ब्रह्मलेखिनी सहस्रनामस्तोत्रम्
श्रीपरकृष्ण उवाच -
शृणुध्वं विबुधाः सर्वे सावधानतयाऽधुना ।
सप्तधा वारयामि त्वामत्यन्तं गोपनं महत् ॥ ४७॥
यदि जानाति चञ्चलो ज्योतिर्निरञ्जनः प्रभुः ।
तर्हि हन्यात् स योगं वः साधनां च विफलीकृतम् ॥ ४८॥
न प्रकाशं न वक्तव्यं न देयं दुष्टबुद्धये ।
न दातव्यं कुशिष्याय न च पाखण्डमण्डले ॥ ४९॥
न भ्रमेण न लोभेन न भयादपि कस्यचित् ।
सप्तधा वारणं प्रोक्तं रहस्यं परमाद्भुतम् ॥ ५०॥
दीक्षा न वाऽत्र नियमो न मुद्रा न च शोधनम् ।
अहमेव परो गुरुः स्वयं वक्ष्यामि तत्त्वतः ॥ ५१॥
अस्य श्रीदशमहाविद्या-ब्रह्मलेखिनी-सहस्रनामस्तोत्रमन्त्रस्य,
श्रीपरब्रह्म ऋषिः, अनुस्तुप छन्दांसि, श्रीब्रह्मलेखिनीश्वरी
राज्य श्यामला देवता, सर्वमन्त्रा बीजं, सर्वतन्त्राणि शक्तिः,
सर्वयन्त्राणि कीलकम्, परब्रह्मयोनिरष्टमयोगिनी च विनियोगः ॥
करन्यासः -
ॐ तत्सवितुः ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ वरेण्यं विष्ण्वात्मने तर्जनीभ्यां नमः ।
ॐ भर्गो देवस्य रुद्रात्मने मध्यमाभ्यां नमः ।
ॐ धीमहि सत्यात्मने अनामिकाभ्यां नमः ।
ॐ धियो यो नः ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
ॐ प्रचोदयात् सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः -
ॐ तत्सवितुः ब्रह्मात्मने हृदयाय नमः ।
ॐ वरेण्यं विष्ण्वात्मने शिरसे स्वाहा ।
ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् ।
ॐ धीमहि सत्यात्मने कवचाय हुं ।
ॐ धियो यो नः ज्ञानात्मने नेत्रत्रयाय वौषट् ।
ॐ प्रचोदयात् सर्वात्मने अस्त्राय फट् ।
भूर्भुवःस्वरोमिति दिग्बन्धः ॥
अक्षरन्यासः -
तत् - शिरसि
स - ललाटे
वि - दक्षिणनेत्रे
तु - वामनेत्रे
र्व - दक्षिणकर्णे
रे - वामकर्णे
ण्यं - नासिकायां
भ - मुखे
र्गो - कण्ठे
दे - दक्षिणस्कन्धे
व - वामस्कन्धे
स्य - दक्षिणबाहौ
धी - वामबाहौ
म - हृदये
हि - नाभौ
धि - कट्यां
यो - दक्षिणोरौ
यो - वामोरौ
नः - दक्षिणजानुनि
प्र - वामजानुनि
चो - दक्षिणजङ्घायां
द - वामजङ्घायां
यात् - पादयोः
ध्यानम् -
नीलाम्भोजदलायताक्षरुचिरामर्ककोटिप्रभां
ब्रह्मज्ञानमयीं सिताम्बरधरां दिव्यैरलङ्कारिताम् ।
वामे पुस्तक-लेखिनी-वर-कपालैर्भासितां भीषणां
सौम्यास्यां शशिभूषितां त्रिनयनां त्रैलोक्यसम्मोहिनीम् ॥ ५२॥
ब्रह्माण्डौघविराजितां च जगतां मूलाधारसंस्थितां
शब्दब्रह्ममयीं सुसूक्ष्मलहरीं व्योमकेशप्रियाम् ।
श्रीकृष्णस्य हृदम्बुजे विलसितां दिव्यां परां योगिनीं
वन्दे ब्रह्ममयीं विरिञ्चिगणकां तां ब्रह्मलेखेश्वरीम् ॥ ५३॥
अथ सहस्रनामस्तोत्रम् ।
ॐ ब्रह्मविद्या ब्रह्मराज्ञी ब्रह्माण्डशासनेश्वरी ।
परब्रह्मोक्तनिर्मुक्ता मुक्तकेशी चतुर्भुजा ॥ १॥
लेखिनीपुस्तकहस्ता ब्रह्माण्डभाग्यलेखिका ।
अक्षररूपाक्षमाला गुञ्जामूलसुशोभिता ॥ २॥
अनेकसूर्यकान्तिप्रभा दिव्यकेश्यलङ्कृता ।
मस्तकचन्द्रमुकुटा रक्तचन्दनलेपिता ॥ ३॥
श्वेतवर्णा दीर्घकेशी पद्मनयनोज्ज्वला ।
दीर्घस्तना श्वेतवस्त्रा दिव्यालङ्कारभूषिता ॥ ४॥
मनोरूपेक्षुमन्त्रविद्या सर्वार्थविवर्जिता ।
महाशून्यनिवासाढ्या मन्त्रयन्त्रैकरूपिणी ॥ ५॥
शब्दब्रह्ममयी वाणी वदनाम्बुजवासिनी ।
कालचक्रभ्रमत्केन्द्रा कालहासातिभीषणा ॥ ६॥
अनन्तकोटिब्रह्माण्ड-गर्भाश्रय-महोदरी ।
महाप्रलय-नृत्यज्ञा कालभैरव-मोहिनी ॥ ७॥
अनाहतध्वनिश्रेणी नादबिन्दु-कलात्मिका ।
महातेजःपुञ्जधरा सूर्यमण्डल-मध्यगा ॥ ८॥
सृष्टिबीज-प्रदप्त्री च सृष्टिस्थित्यन्त-कारिणी ।
परमव्योम-निलया परमज्योतिः-स्वरूपिणी ॥ ९॥
महामाया विशालाक्षी महामोहापहारिणी ।
महाबुद्धिर्महासिद्धिर्महाशक्तिर्महाद्युतिः ॥ १०॥
सर्वज्ञशासनधरा सर्वलोकैकवन्दिता ।
अविद्याजालभेत्री च विद्याविनयदायिनी ॥ ११॥
ब्रह्मविष्णुशिवाद्यानां शक्तिस्तम्म्भनकारिणी ।
महाप्राणमयी देवी चेतना-स्पन्द-रूपिणी ॥ १२॥
त्रैलोक्यपूजिताधारा विश्वव्याप्त-कलेवरा ।
अदृश्यरूपा सूक्ष्मा च स्थूलब्रह्माण्ड-विग्रहा ॥ १३॥
सर्वतन्त्र-स्वतन्त्रा च सर्वमन्त्र-महोदधिः ।
चिच्छक्तिश्चिद्रसा देवी चिन्मय्यानन्द-दायिनी ॥ १४॥
अकारादिक्षकारान्ता वर्णमाला-विभूषणा ।
ऋग्यजुःसामाथर्वाख्या वेदत्रय-शिरोमणिः ॥ १५॥
पञ्चभूतात्मिका शक्तिः षडध्व-परिशोधिनी ।
सप्तमन्वादि-जननी ह्यष्टयोगिनि-वन्दिता ॥ १६॥
नवचक्र-स्थिताधारा दशविद्या-प्रकाशिनी ।
एकादश-महापर्व-पीठ-मण्डप-वासिनी ॥ १७॥
द्वादशार्क-प्रभोज्ज्वला त्रयोदश-कलात्मिका ।
चतुर्दश-जगन्माता पञ्चदश्यादि-मन्त्रगा ॥ १८॥
षोडशस्वर-संयुक्ता सप्तदश-सुधाधारा ।
