासङ्गीतसार्चितरामकः ।
श्रीवरार्चनसद्भक्तिसङ्गीतालीनसद्गुरुः ॥ ४८७॥
श्रीरामोदारसौलभ्यगुणगानमुखारिगः ।
श्रीरामभजनादेशः क्षीणकृत्सिद्धिखण्डनः ॥ ४८८॥
श्रीराघवस्वपुन्नागवरालीकृतिवन्दनः ।
श्रीराघवस्ववाङ्मञ्जुलसुसंस्कृतकीर्तनः ॥ ४८९॥
श्रीरामवर्णनातीतमहिमस्वादुगायनः ।
श्रीरामरूपपराक्रमगुण्डक्रियकीर्तनः ॥ ४९०॥
श्रीरामभजनलघुमुक्तिसाधनबोधनः ।
श्रीरामगाभजनमलयमारुतसौख्यदः ॥ ४९१॥
श्रीरामजपनामध्यानप्राप्तानन्दमग्नगः ।
श्रीरामसहजज्ञानभक्तिवैराग्यकीर्तनः ॥ ४९२॥
श्रीवृन्दावनसारङ्गकमलाप्तकुलाप्तगः ।
श्रीकलत्रार्थितवराभयस्वमिष्टकीर्तनः ॥ ४९३॥
श्रीनारायणगौलश्रीरामस्थिरादिमूलगः ।
श्रीशेषतल्पशयसन्नुतिगम्भीरकीर्तनः ॥ ४९४॥
श्रीकान्तस्वान्तसिद्धान्ताज्ञातदुर्मार्गखण्डनः ।
श्रीरामशुभलक्षणश्रुतिवेद्यस्वरूपगः ॥ ४९५॥
श्रीरामावतरपरादिमूलज्ञानकीर्तनः ।
श्रीसीतारामसर्वात्मज्ञानसंपुष्टिकीर्तनः ॥ ४९६॥
श्रीनभोमणिकुलललामश्रीरामगानुतिः ।
श्रीदाशरथिसर्वस्वस्तुत्यतीतमहत्त्वगः ॥ ४९७॥
श्रीपप्रियसुसङ्गीतोपासनस्वरसालयः ।
श्रीगामञ्जीरघल्कृतदिव्यावतारसद्गुरुः ॥ ४९८॥
श्रीरामबलहंसस्वकीर्तनार्थनिरामयः ।
श्रीरामस्वैकदैवस्वहृद्वासप्रेमगायनः ॥ ४९९॥
श्रीरामोत्सवसेवास्वाद्वैतसाम्राज्यकीर्तनः ।
श्रीरामभक्तिवैराग्यनिधिसायुज्यभाग्यगः ॥ ५००॥
श्रीरामरूपमोदध्यातप्रेमपूरमानसः ।
श्रीरामजपशरणाश्रयकल्याणिगायनः ॥ ५०१॥
श्रीरामस्वैकगतिदिनरात्रिभावभावुकः ।
श्रीदाशरथिसर्वादृष्टहृत्स्थनामतारकः ॥ ५०२॥
श्रीरामस्वाजननभक्तहस्तानयगार्थनः ।
श्रीपगामञ्जरीफुल्लरागपुष्पमधुद्रवः ॥ ५०३॥
श्रीवेङ्कटेशदर्शनाच्छादपाटनगार्थनः ।
श्रीपदर्शनसंवारमदमात्सर्यहारगः ॥ ५०४॥
श्रीहरिस्थितमतिजिह्वराजहरिनामगः ।
श्रीदनामतपोभक्तिफलैकहरिरामगः ॥ ५०५॥
श्रीरामनुतिनिन्दास्तुतिहास्यरसपूरितः ।
श्रीरामसुगुणागानश्रैष्ठ्यसोल्लुण्ठकीर्तनः ॥ ५०६॥
श्रुतिताललयारम्यकृतिवन्दितरामकः ।
श्रुतमात्रमनोगालकृतिवृन्दारसद्गुरुः ॥ ५०७॥