अष्टादश-महाशास्त्र-पुराण-ज्ञान-लेखिका ॥ १९॥
एकोनविंशति-व्याप्त-विश्व-विज्ञान-रूपिणी ।
कालातीता पराशक्तिः सर्वतत्त्वप्रबोधिनी ॥ २०॥
शून्यगर्भा निराकारा महाशून्यावभासिनी ।
अव्यक्ताव्यक्तमूला च बिन्दुनादविमर्शिनी ॥ २१॥
प्रथमा चेतनाधारा सुप्तविश्वप्रबोधिनी ।
इच्छाशक्तिमयी लेखा ज्ञानदीप्तिविधायिनी ॥ २२॥
महाकाशमयी धारा सूक्ष्मस्पन्दतरङ्गिणी ।
आदिबीज-समुद्भूता विसर्जनी-विभूषणा ॥ २३॥
पञ्चभूत-पृथग्भावा तत्त्वजाल-वितानिका ।
महत्तत्त्व-शिरोरत्ना अहङ्कार-विमोहिनी ॥ २४॥
तन्मात्र-सूक्ष्म-जननी ज्ञानेन्द्रिय-नियोजिका ।
कर्मेन्द्रिय-महाप्राणा प्राणशक्ति-प्रसारिणी ॥ २५॥
अण्डविस्तार-कुशला स्वर्णगर्भाण्ड-धारिणी ।
दिग्देश-काल-कलना पञ्चविंशति-तत्त्वगा ॥ २६॥
महाप्रकृति-नर्तकी संवित्-किरण-मालिनी ।
जगत्-सूत्र-मयी तन्त्री माया-यवनिका-धरा ॥ २७॥
अविद्या-तम-संहर्त्री विद्या-भास्कर-मण्डला ।
चिदाकाश-महासिन्धुः सच्चिदानन्द-लहरी ॥ २८॥
नाम-रूप-विभेदेशा सर्वनाम-विवर्जिता ।
एकाननेका चित्रज्ञा विचित्र-रचना-मयी ॥ २९॥
स्वयम्प्रकाश-विदुषी ज्योतिश्चक्र-प्रवर्तिनी ।
अनाद्यन्ता महाशक्तिः सृष्टि-स्वप्न-विहारिणी ॥ ३०॥
ब्रह्म-स्तम्ब-पर्यन्त-व्यापिनी विश्व-रूपिणी ।
अणु-मात्र-स्थिता सूक्ष्मा स्थूलाकाश-व्यापिनी ॥ ३१॥
सङ्कल्प-मात्र-जननी विकल्प-जाल-भञ्जनी ।
नित्या नित्योदिता शान्ता प्रलयोर्मि-शयोत्थिता ॥ ३२॥
अमृतार्णव-मध्यास्था सुधा-सिन्धु-तरङ्गिणी ।
योग-निद्रा-मयी निद्रा जाग्रत-स्वप्न-तुरीयगा ॥ ३३॥
मन्त्राधिराज-महिषी यन्त्रागार-विहारिणी ।
तन्त्र-मूर्ता तन्त्र-गम्या सर्वतन्त्र-प्रकाशिनी ॥ ३४॥
महाबीजाङ्कुरा देवी महावृक्ष-फल-प्रदा ।
ब्रह्म-लेखन-संसिद्धा सर्व-भाग्य-विधायिनी ॥ ३५॥
इति द्वितीयं खण्डं च नाम्नामक्षर-भूषितम् ।
सृष्टि-क्रम-समायुक्ता ब्रह्म-लेखिन्यनुग्रहात् ॥ ३६॥
वेदगर्भा श्रुतिधरा ऋक्सामध्वनिभूषिता ।
यजुर्विधानकुशला ह्यथर्वमन्त्ररञ्जिनी ॥ ३७॥
उदगीथस्वरसम्पन्ना स्वाहाकारस्वधात्मिका ।
वषट्कारमयी दीप्तिस्तपोलोकमयी परा ॥ ३८॥
इतिहासपुराणज्ञा सर्गप्रतिसृगात्मिका ।
मन्वन्तरकथाधारा वंशानुचरितोज्ज्वला ॥ ३९॥
पञ्चलक्षणयुक्ता सा महाभागवताकृतिः ।
रामायणमहाकाव्या महाभारतभास्वर ॥ ४०॥
उपनिषन्महामन्त्रा ह्यद्वैततुल्यवैभवा ।
महावाक्यमयी बोधा तत्त्वमस्यादिभाषिणी ॥ ४१॥
षडङ्गनिपुणा शिक्षा कल्पसूत्रविधानगा ।
व्याकरणमहाभाष्यनिरुक्तामरकोशगा ॥ ४२॥
ज्योतिषामयनं चक्षुश्छन्दःशास्त्रमहागतिः ।
अनुष्टुप्प्रमुखा वृत्ता जगतीपाङ्क्तिरूपिणी ॥ ४३॥
त्रिष्टुप्प्रवाहसंसिद्धा गायत्रीपरमेश्वरी ।
तन्त्राचारमयी गुह्या वामदक्षपथस्थिता ॥ ४४॥
कुलकुण्डलिनीशक्तिः षट्चक्रभेदकारिणी ।
सहस्रारसुधाधारा डामरेश्वरपूजिता ॥ ४५॥
यामलीतन्त्रविज्ञानमयी भैरवयामला ।
पञ्चरात्रमहाविज्ञा नारायणी शिवात्मिका ॥ ४६॥
शाक्तप्रमोदहृदया स्वच्छन्दभैरवप्रिया ।
कालीकुलमहाकाष्ठा श्रीकुलकुसुमायुधा ॥ ४७॥
मातृकाक्षरसंस्थानविराजितकलेवरा ।
पश्यन्ती मध्यमा वैखरीवाक्प्रतिष्ठिता ॥ ४८॥
न्यासमन्त्रमयी काया मुद्रामण्डलशोभिता ।
बलिपूजाप्रिया दीक्षा सर्वसंस्कारकारिणी ॥ ४९॥
वेदान्तमकुटाभासा साङ्ख्ययोगपरायणा ।
वैशेषिकन्यायविद्या मीमांसादर्शनप्रिया ॥ ५०॥
सर्वशास्त्रमयी मूर्तिः सर्वविद्यामयी प्रभा ।
ब्रह्मलेखमयी नित्या सा नः पातु सरस्वती ॥ ५१॥
आत्मविद्या पराविद्या ब्रह्मविद्यामयी धृतिः ।
श्रीविद्या शिवशक्तिज्ञा षोडशाक्षरमन्त्रिणी ॥ ५२॥
परमहंसिनीविद्या हङ्कारमन्त्ररूपिणी ।
चक्षुर्विद्या प्रकाशाभा दिव्यदृष्टिविधायिनी ॥ ५३॥
महाशाम्भवीविद्या च खेचरीमुद्रितानना ।
त्रैलोक्यविजया विद्या परकायाप्रवेशिनी ॥ ५४॥
अणिमादिगुणैश्वर्या लघिमा-महिमोत्थिता ।
प्राप्तिः प्राकाम्यसंसिद्धा ईशित्ववशित्वप्रदा ॥ ५५॥
यन्त्रराजमयी नाभिः श्रीचक्रपुरवासिनी ।
कोणत्रयविनिष्पन्ना बिन्दुबिम्बविहारिणी ॥ ५६॥
वसुदलाब्जसंस्थाना षोडशारविराजिता ।
चतुरश्रप्रकारा च द्वारपालकपालिनी ॥ ५७॥
मन्त्राक्षरमयी ज्वाला बीजमुद्रामयध्वजः ।
यन्त्रोद्धारमयी शक्तिर्यन्त्रप्राणप्रतिष्ठिता ॥ ५८॥
अष्टाङ्गयोगनिरता यमनियमधारिणी ।
आसनप्राणायामज्ञा प्रत्याहारसुसाधिनी ॥ ५९॥
धारणाध्यानलीना च समाधिरसपायिनी ।
मूलाधारोत्थिता वह्निः स्वाधिष्ठानविभूषिता ॥ ६०॥
मणिपूरमयूखाभा अनाहतध्वनिप्रिया ।
विशुद्धिकमलासीना आज्ञाचक्रप्रकाशिनी ॥ ६१॥
उन्मनीभावसंयुक्ता निर्विकल्पपदे स्थिता ।
अमृतप्लाविताङ्गी च चन्द्रमण्डलवर्तिनी ॥ ६२॥