श्रेष्ठोत्कृष्टसुगावृन्दनादोपासितराघवः ।
श्रेष्ठसद्भक्तिगानश्रीरामस्ववशसद्गुरुः ॥ ५०८॥
श्रोत्रसुस्वरसुमुखरामनामसुगासुखः ।
श्रौष्टिमानसरामाबाल्यसेवापरसामुदः ॥ ५०९॥
श्लक्ष्णसङ्गीतगङ्गाभिषिक्ततारकरामकः ।
श्लक्ष्णसङ्गीतधारानुग्रहसद्गुरुदैवकः ॥ ५१०॥
श्लाखितस्वाशुसत्कीर्तनवृन्दाचार्यदैवतः ।
श्लिष्टश्रीरामसर्वालङ्कारोपचारगालयः ॥ ५११॥
श्लोकितश्रीरघुवरपदचिन्तनजीवनः ।
श्लोकितश्रीहरिगुणप्रासानुप्रासरासगः ॥ ५१२॥
श्लोकितोत्कृष्टनादोपासनस्वजीवसद्गुरुः ।
श्वासमिश्रितरामोत्तमनामगानजीवनः ॥ ५१३॥
श्वासार्चितस्वजीवाधाररामगानसद्गुरुः ।
षड्जाधारश्रुतिस्वादुसङ्गीतालयविग्रहः ॥ ५१४॥
षड्जादिस्वररागज्ञानभक्तिगानभावुकः ।
षड्जादिस्वरसङ्गीतमर्मकोविदवन्दनः ॥ ५१५॥
षड्रिपुसूदनश्रीपपदभक्तवरेण्यगः ।
षड्विधमार्गिणीरागरामदूताञ्जनेयनुः ॥ ५१६॥
षडास्यबाललीलावर्णनकीर्तनसन्नुतिः ।
षडानननुतिस्तोत्रतोडीकीर्तनगारुचिः ॥ ५१७॥
षडास्यमातुलश्रीरामस्वहृद्भूषभाषणः ।
षण्मुखप्रियभावाढ्यस्वमनोभावगायनः ॥ ५१८॥
षाडवौडवसंपूर्णरागस्वरूपभूचरः ।
षोडशोपचारश्रीरामनित्योपासनायुतः ॥ ५१९॥
सङ्गीतसुस्वरस्वादुनादमण्डलसंवृतः ।
सङ्गीतदेवतापूर्णवाससत्कृतिमण्डलः ॥ ५२०॥
सङ्गीतलोलसङ्गीतलोलसङ्गीतदैवतः ।
सङ्गीतस्वरमूलश्वाससँल्लयमानसः ॥ ५२१॥
सङ्गीतशास्त्रसुज्ञानसारूप्यसौख्यभाग्यगः ।
सङ्गीतज्ञानसद्भक्तिसन्मार्गबोधसद्गुरुः ॥ ५२२॥
सङ्गीतपूजितश्रीरामदयावश्यगायनः ।
सत्त्वश्रीरामपूजावेलसमक्षोपदेशगः ॥ ५२३॥
सत्श्रीरामदयापात्रैकसद्दर्शनसौख्यगः ।
सङ्गीतरामसद्दर्शसौख्यानुभूतभावुकः ॥ ५२४॥
सज्ज्ञानबोधरामस्वादुगानभजनारमः ।
सत्सङ्गरामशिक्षासगुणनिर्गुणसुज्ञगः ॥ ५२५॥
सप्तस्वरमधुरध्वनिलीनभजनारमः ।
सप्तस्वरस्फुरच्छोभाजगन्मोहिनिसत्कृतिः ॥ ५२६॥
सर्वरक्षकरामस्वगानरक्षाभिबन्धनः ।
सर्वान्तर्यामिरामस्वान्तर्निष्ठापरगायनः ॥ ५२७॥
संसारभीत्यपोहोंकारधामरामकीर्तनः ।
सङ्गीतयदुकुलकाम्भोजश्रीकृष्णमाहिनः ॥ ५२८॥
सदाशिवमयोंकारस्वरनादरहस्यवित् ।
सङ्गीतयोगफलभोगजीवन्मुक्तसद्गुरुः ॥ ५२९॥
सच्चित्तरञ्जनीगङ्गाधरनादस्वरूपगः ।
सच्चित्तरङ्गपादाब्जसद्गङ्गापूतकीर्तनः ॥ ५३०॥
सत्कामवर्धनीगङ्गाधरनामोक्तिचोदनः ।
सज्ज्ञानवर्धनीगीतरामसामर्थ्यमाहिनः ॥ ५३१॥
सद्भक्तिपदवीगीतरागसालगभैरविः ।
सत्त्वश्रीरामतत्त्वाज्ञभवमज्जनखण्डनः ॥ ५३२॥
सत्त्वस्वमानसाध्यातकमलाश्रीमनोहरिः ।
सत्त्वपूजापुलकसार्थितरामास्यदर्शनः ॥ ५३३॥
सदान्वेषितरामस्वपुनर्दर्शनहर्षगः ।
सद्रागबिलहरिसोत्साहकीर्तनमञ्जुलः ॥ ५३४॥
सप्रतापवरालीनचिन्तनस्वानुभूतिगः ।
सकलार्थेहभवतारणस्वशरणागतः ॥ ५३५॥
संदेहरूपपदपादुकामहिमसारगः ।
सनकाद्यर्चितपदश्रीरामस्वसुभाग्यगः ॥ ५३६॥
सरसानूतश्रीरामकापिनारायणीकृतिः ।
सरसस्वजगुण्यश्रीरामस्वानुभवानुतिः ॥ ५३७॥
सरसाद्भुतवाक्सारसंसिक्तरामचन्द्रकः ।
सरकीर्तनगागङ्गो रामाभिषेकगासरिः ॥ ५३८॥
सरसीरुहमुखचिद्घनश्रीरामसालपः ।
सरसीरुहनयनकटाक्षानन्दगालपः ॥ ५३९॥
सर्वराममयादर्शकीर्तनानन्दभैरविः ।
सर्वाधारस्वरामस्वमनोज्वालार्तिवेदनः ॥ ५४०॥
सर्वसाक्ष्यन्वयनिजभक्तिविषयविरक्तिगः ।
सद्भक्तपालनश्रीरामगानरसवाचकः ॥ ५४१॥
सरस्वतीगसुज्ञानमूलानुरागगायनः ।
सगुणध्यानजान्तर्ज्ञानवाक्पुष्टिरसामृतः ॥ ५४२॥
सन्नराकृतिरामस्वसुधाभजनभाग्यवान् ।
सरसङ्गतिवाग्वर्षशरवर्षस्वरामगः ॥ ५४३॥
सत्त्वश्रीरामसन्नूतिसरस्वतीमनोहरिः ।
सत्त्वसुज्ञानसंपुष्टिवाग्रागरससत्कृतिः ॥ ५४४॥
सरस्वतीमनोहार्यन्तरात्मराघवानुतिः ।
सरस्वतीलसद्वाणीसुलास्यजिह्ववाङ्नुतिः ॥ ५४५॥
संसारानित्यमतिहीनाप्राप्यरामभक्तिगः ।
सर्वश्रीहरिभावज्ञैकप्राप्तिरामभक्तिगः ॥ ५४६॥
सहाजाजानिसंदर्शपुलकाङ्कितकीर्तनः ।
सहाभृद्दृष्टरामवचनहर्षाश्रुपूरितः ॥ ५४७॥
ससीतरामगानक्षीराब्धिसेवनभावुकः ।
सकलागमसञ्चारसञ्चारमञ्जुसत्कृतिः ॥ ५४८॥
सकलागमनुतशिवाकल्याणीकृतिस्तुतिः ।
सकलाधरगौरीनुप्रासच्छविलसत्कृतिः ॥ ५४९॥
सनातनपरब्रह्मसुज्ञानफलमञ्जरिः ।
सनन्दननुतश्रीरामनामरसमञ्जरिः ॥ ५५०॥
सच्चित्तशायिगायनसातङ्ककलिदुष्कृतिः ।