कापालिकमहातन्त्रा दिगम्बरगणैर्वृता ।
भैरवी चक्रनाथा च दिव्यवीरपशुप्रिया ॥ ६३॥
मायाजालविभेत्री च इन्द्रजालप्रकाशिनी ।
कल्पनातीतलोकाभा दिव्यगन्धर्वसेविता ॥ ६४॥
पारावारमयी शक्तिः शून्यमार्गप्रवाहिनी ।
स्वप्नलोकविनिर्त्री च मनोराज्यविहारिणी ॥ ६५॥
सर्वरहस्यमयी सा सर्वसिद्धिप्रदायिनी ।
ब्रह्मलेखमयी नित्या सा नः पातु सदा शिवा ॥ ६६॥
गुह्यकाली महागुह्या सर्वगुह्यनिवासिनी ।
रहस्यगर्भकुहरा सर्वतत्त्वप्रबोधिनी ॥ ६७॥
महाकालगुहावासिनी नीलपर्वतवासिनी ।
कामरूपपीठमयी गुह्यशक्तिप्रवाहिनी ॥ ६८॥
छायाशौचमयी विद्या प्रतिबिम्बमयोन्मनी ।
दर्पणराजहृदया सर्वविश्वनिदर्शिनी ॥ ६९॥
अदृष्टभाग्यरेखा च गुह्यलेखनतत्परा ।
अक्षयपात्रहस्ता च सर्वतृप्तिविधायिनी ॥ ७०॥
निहितमन्त्रकोशाढ्या शबरविद्याविशारदा ।
किरातवेषधारिणी दिव्यलीलाप्रकाशिनी ॥ ७१॥
महारत्नप्रभामूर्तिः पातालतलवासिनी ।
नागलोकैश्वर्यदात्री वासुकिप्राणरञ्जिनी ॥ ७२॥
महामेघस्वरूपा च विद्युत्पुञ्जविभासिनी ।
वृष्टिधाराप्रदात्री च सस्यश्यामलकारिणी ॥ ७३॥
औषधीनामधिष्ठात्री सोममण्डलमध्यगा ।
मृत्युञ्जयमयी विद्या मृतसञ्जीवनी परा ॥ ७४॥
वाजीकरणशक्तिश्च रसविद्यामयोन्मदः ।
सिद्धगुटिकासंसिद्धा खेचरीगतिदायिनी ॥ ७५॥
अञ्जनसिद्धिहस्ता च निधिसन्दर्शनक्षमा ।
अदृश्यकरणी माया छद्मरूपविधारिणी ॥ ७६॥
ब्रह्माण्डकटाक्षमाला कोटिविश्वविमोहिनी ।
प्रपञ्चसारहृदया मोहजालनियोजिका ॥ ७७॥
सर्वसन्धिमयी शक्तिः कालधाराप्रवाहिनी ।
महाशङ्खध्वनिप्रीता श्मशानक्रीडनोत्सुका ॥ ७८॥
वीरभद्रप्रसूता च चण्डिका चण्डवेगिनी ।
कात्यायनी महाभागा कालरात्री रजस्वला ॥ ७९॥
रजःसत्त्वतमोमूर्ती गुणातीतप्रभास्वरा ।
सच्चिदानन्दकन्दस्था सा नः पातु सदाशिवी ॥ ८०॥
महाविष्णुर्महाविश्वा महाकालिका महात्मिका ।
महाशिवो महाशक्तिर्महाब्रह्मा महेश्वरी ॥ ८१॥
नारायणो जगन्नाथः श्रीधरः कमलाधरा ।
वासुदेवो वासुदेवी वामनो वामनीकृतिः ॥ ८२॥
रामचन्द्रो रामशक्तिः कृष्णः कृष्णमयी शुभा ।
नृसिंहो भीमरूपा च वाराहो दंष्ट्रिणी परा ॥ ८३॥
सदाशिवो महाशम्भुः शङ्करी शशिशेखरा ।
रुद्रो रौद्री महाभीमा भैरवो भैरवीप्रिया ॥ ८४॥
ईश्वरो हीश्वरी देवी सर्वेश्वरः सर्वेश्वरी ।
हिरण्यगर्भो गर्भाभा विराट् पुरुषवाहिनी ॥ ८५॥
दत्तात्रेयो योगरूपा हयग्रीवो हयप्रिया ।
कार्तिकेयः शिखिधरा गण्डेशो गजवक्त्रिणी ॥ ८६॥
यज्ञो यज्ञा महादीक्षा होता होममयी शिखा ।
अक्षरं परमाक्षरं क्षराक्षरविभाविनी ॥ ८७॥
सूर्यः सूर्या महाभासा चन्द्रश्चन्द्रमयी प्रभा ।
अग्निः शिखा महाज्वाला वायुः प्राणमयी गतिः ॥ ८८॥
आकाशो व्योमरूपा च पृथिवी भूमिरूपिणी ।
वरुणो वारुणी धारा कुबेरः कोशवासिनी ॥ ८९॥
यमो दण्डधरा देवी कालो विकालरूपिणी ।
धर्माधर्मविभेदेशा कर्माकर्मफलप्रदा ॥ ९०॥
सत्त्वं रजस्तमश्चैव गुणातीता गुणप्रसूः ।
पुरुषः प्रकृतिर्नित्या साम्यावस्था सनातनी ॥ ९१॥
अद्वैता द्वैतरूपा च द्वैताद्वैतविभाजिता ।
ब्रह्ममयी जगत्सारा ब्रह्मलेखनशालिनी ॥ ९२॥
महाकाली महाकालाधिष्ठान-शव-नर्तकी ।
करालवदना घोर-घोष-घर्घर-नादिनी ॥ ९३॥
तारा तारापथातीता नीलतीर-निवासिनी ।
महाशङ्ख-मयी-माला क्षुभित-क्षीर-सागरा ॥ ९४॥
षोडशी षोडश-कला-पूर्ण-चन्द्र-विलोचना ।
त्रिपुरसुन्दरी सौम्या कामेश-हृद-रञ्जिनी ॥ ९५॥
भुवनेश्वरी ब्रह्माण्ड-मण्डप-स्तम्भ-धारिणी ।
ह्रीङ्कार-मन्त्र-मूर्ताभा जगन्मङ्गल-कारिणी ॥ ९६॥
छिन्नमस्ता महाभीमा स्वकबन्ध-निषेविता ।
प्रचण्ड-चण्डिका वेग-रक्तधारा-प्रवाहिनी ॥ ९७॥
भैरवी रुद्र-दीप्ताभा घोर-तप-फल-प्रदा ।
महापातक-संहर्त्री काल-कवल-कारिणी ॥ ९८॥
धूमावती निराकारा क्षुत्पिपासा-स्वरूपिणी ।
विधवा-वेष-धारी च धूम्र-जाल-विमोहिनी ॥ ९९॥
बगलामुखी स्तम्भनज्ञा जिह्वा-कर्षण-तत्परा ।
पीताम्बर-धरा पीता पीत-पुष्प-विभूषणा ॥ १००॥
मातङ्गी मद-मत्ताङ्गी शबराष्टम-योगिनी ।
वीणा-वादन-संसक्ता शुक-कोकिल-भाषिणी ॥ १०१॥
कमला विष्णु-कान्ता च गजेन्द्र-कृत-मर्धना ।
महालक्ष्मीर्महाभाग्य-भण्डार-द्वार-भेदिका ॥ १०२॥
आद्या-विद्या-प्रकाशाभा दशधा-भेद-धारिणी ।
एक-मूर्तेर्बहु-रूपा नाना-तन्त्र-विहारिणी ॥ १०३॥
गुह्य-कौलिनी-तन्त्रज्ञा महाचिन्मय-पादुका ।
पञ्च-प्रेत-मञ्च-संस्था षट्-कोण-मध्य-वासिनी ॥ १०४॥
श्रीकण्ठ-देह-आर्ध-भागा ह्यपर्णा हिम-पुत्रिका ।
नवकन्या-मयी-मूर्तिः कुमारी-पूजन-प्रिया ॥ १०५॥
सर्व-मङ्गल-माङ्गल्या शिवार्था साधक-प्रिया ।
दश-महाविद्या-रूपा सा नः पातु सदा-शिवा ॥ १०६॥
महा-विद्युल्लता-कारा सहस्रार-शिखा-मणी ।