सत्त्वकीर्तनमातातगुरुभक्तिविलोपगः ॥ ५५१॥
सद्ध्यानभजनाख्यानकृतिरागविवर्धनिः ।
सन्मार्गगमनकुमार्गत्यजनोपदेशनः ॥ ५५२॥
सामादिवेदसारश्रीरामैकभक्तिनिष्ठितः ।
सामादिनिगमाचारहरिमङ्गलगारतिः ॥ ५५३॥
सामप्रशान्तकृतिमनश्शान्त्यवश्यगायनः ।
सामगाभक्तिसत्सङ्गध्यानोपदेशसद्गुरुः ॥ ५५४॥
सावेरीरागसङ्गीतकावेरीतीररामकः ।
सावेरीरागहृद्गालजयसीतापरामगः ॥ ५५५॥
सारङ्गरामसद्दर्शप्रसादभाग्यगायनः ।
सारङ्गस्वरसद्गेयस्सारङ्गरागरञ्जनः ॥ ५५६॥
सारङ्गरागगावीचिसुस्वरानन्दसागरः ।
सारामराममारामहरिनामसुगारमः ॥ ५५७॥
सारसारसरामोपासनसन्नामसारगः ।
सार्वभौमस्वहृत्साकेतरामपरत्वसूचनः ॥ ५५८॥
सिन्धुरामक्रियारागसुधामाधुर्यभाषगः ।
सिन्धुरामक्रियायोगसदाशिववरानुतिः ॥ ५५९॥
सिद्धसेनाकृतिस्वातङ्कभवाब्धिनिमग्नकृपणोद्धारण-
-रामज्ञापनमहान्तलोपगः ॥ ५६०॥
सिंहेन्द्रमध्यमश्रीरामरक्षार्थनकीर्तनः ।
सिद्धयोगिगणावन्द्यश्रीरामषरणागतः ॥ ५६१॥
सीतापपूजनालङ्कारस्वानुरागयोगगः ।
सीतामनोहरापूजनानन्यगतिगायनः ॥ ५६२॥
सीतासरामसरयूदर्शकृतिमनोहरिः ।
सीतारामसुकारुण्यकटाक्षवचनोक्तिगः ॥ ५६३॥
सीतारामकमास्मेरसुजनाजीवकीर्तनः ।
सीतापत्यभयप्रेमोक्तिस्वसिद्धान्तगायनः ॥ ५६४॥
सीतापत्राणसंप्रार्थनकीर्तनसुमुत्यकः ।
सीतावल्लभभक्तत्राणचारित्रसुगायनः ॥ ५६५॥
सीतारामस्वभक्तिस्थैर्यार्थनकीर्तनाहरः ।
सीतारामस्वरूपस्थिरमानसाब्जभाग्यवान् ॥ ५६६॥
सीतारामप्रियारामपादुकाश्रैष्ठ्यसूचनः ।
सीतारामस्वभाग्यप्रेष्ठकीर्तनरसानुतिः ॥ ५६७॥
सीताश्रीमणिरामापुण्यमन्त्रमहिमास्पदः ।
सीताकल्याणवैभोगकीर्तनविश्रमारमः ॥ ५६८॥
सीताश्रीमणिरङ्गस्फुरत्पार्श्वहरिपूजनः ।
सीतापत्यारतिविराजस्वानुरागमानसः ॥ ५६९॥
सीताहृदब्जखद्योतद्योतितामृतवाक्सरिः ।
सीतारामसुनामस्वतारकाघधिपोतगः ॥ ५७०॥
सीताश्रीजानकीमाहिनकाम्भोजिगसन्नुतिः ।
सीताश्रीजानकीमाहात्म्यातुल्यगुणगाकृतिः ॥ ५७१॥
सीतानाथरघुवराप्रमेयाभरणस्तुतिः ।
सीतारामावतारसुकारुण्यहरिसन्नुतिः ॥ ५७२॥
सुकल्याणवसन्तसौख्यब्रह्मानन्दनादलीः ।
सुस्वादुफलसप्तस्वररागनादसामुदः ॥ ५७३॥
सुनादलोलहरिजोषसप्तस्वररागलीः ।
सुन्दराङ्गस्वरामावीक्षिमनःस्थितिविस्मयः ॥ ५७४॥
सुस्वरामृदुवाक्सीतारामगानपरायणः ।
सुस्वरापूजितश्रीपसुरागस्वरसालयः ॥ ५७५॥
सुवागधीश्वरीरागप्रासानुप्रासभासगः ।
सुवागधीश्वरीवाणीपूर्णप्रसन्नकीर्तनः ॥ ५७६॥
सुज्ञानपरपरमात्मसर्वान्तर्गगायनः ।
सुरभूसर्वसृष्टिव्यापिपरमात्मगालयः ॥ ५७७॥
सुराममन्त्रमर्मज्ञस्सुगारमरघूत्तमः ।
सुपोषिणीकृतिस्वादुशैलीगङ्गारयारमः ॥ ५७८॥
सुकीर्तितवरदराजगानालोकसेवनः ।
सुस्वरभूषणीरागलक्ष्मीपस्वरभूषणः ॥ ५७९॥
सुरतारकमध्यश्रीपचन्द्रालोककीर्तनः ।
सुरसेवितवरदोत्सवदर्शार्थगायनः ॥ ५८०॥
सुपूजासमयमनोभावस्वरामसालपः ।
सुपादस्पर्शहर्षब्रह्मानन्दानुभवालपः ॥ ५८१॥
सुनादोपासनप्राप्तफलश्रीनाथरामगः ।
सुपादमहिमवृद्धाशीर्वादबलगायनः ॥ ५८२॥
सुकाव्यालापवसन्ताभास्फुरद्रामकीर्तनः ।
सुरापगावसन्तच्छविस्मितरागकीर्तनः ॥ ५८३॥
सुनामभजनप्रचोदनकल्याणिकीर्तनः ।
सुनादप्रणवारामसद्भक्तिभजनामुदः ॥ ५८४॥
सुनामकीर्तनभजनालययोगितल्लजः ।
सुज्ञानघनसुप्रासवनकीर्तनरत्नकः ॥ ५८५॥
सुज्ञाननिधिधर्मादिमोक्षप्रदपरात्मगः ।
सुगाननिधिसत्कीर्तनाचार्यस्सुस्वरात्मकः ॥ ५८६॥
सुरदेवादिदेवस्मरनामस्मरगासरः ।
सुरदेवाधिदेवस्वरमार्दवसुगावरः ॥ ५८७॥
सुसीतारामपादार्चनैकान्ताराधनालयः ।
सुनेत्रपूररामादर्शहर्षाङ्कितकीर्तनः ॥ ५८८॥
सुप्रासवाग्भजनसीतारामनामकीर्तनः ।
सुमनोध्येयरामाभयरक्षार्थनरागगः ॥ ५८९॥
सुकीर्तनमनोगालार्थितश्रीरामभाषणः ।
सुप्रासनटवाङ्मञ्जुलमनोभावगायनः ॥ ५९०॥
सुगुणालयरघुवरकीर्तनाभिरोरुदः ।
सुमनोरागभावस्यन्दार्थितरामभाषणः ॥ ५९१॥
सुवाग्रीतीनवंशोत्तमप्रश्नकृतिमञ्जुलः ।
सुरागभैरवीलक्षणापूरचारुगायनः ॥ ५९२॥
सुस्वरानन्ददायश्रीरामभाषणमिष्टगः ।
सुस्वरानन्दसारश्रीराममिष्टभाषगः ॥ ५९३॥
सुत्रामपालरघुरामसारङ्गसुगारसः ।
सुमध्यमावतीनिन्दास्तुतिहास्यरसार्णवः ॥ ५९४॥
सुमध्यमावतीगीतस्वानन्यशरणागतिः ।