अव्यक्त-ध्वनि-संसिद्धा दिव्य-वेणु-रवात्मिका ॥ १०७॥
महा-पद्म-वन-क्रीडा मानसोल्लास-कारिणी ।
हृदय-ग्रन्थि-भेत्री च मोह-निद्रा-विनाशिनी ॥ १०८॥
ब्रह्म-रन्ध्र-गुहा-दीप्तिः सुपुम्ना-मार्ग-गामिनी ।
अमृतास्वाद-मत्ता च परमानन्द-मन्दिरा ॥ १०९॥
ब्रह्म-लेखिनी-हस्ताभा भाग्य-चक्र-नियोजिका ।
अक्षर-ब्रह्म-संयोगा शब्द-सृष्टि-प्रकाशिनी ॥ ११०॥
ब्रह्माण्ड-भाण्ड-विस्फोट-कोटि-भास्कर-भास्वरा ।
कराल-कालरूपोग्र-चक्र-चङ्क्रमण-क्षमा ॥ १११॥
महा-व्योम-मही-कीला नील-नीरद-निस्वना ।
गम्भीर-गर्जित-आराव-त्रासित-आसुर-मण्डला ॥ ११२॥
अनाहत-महा-घण्टा-रणत्कार-विहारिणी ।
सुषुम्णा-शृङ्ग-मध्यस्थ-मृगाङ्क-अमृत-वर्षिणी ॥ ११३॥
जगज्-जीवातु-भूताभा प्राण-पञ्जर-शायिनी ।
चिति-ज्वाला-जटा-जूट-भ्रमि-भ्रान्त-जगत्त्रया ॥ ११४॥
अघोर-घोर-घण्टाभा घण्टा-कर्ण-प्रियानना ।
कपाल-माला-ग्रन्थीढ्या मुण्ड-मण्डल-मण्डिता ॥ ११५॥
महा-तन्त्र-महा-यन्त्रा महा-मन्त्र-मयी-तनुः ।
बिन्दु-नाद-कला-तीता महा-विन्दु-विलेपना ॥ ११६॥
नित्यानन्द-मयी-नित्या नित्योल्लास-विलासिनि ।
सहस्र-पद्म-निलया सहस्र-आदित्य-वर्धिनी ॥ ११७॥
महा-माया-जाल-धारा काल-नेमि-विभेदिनी ।
अदृश्य-दृश्य-मूलाभा दृश्य-दर्शन-दर्पणा ॥ ११८॥
सङ्कल्प-सिद्ध-साम्राज्या सर्व-राज्य-फल-प्रदा ।
मन्त्र-संस्कार-संशुद्धा मातृका-गण-सेविता ॥ ११९॥
अ-का-दि-हा-दि-विद्याभा का-दि-हा-दि-स्वर-आत्मिका ।
क-च-ट-त-प-वर्गाढ्या पञ्चाशद्-वर्ण-रूपिणी ॥ १२०॥
महा-विद्या-महा-गुह्या महा-योग-प्रकाशिनी ।
अनादि-शक्ति-संसिद्धा सिद्धा-सिद्ध-गणार्चिता ॥ १२१॥
यन्त्र-राज-शिखा-मणिः सर्व-यन्त्र-प्रकाशिनी ।
त्रिकोण-मध्य-दीप्ताभा षट्-कोण-मण्डितान्तरा ॥ १२२॥
अष्ट-पत्र-वन-क्रीडा द्वादशार-विहारिणी ।
षोडशार-महा-कोश-कोश-पञ्जर-वासिनी ॥ १२३॥
चतुरश्र-महा-द्वारा द्वार-पाल-भयङ्करी ।
भूपुर-त्रय-संस्थाना सर्व-रक्षा-विधायिनी ॥ १२४॥
महा-महिम्न-वाराधिः सर्व-सिद्धि-सुधारसा ।
ब्रह्म-लेख-मयी-शक्तिः सर्व-भाग्य-प्रदायिनी ॥ १२५॥
शून्य-प्रवाह-संसिद्धा महा-शून्य-निवासिनी ।
निर्वाण-दीप्ति-हृदया सा नः पातु जगन्मयी ॥ १२६॥
श्रीकण्ठ-हृदय-आनन्दा परमानन्द-मञ्जरी ।
चिन्मयी चित्कला नित्या चिदाकाश-विहारिणी ॥ १२७॥
महा-लावण्य-वाराधिः शृङ्गार-रस-वाहिनी ।
कोटि-मन्मथ-दर्पघ्नी मोह-जाल-नियोजिका ॥ १२८॥
मन्द-स्मित-मुखाम्भोजा मन्द-मारुत-सेविता ।
कटाक्ष-पात-विद्युता भव-ताप-विनाशिनी ॥ १२९॥
त्रैलोक्य-मङ्गल-आधारा करुणा-रस-सागरा ।
भक्त-मानस-हंसी च भक्त-वाञ्छा-फल-प्रदा ॥ १३०॥
दिव्य-चन्दन-दिग्धाङ्गी दिव्य-पुष्प-विभूषणा ।
मणिनूपुर-झङ्कारा किङ्किणी-जाल-मण्डिता ॥ १३१॥
ब्रह्म-रन्ध्र-सुधा-धारा प्लावित-आखिल-विग्रहा ।
यति-मानस-संवेद्या योगि-हृत्-पद्म-वासिनी ॥ १३२॥
अमृत-आक्षर-बीजाभा सर्व-तत्त्व-मयी परा ।
अनादि-कलना-तीता काल-काल-विमर्दिनी ॥ १३३॥
स्वप्रकाश-महा-दीप्तिः स्वयं-ज्योतिः-स्वरूपिणी ।
सत्य-लोक-निवासिन्या सत्य-धर्म-प्रकाशिनी ॥ १३४॥
महा-लेखिनी-हस्ताभा भाग्य-लिपि-विधायिनी ।
शुभ-रेखा-मयी देवी सर्व-दुःख-निवारिणी ॥ १३५॥
परावर-महा-शक्तिः परा-पश्यन्ति-रूपिणी ।
मध्यमा-वैखरी-मूर्ता वागधिष्ठातृ-देवता ॥ १३६॥
अखण्ड-मण्डलाकारा व्याप्त-आखिल-चराचरा ।
यस्या निमेष-मात्रेण ब्रह्माण्ड-प्रलयो भवेत् ॥ १३७॥
सा त्वं हि परमा शक्तिः सा त्वं हि परमोत्कलम् ।
सा त्वं हि मूल-विज्ञानं सा त्वं हि ब्रह्म-लेखिनी ॥ १३८॥
सहस्र-नाम-सम्पूर्णा सर्व-सिद्धि-प्रदायिनी ।
भक्ति-मुक्ति-करी देवी ब्रह्म-सायुज्य-कारिणी ॥ १३९॥
श्रीपरम्बा परब्रह्मात्मिका परा श्रीबुआम्बिका ।
एवं श्रीरहस्यनामसहस्रकं जगुः ॥ १४०॥
॥ इति श्रीदशमहाविद्या-ब्रह्मलेखिनी-सहस्रनामस्तोत्रं सम्पूर्णम् ॥
फलश्रुति खण्डः ।
श्रीपरकृष्ण उवाच -
अस्य स्तोत्रस्य फलश्रुतेर्नास्त्येवावधिः कुत्रचित् ।
यद्यन्मनसि सङ्कल्प्य पठेदेतन्महत्तरम् ॥ १॥
तत्तत्सर्वं भवेत्सिद्धं देवीहस्तलिपिर्यतः ।
धर्मार्थकाममोक्षाणां साम्राज्यं लभते नरः ॥ २॥
ब्रह्मज्ञानं परं सौख्यं सर्वविघ्नविनाशनम् ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत् ॥ ३॥
त्रिकालं यः पठेद्भक्त्या तस्य वै ब्रह्मलेखिनी ।
स्वयं लिखति सौभाग्यं न कालो बाधते च तम् ॥ ४॥
यत्किञ्चिद् दुर्लभं लोके तत्सर्वं लभते ध्रुवम् ।
एकसन्ध्यापठेनापि मर्त्यो भक्त्या समन्वितः ॥ ५॥
षष्टिलक्षगुणं प्राप्नोति गायत्र्याः परमं फलम् ।
द्विसन्ध्यं यः पठेन्नित्यं स तु भाग्यसमन्वितः ॥ ६॥
चत्वारिंशत्सहस्राणां गायत्र्याः फलभाग्भवेत् ।