सुरसन्नुतरामोदारस्वभावनुसत्कृतिः ॥ ५९५॥
सुमध्यमावतीकीर्तितरामनाममाहिनः ।
सुमङ्गलप्रदारामनामभजनचोदनः ॥ ५९६॥
सूत्रधारिहरिश्रीपरामावतारनाटक-
-सूक्ष्मरहस्यसुज्ञानघनकीर्तनरत्नकः ॥ ५९७॥
सूर्येन्दुनेत्रसर्वैकराघवस्वान्तरङ्गवित् ।
सूर्यान्वयजयन्तश्रीराघवस्तुतिसन्मतिः ॥ ५९८॥
सूर्यसोमविभामूलराममाहिनगायनः ।
सूर्यवंशललामश्रीरामभक्तललामगः ॥ ५९९॥
सूर्यकान्तकृतिव्यक्तरामास्यच्छविविस्मयः ।
सूर्यवंशजरामास्यकान्त्याकर्षितमामुनिः ॥ ६००॥
सूर्यप्रकाशसीतासुगुणसात्त्विकवर्णनः ।
सूर्योदयाग्रसंध्यातसङ्गीतश्रीपतन्मयः ॥ ६०१॥
सृप्रसुस्वरनादोपासननारायणालयः ।
सृष्टिस्थित्यन्तकारानेकनामसारसारगः ॥ ६०२॥
सेवितस्वकृतिश्रीसीतारामरागपूजनः ।
सेवार्थिशिष्यपूर्णानुग्रहकारकसद्गुरुः ॥ ६०३॥
सोहंभावसदालीनसङ्गीतस्वामिसद्गुरुः ।
सौमङ्गलारतिज्योतिस्सीतारामसुशोभनः ॥ ६०४॥
सौराष्ट्रगीतवन्द्यश्रीगणनाथकृतिस्तुतिः ।
सौराष्ट्रघनसद्गीतिसौमङ्गलावहानुतिः ॥ ६०५॥
सौम्यश्रीरामसद्भक्तिमार्गाज्ञपरिदेवनः ।
सौम्यकीर्तनसंबोधधेनुकारागरत्नकः ॥ ६०६॥
सौभाग्यदायिनीजानकीरामभाग्यगायनः ।
सौभाग्यधेयरामस्वपूजादर्शनभाग्यवान् ॥ ६०७॥
सौम्यश्रीरामनामामृतरसापानचोदनः ।
सौरिनारायणहरिस्मरनामरसाप्लवः ॥ ६०८॥
सौमित्रिभाग्यसीतारामशेषतल्पसेवन-
-तत्त्वार्थापूर्वरागालापहर्षस्वानुभूतिगः ॥ ६०९॥
सौन्दर्यदेवतासीतासरामादर्शमानसः ।
सौमङ्गलप्रदानन्दजयमङ्गलगायनः ॥ ६१०॥
स्वमनोहरसीताराघवबोधसपूजनः ।
स्वज्ञानबोधनानाविधाराधितस्मिताननः ॥ ६११॥
स्वरभूषावलीमण्डितस्वेष्टदैवरामकः ।
स्वरामानुभवान्तर्लयसम्भाषणकीर्तनः ॥ ६१२॥
स्वरमालविकाशश्रीहरिपादसुरागगः ।
स्वरसप्तकघण्टामण्डितकोदण्डरामगः ॥ ६१३॥
स्वरविद्यातिसूक्ष्मश्रीनारदमुनिबोधितः ।
स्वरार्णवरहस्यश्वेताद्र्युपदेशमर्मवित् ॥ ६१४॥
स्वररागसुधास्रावशङ्कराभरणासरः ।
स्वरसद्रसविद्रावस्वर्गापवर्गकीर्तनः ॥ ६१५॥
स्वररागसुधासारशङ्कराभरणानदः ।
स्वरकोलाहलारावध्वनिकीर्तनसङ्गतिः ॥ ६१६॥
स्वरसाररसासारस्वरलोलस्वरामगः ।
स्वरसारसरागश्रीरामरागरसासरः ॥ ६१७॥
स्वरतालगतिज्ञानशुद्धमानसगारतिः ।
स्वरमूलप्रणवगुप्तानन्दमोक्षनादवित् ॥ ६१८॥
स्वरसङ्गीतसुज्ञानब्रह्मानन्दनिधिप्लवः ।
स्वरानन्दनिधिप्लावसुज्ञानघनकीर्तनः ॥ ६१९॥
स्वरसप्तसुखालापरागस्वरूपसँल्लयः ।
स्वररागलयश्रीरामनामरसपानगः ॥ ६२०॥
स्वररागलयसुधारसमिश्रितकण्डमिष्टरामनामसौख्यानुभवसंमग्नसद्गुरुः ॥ ६२१॥
हंसध्वनिसुसंक्षिप्तरामायणकथारसः ।
हंसरामसुपादाब्जशरणागतिगायनः ॥ ६२२॥
हंसनादसुरागस्वरामसेवककीर्तनः ।
हंसानन्दियतिश्रेष्ठो हंसात्मानुभवालयः ॥ ६२३॥
हंसभ्रमरिकावेलहंसकृष्णहरिस्मरः ।
हंसतूलिकाशायिश्रीराममिष्टलालिगः ॥ ६२४॥
हंसरामपरब्रह्मतत्त्वार्थबोधकीर्तनः ।
हरिरामावतारस्वादुकीर्तनसुरागगः ॥ ६२५॥
हरिकाम्भोजिरागश्रीहरिकीर्तनहृद्गलः ।
हरिपादाब्जसुखकष्टस्वैकगतिगायनः ॥ ६२६॥
हरिकेदारगौलश्रीरामपरत्वसूचनः ।
हरिनामसुमामोदहरिशायनलालिगः ॥ ६२७॥
हरिकेदारगौलश्रीहरिनामसुगाहरः ।
हरिकेशवगोविन्दमाधवानादगाहरिः ॥ ६२८॥
हरिनारायणागाननामसँल्लीनसद्गुरुः ।
हरिकीर्तनतेजस्वी शिरस्स्पर्शितसत्पदः ॥ ६२९॥
हरिध्यानसुतीर्थाभिषिक्तश्रीपवराकृतिः ।
हरिनामसुमाराधितश्रीरामस्वराकृतिः ॥ ६३०॥
हरिनामसुगानश्रीहरिसेवनगायनः ।
हर्यन्तरङ्गसंदर्शनावनीजासपूजनः ॥ ६३१॥
हाटकद्युतिसीतापशृङ्गाररामचिन्तनः ।
हाटकस्फुरसत्कीर्तनानुभूतस्वरामकः ॥ ६३२॥
हिन्दोलगीतनादाद्रिदीपश्रीमुरलीधरः ।
हिमाद्रिज्ञानसद्भक्तिगङ्गाप्रवहकीर्तनः ॥ ६३३॥
हेमगङ्गास्रवागीतरामाद्वितीयमाहिनः ।
हेमहेमवतीगङ्गासारसद्गानवर्षकः ॥ ६३४॥
हैममानसपीठश्रीरामनामसुमार्चनः ।
हैमनस्वादुसत्कीर्तनरागजितरामकः ॥ ६३५॥
हृदयङ्गमसत्कीर्तनावलीवाससद्गुरुः ।
हृदन्तरङ्गसुस्फोटरागपुष्पावलीनुतः ॥ ६३६॥
नादब्रह्मरसाकाररामगानरसाकृतिः ।
नामरूपादिसर्वस्वरामैक्यगुरुदैवतः ॥ ६३७॥
त्यागगङ्गानिमग्नैकशिष्याश्रुगङ्गिकाप्लुतः ।
रागगङ्गाप्लवापूतश्लोकपुष्पावलीनुतः ॥ ६३८॥
त्यागराजगुरुस्वामिकृतिरागाक्षरावली ।