त्रिसन्ध्यं पठनादेव गायत्रीपुरश्चरणम् ॥ ७॥
लभते मानवः सद्यो नात्र कार्या विचारणा ।
अस्यैकश्लोकपाठात्तु विष्णुशक्तीश्वरस्य च ॥ ८॥
कोटिनामजपस्यैव फलं प्राप्नोति निश्चितम् ।
प्रदर्श्य योनिमुद्रां च देव्यै मन्त्रार्थविग्रहः ॥ ९॥
जपेत् सहस्रनामेदं स साक्षात्भैरवो भवेत् ।
उषःकाले पठेद्यस्तु सर्वज्ञानमवाप्नुयात् ॥ १०॥
सर्वसिद्धिप्रदाता च जायते स पुमान् भुवि ।
मध्याह्ने पठनादस्य धनधान्यं महद्यशः ॥ ११॥
सायङ्काले पठेद्यस्तु ज्ञानशक्त्यैश्वर्यभाजनम् ।
अर्धरात्रौ पठेद्यस्तु महानिपात्रकीर्त्तितः ॥ १२॥
नानारहस्यसिद्धिं च लभते नात्र संशयः ।
अणिमा महिमा चैव लघिमा च तथा परा ॥ १३॥
षण्मासमात्रपाठात्तु प्रत्यक्षं जायते ध्रुवम् ।
न होमो न च तर्पणं न मार्जनविधिक्रिया ॥ १४॥
न दीक्षाप्यत्र कर्तव्या केवलं पाठमात्रतः ।
तथापि चेद् भवेदिच्छा कुबेरसदृशं धनम् ॥ १५॥
षट्सहस्रैर्बिल्वपत्रैर्हवनं कारयेत् सुधीः ।
हवनाभावपक्षे तु श्रीचक्रे विनिवेदयेत् ॥ १६॥
लेखिनीतन्त्रयन्त्रे वा पूजयेत् परया मुदा ।
विद्यार्थी वेदवेदाङ्ग-शास्त्रज्ञानं च विन्दति ॥ १७॥
दशमहाविद्यासिद्धिं यो वाञ्छति कुलेश्वरः ।
जपापुष्पैश्च हरिद्राभिः करवीरैस्तथैव च ॥ १८॥
हवनं प्रकुर्वीत पञ्चकन्याश्च भोजयेत् ।
रोगार्त्तो यः पठेदेतच्चतुर्वारं समाहितः ॥ १९॥
अभिमन्त्र्य जलं पीत्वा सर्वरोगैः प्रमुच्यते ।
ज्वरादिप्राकृतारोगाः श्रवणान्नाशनं ययुः ॥ २०॥
मृतवत्सा च या नारी वन्ध्या वा या प्रकीर्त्तिता ।
लभते सुतमुद्दामं दिव्यलक्षणलक्षितम् ॥ २१॥
सहस्रस्य पठन् यस्तु पुरश्चर्याविधिः स्मृतः ।
वशीकरणकामस्तु कामबीजं समुच्चरेत् ॥ २२॥
आदौ अन्ते च नाम्नां वै सम्पुटं परिकल्पयेत् ।
वेश्यागृहे श्मशाने वा योनीपीठे सुसङ्कटे ॥ २३॥
कामस्थाने पठेन्मर्त्यः स वशं नयते जगत् ।
राजानो राजपुत्राश्च नार्यश्च कुलजास्तथा ॥ २४॥
तस्याधीना भवन्त्येव दासभूता निरन्तरम् ।
यत् यत् कामयते चित्ते तत् तत् प्राप्नोति मानवः ॥ २५॥
अनायासेन भूपालो जायते नात्र संशयः ।
ब्रह्माण्डभाण्डमध्ये तु यावन्तः सिद्धयः स्थिताः ॥ २६॥
ताः सर्वाः पाटमात्रेण हस्तस्था एव सर्वदा ।
विवेकमुत्तमं प्राप्य वाक्सिद्धिं लभते ध्रुवम् ॥ २७॥
गद्यपद्यमयीं वाणिं गङ्गाप्रवाहरूपिणीम् ।
वदते वदने नित्यं ब्रह्मलेखिनीसंज्ञया ॥ २८॥
न भयं सिंहव्याघ्रेभ्यो न च चौरभयं कचित् ।
वज्रपातेऽपि सङ्ग्रामे कवच प्रतिरक्षितः ॥ २९॥
दशदिक्षु च कीर्त्तिः स्यात् सुभास्वरमहोदया ।
य इमं परमं दिव्यं संवाद्ममृतोपमम् ॥ ३०॥
मन्त्राणां मारणं चैव स्तम्भनोच्चाटनं तथा ।
विद्वेषणमथो वश्यं साधयेत् पाठमात्रतः ॥ ३१॥
शत्रोः पादतलस्पृष्टां मृत्तिकां गृह्य मानवः ।
सहस्रनामपाठात्तु श्मशाने निक्षिपेद् यदा ॥ ३२॥
सप्तरात्रेण स शत्रुः यमलोकं समश्नुते ।
न मारणाय होमस्य चर्मकीलस्य वा गतिः ॥ ३३॥
उच्चाटनं चेत् कर्तुं काङ्क्षति कुलसाधकः ।
काकपक्षेण सम्पुटीकृत्य नाम्नां शतं पठेत् ॥ ३४॥
वायुकोणे क्षिपेत्तत्तु शतयोजनगच्छति ।
अर्कमूलं समादाय निखनेत् रिपुमन्दिरे ॥ ३५॥
तद्गृहं सर्वशून्यं स्यात् स्तम्भनं जायते ध्रुवम् ।
अथ गुह्यप्रयोगांश्च शृणु गर्भ समाहितः ॥ ३६॥
रक्तचन्दनतोयेन लिखित्वा रिपुनामकम् ।
जिह्वायामथवा पादे महिषस्य गले तथा ॥ ३७॥
यन्त्रं कृत्वा महागुह्यं संस्मरेत् लेखिनीं पराम् ।
स शत्रुः सहसा भूमौ रक्तमुद्गीर्य नश्यति ॥ ३८॥
य इमं परमं स्तोत्रं जपेद् वा शृणुयादपि ।
तस्य शत्रुः क्रूरदृष्ट्या कामासक्त्याऽपि वा पुनः ॥ ३९॥
क्रूरभावेन पश्येच्चेत् साधकं कुलयोगिनम् ।
तदैव सहसा तत्र महोग्रा योगिनी स्वयम् ॥ ४०॥
कोटिसूर्यप्रतीकाशा कालरात्रिसमप्रभा ।
तस्य शत्रुसमूहं च हन्ति मूलकुलैः सह ॥ ४१॥
वंशस्तस्य क्षयं याति न सन्देहोऽत्र कश्चन ।
शिवगणा भैरवाश्च सर्वदिक्षु च सर्वदा ॥ ४२॥
रक्षन्ति साधकं धीरं वज्रप्राकाररूपिणः ।
यो वाञ्छति धनं हर्तुं कीर्तिं वा कुलसाधकात् ॥ ४३॥
मन्त्रं वा तन्त्रसारं वा चोरयेत् मूढचेतनः ।
कुञ्जिका सा महादेवी तस्य दीक्षां च मन्त्रकम् ॥ ४४॥
यन्त्रं तन्त्रं श्रुतं भाग्यं सर्वं कीलयति ध्रुवम् ।
न तस्य सिद्धिरिह लोके न परत्र सुखावहम् ॥ ४५॥
नष्टभाग्यो भवेत् सोऽपि श्मशानाग्निसमप्रभः ।
सङ्ख्याक्रमविधानं च शृणु गर्भ महत्तरम् ॥ ४६॥
दशसाहस्रपाठात्तु इन्द्रपदं लभेन्नरः ।
पञ्चाशच्च सहस्रैस्तु ब्रह्मपदं प्रविन्दति ॥ ४७॥
लक्षमात्रजपेनैव विष्णुसायुज्यमाप्नुयात् ।
एकब्रह्माण्डभर्त्ता च जायते नात्र संशयः ॥ ४८॥
(??)