गुरुदेवपदाम्भोजशिष्यापुष्पासमर्पिता ॥ ६३९॥
गुरुस्फूर्तिस्फुटस्तोत्रं गुरुसम्पूर्णवासनम् ।
नादयोगिगुरुस्वामिपूर्णानुग्रहकारकम् ॥ ६४०॥
रागमूर्ते गुरुस्वामिन् रागाक्षरसुमालिक ।
न जानामि क्वचिल्लेखां त्वयैव रचितं शुभम् ॥ ६४१॥
मदाश्रयसदाचार्य देहि मे तव दर्शनम् ।
मदन्तःसततावास अग्रयागच्छ मद्गुरो ॥ ६४२॥
देवगान्धर्वगानं ते श्रोतुमिच्छामि मत्प्रभो ।
रक्तिरागलयज्ञानभिक्षां देहि मम प्रभो ॥ ६४३॥
रागानुरागसद्गानपूजावरं प्रदेहि मे ।
नादोपासनभाग्यं च कुरु मे नादसात्मताम् ॥ ६४४॥
मङ्गलं ते मदाचार्य मङ्गलं मार्गदर्शक ।
मङ्गलं मम सर्वस्व मङ्गलं मङ्गलप्रभो ॥ ६४५॥
मङ्गलं त्यागराजाय रागराजाय मङ्गलम् ।
मङ्गलं रागदैवाय गुरुनाथाय मङ्गलम् ॥ ६४६॥
मङ्गलं त्यागराजाय मङ्गलं नादयोगिने ।
मङ्गलं रामगेयाय मङ्गलं सर्वसिद्धये ॥ ६४७॥
मङ्गलं रागरामाय त्यागराजार्चिताय च ।
मङ्गलं नादलोलाय सीतारामाय मङ्गलम् ॥ ६४८॥
ॐ
शुभमस्तु ।
॥ सद्गुरु मङ्गलाष्टकम् ॥
सप्तस्वरसुरूपाय सङ्गीतावतराय च ।
षड्जादिस्वरसेव्याय सद्गुरवे सुमङ्गलम् ॥ १॥
ऋषभारूढनगजोक्तस्वरार्णवगाय च ।
ऋषिवन्द्यस्वरामानुरागगेयाय मङ्गलम् ॥ २॥
गङ्गाजनकपादाब्जनुतिगानाय मङ्गलम् ।
गङ्गास्नानफलादायगागङ्गाय सुमङ्गलम् ॥ ३॥
मङ्गलप्रदसीतारामसद्भक्ताय मङ्गलम् ।
मङ्गलाचार्यदेवाय मङ्गल्यगाय मङ्गलम् ॥ ४॥
पञ्चमारामगानाय पञ्चापगाय मङ्गलम् ।
पञ्चमीतिथिपूज्याय गुरुदेवाय मङ्गलम् ॥ ५॥
धनस्वरामदैवाय धनेप्सालोपयोगिने ।
धनकीर्तनधेयाय त्यागराजाय मङ्गलम् ॥ ६॥
निर्मलाचार्यदेवाय निर्मलाच्युतवन्दिने ।
निर्मलामोदपुष्पावल्यामोदिताय मङ्गलम् ॥ ७॥
सत्सङ्गरामदैवाय सङ्गीतयोगनिष्ठये ।
सङ्गीतस्वरमिष्टाय सद्गुरवे सुमङ्गलम् ॥ ८॥
ॐ
शुभमस्तु ।
Encoded and proofread by
N V Vathsan nvvathsan at gmail dot com
Radhika Vathsan radhika vathsan at gmail dot com
Translation is available in the linked PDF file.
Copyright Pushpa Srivatsan