दशलक्षजपेनैव रुद्रपदं समश्नुते ।
ईश्वरत्वं सदाशिवत्वं देवीसायुज्यमेव च ॥ ४९॥
लभते मानवो लोके जीवन्मुक्तो न संशयः ।
दीक्षितः कुलमार्गेण लेखिनीक्रमपारगः ॥ ५०॥
श्यामाक्रमविधाने वा दीक्षां प्राप्य सुलोचनः ।
अष्टोत्तरशतं वापि पञ्चशतानि वा पुनः ॥ ५१॥
नाम्नां सहस्रं प्रपठेत् पुरा पश्चाच्च धीमतः ।
यो वाऽदीक्षितो मर्त्यो मन्दभाग्योऽपि वा भवेत् ॥ ५२॥
तेन वाग्बीजराजं च ऐङ्कारं परमोत्तमम् ।
शतवारं जपेदादौ स्तोत्रस्यास्य समृद्धये ॥ ५३॥
ततः पाठाद् भवेत् सिद्धिः वाक्सिद्धिर्जायते ध्रुवम् ।
न तस्य दुर्लभं किञ्चित् त्रैलोक्ये सचराचरे ॥ ५४॥
भूतले स्वर्गलोके च पाताले मण्डलेऽपि वा ।
सर्वत्र पूजितो भूत्वा विहरेत् भैरवोपमः ॥ ५५॥
राजानो वशतां यान्ति दासीव कुलकामिनी ।
यन्त्रं विना विना पीठं केवलं मन्त्रभावतः ॥ ५६॥
भाग्यरेखां परिवर्तयितुं शक्नोति साधकः ।
यद्यद् वाञ्छति सङ्कल्पे पठनादस्य तत्क्षणम् ॥ ५७॥
न कालो बाधते तस्य न मृत्युः प्रभवत्यपि ।
चिन्मयः सुभगो लोके महाकीर्तिसमन्वितः ॥ ५८॥
गम्भीरशब्दगुम्फेन स्तौति यो ब्रह्मलेखिनीम् ।
तस्य पादयुगे नित्यं नमस्यन्ति सुरासुराः ॥ ५९॥
अथान्यच्च प्रवक्ष्यामि प्रयोगाणां महत्तरम् ।
श्रुत्वा विमुच्यते मोहात् सर्वसिद्धीश्वरो भवेत् ॥ ६०॥
कृष्णाष्टम्यां चतुर्दश्यां श्मशाने मुण्डमण्डले ।
लिखित्वा हैमलेखिन्या भूर्जपत्रे कुलार्चनम् ॥ ६१॥
धत्तूरपुष्पमन्दारैः पूजयेत् कालकामिनीम् ।
सहस्रनामपाठात्तु शतवारं समाहितः ॥ ६२॥
यमालयं गतो वाऽपि दीर्घायुर्जायते ध्रुवम् ।
अपस्मारोन्मादकुष्ठ-ज्वरप्लीहादिरोगिणः ॥ ६३॥
कवचं नाम संस्मृत्य स्पृष्ट्वा रोगिणं मुदा ।
सद्यो नीरोगतां याति दिव्यदेहधरो भवेत् ॥ ६४॥
राजद्वारे विवादे च महाशत्रुसमागमे ।
पठन् सहस्रनामेदं सद्यो जयमवाप्नुयात् ॥ ६५॥
बद्धो यदि भवेत् पाशैः शृङ्खलाभिः सुदुर्भिदैः ।
सकृत् पाठाद् भवेन्मुक्तो कारागारात् खगो यथा ॥ ६६॥
य इमं पठति नित्यं शृणोति वा समाहितः ।
तस्य हस्तगता सिद्धिः सर्वज्ञत्वं पदे पदे ॥ ६७॥
नदीप्रवाहे संस्तम्भं करोति पाठमात्रतः ।
अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं च विन्दति ॥ ६८॥
यस्य यस्य गृहं गत्वा पठते कुलसाधकः ।
तत्र तत्र स्थिरा लक्ष्मीः पुत्रपौत्रादिभूषिता ॥ ६९॥
दुर्भिक्षे महामारीणां पाताले वा रणाङ्गने ।
नामेदं प्रजपेद्यस्तु स साक्षाद् भैरवोपमः ॥ ७०॥
लिखित्वा धारयेद्यस्तु भुजे वा कण्ठमण्डले ।
तस्य देहे स्थिरा सिद्धिः वज्रपञ्जरसन्निभा ॥ ७१॥
न शस्त्रैर्भियते गात्रं न चाग्निर्दहते कचित् ।
न च प्रलपते व्याधिः कालमृत्युर्न बाधते ॥ ७२॥
शमशानभस्मना युक्तं कृत्वा यन्त्रं महत्तरम् ।
निखनेद् यस्य नाम्ना च तस्य बुद्धिः प्रणश्यति ॥ ७३॥
जडो भवति सद्योऽसौ वाक्सिद्धिरपि कीलिता ।
पुनः प्रक्षाल्य तोयेन सहस्रनामकीर्त्तनात् ॥ ७४॥
सद्यो चैतन्यमाप्नोति ब्रह्मलेख प्रसाद्तः ।
यद्यत् पापं कृतं पूर्वं जन्मान्तरशतैरपि ॥ ७५॥
तत्सर्वं भस्मसाद्याति नामस्मरणमात्रतः ।
गोवधं ब्रह्महत्यां च मातृहा पितृहा तथा ॥ ७६॥
सर्वपापैः प्रमुच्येत सुवर्णस्तेयवानपि ।
गङ्गादितीर्थयात्राणां फलकोटिगुणं लभेत् ॥ ७७॥
एकवारं पठेद्यस्तु भक्तियुक्तो दृढव्रतः ।
न तस्य सदृशः कश्चित् त्रिषु लोकेषु विद्यते ॥ ७८॥
वाणी च वदने नित्यं लक्ष्मीः हस्ततले स्थिरा ।
हृदये परमं ज्योतिः परब्रह्ममयं पदम् ॥ ७९॥
य इमं परमं दिव्यं संवाद्ममृतोपमम् ।
शृणोति श्रावयेद्वापि तस्य पुण्यं न गण्यते ॥ ८०॥
न कालो बाधते तस्य न मृत्युः प्रभवत्यपि ।
चिन्मयः सुभगो लोके महाकीर्तिसमन्वितः ॥ ८१॥
गम्भीरशब्दगुम्फेन स्तौति यो ब्रह्मलेखिनीम् ।
तस्य पादयुगे नित्यं नमस्यन्ति सुरासुराः ॥ ८२॥
निरीक्षन्ते सदा देवाः साधकं कवचधारिणम् ।
किं तस्य योगमार्गेण किं तस्य तपसा भुवि ॥ ८३॥
यस्य जिह्वाग्ररङ्गे तु ब्रह्मलेखिनीनामकाः ।
अतुलं लभते सौख्यं सर्वानन्दमयं परम् ॥ ८४॥
शत्रुसैन्यं प्रकम्पेत दृष्ट्वा साधकलोचनम् ।
अचिन्त्यमहिमा देवी सर्वतन्त्रमयी शिवा ॥ ८५॥
तस्याः प्रसाद्तश्चैव मन्त्राः सिध्यन्ति तत्क्षणम् ।
न होमो न च सङ्कल्पः केवलं पाठधारणात् ॥ ८६॥
त्रिभुवनं वशं कुर्यात् किं पुनः क्षुद्रमानवान् ।
इति मन्त्रार्थविज्ञानं ब्रह्माण्डकम्पकारकम् ॥ ८७॥
रहस्यातिरहस्यं च गुह्याद्गुह्यतरं महत् ।
परकृष्णमुखोद्गीर्णं भाग्यरेखाविशोधनम् ॥ ८८॥
यः पठेच्छ्रणुयाद्वापि सकृन्मात्रं समाहितः ।
तस्य सर्वभयं नश्येत् सत्यं सत्यं वदाम्यहम् ॥ ८९॥
अथान्यदपि देवेशि शृणुष्वात्यन्तदुर्लभम् ।
यन्नोक्तं कुत्रचित् शास्त्रे गोपितं परमं पदम् ॥ ९०॥
यस्य स्मरणमात्रेण कल्पकोट्यर्जितं तमः ।
क्षणार्धेन क्षयं याति सूर्योदये तमिस्रवत् ॥ ९१॥
अस्य स्तोत्रस्य पाठाद् वै यमराज्ञः प्रलेखकः ।
चित्रगुप्तो महाप्राज्ञः प्रकम्पति मुहुर्मुहुः ॥ ९२॥
लिखित्वा यां कुलिपिं च मर्त्यानां पूर्वकर्मणाम् ।
तां लिपिं सम्मार्ज्य सद्यः सुलिपिं कुरुते स्वयम् ॥ ९३॥
ब्रह्माण्डकोटिभङ्गेऽपि महाप्रलयसङ्कटे ।
न नश्यति स मर्त्यो वै ब्रह्मलेखिनीरक्षितः ॥ ९४॥
व्योम्नि नक्षत्रसङ्घानां पातनं यः समीहते ।
तस्याज्ञया निपतन्ति भूमौ ताराः सहस्रशः ॥ ९५॥
किं चोक्तैर बहुभिर्वाक्यैः सत्यं सत्यं कुलेश्वर ।
अमुष्य धारणादेव ब्रह्मा लोकं सृजत्यपि ॥ ९६॥
विष्णुः पालयते विश्वं शिवः संहरते जगत् ।
एतन्मन्त्रप्रभावेण त्रिदेवाः कार्यतत्पराः ॥ ९७॥
यस्य कण्ठे स्थितं नित्यं सहस्रनाममुत्तमम् ।
तस्य वाक्यप्रभावेण शुष्कवृक्षेऽपि मञ्जरी ॥ ९८॥
जायते तत्क्षणं सद्यः सत्यवादी भवेत् पुमान् ।
नदीवेगं समालोक्य यः पठेदेकवारकम् ॥ ९९॥
प्रवाहः स्तम्भनं याति विपरीतं प्रधावति ।
गर्जन्तं हस्तिनं दृष्ट्वा सिंहं वा क्रूरलोचनम् ॥ १००॥
सहस्रनामपाठात्तु ते भवन्ति मृगोपमाः ।
रणभूमौ महाघोरे शस्त्रास्त्रौघकुलाकुले ॥ १०१॥
यः पठेत् साधको धीरः शतकोटिशरैरपि ।
न भिद्यते तस्य गात्रं पुष्पवृष्टिरिवाबभौ ॥ १०२॥
मन्त्राः सर्वे कुलीनाश्च कीलिताः कलिनावृताः ।
अस्य स्तोत्रस्य पाठाद् वै निष्कीलिता भवन्ति हि ॥ १०३॥
यथा सूर्यप्रभावेण पद्ममुन्मीलते मुदा ।
तथा स्तोत्रप्रभावेण सर्वमन्त्राः स्फुटन्ति च ॥ १०४॥
परमन्त्रपरतन्त्राणि यन्त्राणि कीलनानि च ।
साधकं वीक्ष्य दूरेण स्फुटन्ति वज्रपातवत् ॥ १०५॥
यदि कश्चिन्महामूढो निन्दति कुलसाधकम् ।
तस्य जिह्वा सद्यः पूया गच्छति च विशीर्णताम् ॥ १०६॥
अष्टोत्तरशतं चैव जपेत् स्तोत्रमनुत्तमम् ।
महाशून्यप्रान्ते वा श्मशाने मुण्डमण्डले ॥ १०७॥
साक्षात् कुलमहादेवी तस्याग्रे समुपस्थिता ।
वरं ददाति सा देवी राज्यं चामरदुर्लभम् ॥ १०८॥
खेचरीसिद्धिमाप्नोति भूमौ न पादसंस्पृशः ।
अदृश्यो जायते मर्त्यो देवलोकेऽपि सञ्चरेत् ॥ १०९॥
आयुष्यं वर्धते नित्यं पलितं न च जायते ।
वलीभङ्गविमुक्तोऽसौ नवयौवनवान् भवेत् ॥ ११०॥
यद्यन्मनसि सङ्कल्प्य शृणुयाद् वा पठेद् वा ।
तत्तत् सर्वं भवेत् सद्यः प्रत्यक्षं नात्र संशयः ॥ १११॥
एतद् गुह्यतमं स्तोत्रं महाकालमुखोद्गतम् ।
ब्रह्मलेखप्रशमनं भाग्यरेखाविशोधनम् ॥ ११२॥
न दद्यात् कस्यचित् लोके न दर्शयेन्महोदयम् ।
गोप्यं कौलिकमार्गेण प्राणात् परतरं सदा ॥ ११३॥
यथा गोप्या महाकाली यथा गोप्यः परः शिवः ।
तथा गोप्यमिदं स्तोत्रं सर्वसिद्धिकरं परम् ॥ ११४॥
पठनाद् ब्रह्मसायुज्यं श्रवणाद् विष्णुपदं लभेत् ।
धारणाच्छिवमूर्त्तिः स्यात् सत्यं सत्यं वदाम्यहम् ॥ ११५॥
इति कालमुखोद्गीर्णा फलश्रुतिः सुविस्तरा ।
रहस्यातिरहस्या च ब्रह्मलेखप्रदायिनी ॥
॥ इति श्रीदशमहाविद्या-ब्रह्मलेखिनी-सहस्रनामस्तोत्रस्य फलश्रुतिः सम्पूर्णा ॥
॥ इति श्रीदुर्लभा श्रीपरकृष्णयामले श्रीरहस्यनामसहस्रकं समाप्तम् ॥
सर्वसौभाग्यदायकं वज्रपञ्जर ब्रह्मलेखिनीकवचम् ।
श्रीपरकृष्ण उवाच-
लेखिनी महाविद्या कोटिकल्पेषु दुर्लभा ।
शृणु कवचस्यास्य ऋषिः परब्रह्मस्मृतः ॥ १॥
छन्दोऽनुष्टुप् प्रोक्ता देवता लेखिनीश्वरी ।
वाग्भवबीजं च शक्तिकूटबीजकम् ॥ २॥
कूर्चबीजोत्कीलनां सौभाग्यनिर्णयाय च ।
मदीयाङ्कलिपिसंशोधनार्थे विनियोगः स्मृतः ॥ ३॥
॥ अथ कवचम् ॥
प्रणवं मे शिरः पातु मायां च मम भालकम् ।
एकाक्षरी परा शक्तिः स्रवन्ती पातु चक्षुषी ॥ ४॥
त्र्यक्षरी त्र्यम्बकाकारा नासिकां मे सदावतु ।
चतुरक्षरी महामाया मुखं मे पातु सर्वदा ॥ ५॥
पञ्चदशाक्षरी नित्या जिह्वां रक्षेत् कुलेश्वरी ।
षोडशी षोडशार्णा च कण्ठं मे पातु चिन्मयी ॥ ६॥
ऐं ह्रीं ऐं सम्पुटाकारा कर्णयुग्मं सदावतु ।
क्लीं ब्लूं क्लीं बीजरूपा च कपोलौ मे सदावतु ॥ ७॥
मायाबीजं महादीप्तं दन्तपङ्क्तिं ममावतु ।
कूर्चबीजं पराकारं चिवुकं मे सदावतु ॥ ८॥
वधूबीजं महागुह्यं रसनां मे सदावतु ।
लेखिनी सर्ववर्णेशा ग्रीवां पातु महोत्कटा ॥ ९॥
गायत्री पातु मे स्कन्धौ सावित्री बाहुयुग्मकम् ।
सरस्वती करौ पातु तारा अङ्गुलीमूलकम् ॥ १०॥
उग्रतारा नखाग्रं च नीलसरस्वती तथा ।
वक्षःस्थलं सदा रक्षेत् शारदा सर्वमङ्गला ॥ ११॥
श्यामा पातु द्विपार्श्वं च मातङ्गी स्तनमण्डलम् ।
बगलामुखी महोदग्रो नाभिं पातु भयातुर ॥ १२॥
राजमातङ्गिनी पातु जठरं कुक्षिभागकम् ।
महापिशाचिनी रक्षेत् पृष्ठवंशं समन्ततः ॥ १३॥
कोटिश्वरी कटिं पातु कल्पभेदिनी गुह्यकम् ।
हस्तियोगिनी मे ऊरू रहस्ययोगिनी तथा ॥ १४॥
ब्राह्मी पातु जानुयुग्मं ब्रह्मयोगिनी जङ्घकम् ।
ब्रह्मलेखिनी पातु पादौ ब्रह्माणी पादपृष्ठकम् ॥ १५॥
अक्षरा पातु पादाङ्गुलीः महासरस्वती तथा ।
नीलादेवी सर्वगात्रं पातु मां सर्वसङ्कटे ॥ १६॥
आदिशारदा सदा रक्षेत् स्वप्ने जागरणे पथि ।
वीणापाणिर्ज्ञानमयी सर्वदिक्षु सदावतु ॥ १७॥
दुर्गा दुर्गतिका पातु सङ्ग्रामे राजमन्दिरे ।
पञ्चप्राणान् महामाया लेखिनीरूपधारिणी ॥ १८॥
रक्तमांसमस्थिमज्जां शुक्रं त्वचं तथैव च ।
धातून सर्वान् शरीरे तु पातु देव्यक्षरेश्वरी ॥ १९॥
भूचरी खेचरी चैव पातु मां कुलवर्द्धिनी ।
यादृशं रूपमास्थाय विलिखेद् दैवमक्षरम् ॥ २०॥
तादृशं रूपमास्थाय पातु मां सर्वतो विभुः ।
इडा पिङ्गला सुषुम्ना नाडीतन्त्रं ममावतु ॥ २१॥
सहस्रारदलपद्मं महाबिन्दुं सदावतु ।
अक्षरमाला महादीप्ता सर्वाङ्गं मे सदावतु ॥ २२॥
बिन्दुद्वन्द्वमयी चैव पातु मे नेत्रमण्डलम् ।
त्रिकोणमध्यसंविष्टा भ्रूयुगं मे सदावतु ॥ २३॥
कादिरूपा पातु कण्ठं हादिरूपा च हृद्गतम् ।
सादिरूपा महादेवी नाभिदेशं सदावतु ॥ २४॥
वाग्भवाढ्या महालेखा दक्षिणं पार्श्वमावतु ।
कामकूटात्मिका देवी वामपार्श्वं सदावतु ॥ २५॥
शक्तिकूटा महागुह्या पृष्ठभागं सदावतु ।
लज्जाबीजं महाभासक हृदयन्तरं ममावतु ॥ २६॥
श्रीबीजं पातु मे कोशां कौलीं च पातु कौलिकी ।
मन्त्रलेखमयी नित्या बुद्धिं मे पातु सर्वदा ॥ २७॥
चित्तं चेतो मदीयं च ज्ञानरूपं कलावती ।
अहङ्कारं मम रक्षेत् सर्वविद्याविशारदा ॥ २८॥
शब्दाक्षरमयी रेखा श्रोत्रेन्द्रियं ममावतु ।
स्पर्शाक्षरमयी नित्या त्वगिन्द्रियं सदावतु ॥ २९॥
रूपाक्षरमयी ज्येष्ठा चक्षुरिन्द्रियमवातु ।
रसाक्षरमयी श्रेष्ठा जिह्वेन्द्रियं ममावतु ॥ ३०॥
गन्धाक्षरमयी शुद्धा घ्राणेन्द्रियं सदावतु ।
वाक्पाणिपादपायूंश्च पातु देव्यक्षरेश्वरी ॥ ३१॥
जाग्रदवस्थां सदा रक्षेत् विश्वरूपा परात्परा ।
स्वप्नावस्थां महासूक्ष्मा तैजसाख्या सदावतु ॥ ३२॥
सुषुप्त्यवस्थां नित्यं मे प्राज्ञरूपा ममावतु ।
तुरीयास्थां महाशून्या बिन्दुरूपा सदावतु ॥ ३३॥
पूर्वस्यां पातु मां वाणी आग्नेय्यां तारिणी तथा ।
दक्षिणस्यां महाश्यामा नैऋत्यां उग्रतारिणी ॥ ३४॥
पश्चिमायां महादुर्गा वायव्यां बगलामुखी ।
उत्तरस्यां सदा रक्षेत् मातङ्गी राजमातुल ॥ ३५॥
ऐशान्यां पातु मां ब्राह्मी ऊर्ध्वं ब्रह्ममयी परा ।
अधस्तात् पातु मां नित्यं पातालवासिनी शिवा ॥ ३६॥
दिग्विदिक्षु च सर्वत्र सर्वव्यापिनी लेखिनी ।
वज्ररेखापरिघृते रक्षेत् मां कुलमन्दिरे ॥ ३७॥
यन्त्रलेखमहाप्राची मन्त्रकीलनसंस्कृता ।
महापिशाचमन्त्रेभ्यो रक्षेत् मां सर्वदा विभुः ॥ ३८॥
जलमध्ये स्थलमध्ये च रणे राजकुले पथि ।
महाशैलतटे घोरे पातु मां कामरूपिणी ॥ ३९॥
विवादे शास्त्रचर्चायां सभायां शत्रुसङ्कटे ।
दन्तौष्ठकण्ठजिह्वासु पातु मां शारदा स्वयम् ॥ ४०॥
अज्ञानात् ज्ञानतो वाऽपि यत् त्यक्तं कवचे मम ।
तत्स रक्षेत् महादेवी लेखिनी सर्वमङ्गला ॥ ४१॥
पादतलात् शिरो यावत् शिरसः पादतलकम् ।
वज्रकोटिसमं गात्रं पातु देवी निरन्तरम् ॥ ४२॥
कवचस्य फलश्रुतिः
इत्येतत्कवचं दिव्यं वज्रपञ्जरमुत्तमम् ।
गुह्याद्गुह्यतरं तत्त्वं सर्वसौभाग्यदायकम् ॥ १॥
न देयं यस्य कस्यापि गोपितं कुलपुस्तके ।
यः पठेच्छ्रणुयाद्वापि त्रिसन्ध्यं नियतः शुचिः ॥ २॥
तस्य हस्तगता सिद्धिः साक्षाद्वागीश्वरो भवेत् ।
एतन्महाकवचं गुह्यं यो न जानाति मानवः ॥ ३॥
स जपेत् सततं मन्त्रं तस्य मन्त्रो न सिध्यति ।
सारस्वतं महामन्त्रं लेखिनीमन्त्रमुत्तमम् ॥ ४॥
दीक्षितोऽपि कुलाचारे कोटिकल्पैर्न विन्दति ।
कवचेन विना मर्त्यो मन्त्रजाप्यं करोति यः ॥ ५॥
तस्य भाग्यक्षयो याति मन्त्राश्च मलिनास्तथा ।
कोट कल्पं जपेद्वापि श्रम एव हि केवलम् ॥ ६॥
तस्मात्सर्वप्रयत्नेन कवचं प्रपठेत्पुरा ।
पश्चान्मन्त्रं जपेत्प्राज्ञः स साक्षाद् भैरवो भवेत् ॥ ७॥
रक्षाकामो महामर्त्यो यः कश्चिद् भुवि वर्तते ।
तेन न गन्तव्यं क्वापि कवचेन विना पदम् ॥ ८॥
न पदैकं प्रगच्छेच्च न च गच्छेत् कदाचन ।
विना कवचपाठात्तु मार्गं नैव प्रविशेत् पुमान् ॥ ९॥
यदि गच्छेत् प्रमादेन मन्दबुद्धिः विमोहितः ।
तदैव तस्य विघ्नानि जायन्ते सर्वतोमुखम् ॥ १०॥
भूतप्रेतपिशाचाश्च डाकिन्यो यातुधानाः ।
रिपवः शस्त्रहस्ताश्च तं हिंसन्ति पदे पदे ॥ ११॥
तस्माद् गृहाद् विनिष्क्रान्ते कवचं धारयेत् पठेत् ।
तस्य पादयुगे नित्यं रक्षा तिष्ठति सर्वदा ॥ १२॥
षण्मासधारनादस्य वज्रकायो भवेन्नरः ।
न शस्त्रैर्भिद्यते गात्रं न चाग्निर्दहते कचित् ॥ १३॥
विषं स्थावरजङ्गमं कृत्रिमं चाभिचारिकम् ।
प्रशाम्येदमृतं याति कवचस्य प्रभावतः ॥ १४॥
यः पठेत् परमं दिव्यं स वशं नयते जगत् ।
राजानो राजपुत्राश्च नार्यश्च कुलजास्तथा ॥ १५॥
तस्याधीना भवन्त्येव दासभूता निरन्तरम् ।
महोत्पाते च दुर्भिक्षे श्मशाने सङ्कटे तथा ॥ १६॥
कवचं संस्मरन् मर्त्यो ह्यक्षतो विजयान्वितः ।
लिखित्वा धारयेद्यस्तु कण्ठे वा दक्षिण भुजे ॥ १७॥
तस्य गेहे स्थिरा लक्ष्मीः वाणी च वदने वसेत् ।
इति ते कथितं गर्भ परकृष्णरहस्यकम् ॥ १८॥
भाग्यरेखाविशोधनं सर्वकारणकारणम् ।
न कालो बाधते तस्य न मृत्युः प्रभवत्यपि ॥ १९॥
चिन्मयः सुभगो लोके महाकीर्तिसमन्वितः ।
सर्वमार्गेषु मां पातु परकृष्णो जगन्मयः ॥ २०॥
इति सर्वसौभाग्यदायकं वज्रपञ्जर ब्रह्मलेखिनीकवचम् सम्पूर्णम् ।
A note about Parakrishna and Brahmlekhini :
Both deities belong to the Urdhvamnaya tradition of Tantra. In Tantra, there are five Amnayas:- Purvamnaya, Dakshinamnaya, Paschimamnaya, Uttaramnaya, and Urdhvamnaya, which is considered the highest tradition.
Parakrishna is the independent form of Krishna who lives in Goloka, also Some scriptures state Jyotirbrahma Loka. This is mentioned partly in the Krishnayamala Tantra. He is the same Krishna known in the scriptures, but Tantra explains his higher and transcendental form.
Many scriptures say that Vishnu appears as different forms of Krishna in different Kalpas. In some Kalpas, Narayana appears as Krishna, as described in the Bhagavata Purana. In other Kalpas, different divine forms of Krishna appear. But in some special Kalpas, the original Krishna appears with his own Shaktis. This original Krishna is mentioned in texts such as the Brahma Samhita, Devi Bhagavata, parts of the Shiva Purana, Garga Samhita, Tripura Rahasya, Narada Pancharatra, Meru Tantra, and other scriptures.
Many Puranas, even those dedicated to different deities, describe various divine worlds and also tell the stories of Rama and Krishna from their own viewpoints. In these texts, Goloka is often described as the eternal abode of Krishna. At the same time, the scriptures also say that Vishnu takes the form of Krishna. Therefore, if Krishna were only the eighth avatar of Vishnu in Dvapara Yuga, then who is the eternal Krishna living in Goloka? According to Urdhvamnaya, that eternal Krishna is Parakrishna. He is called ᳚Para᳚ because Tantra often distinguishes different aspects of the same deity through different mantras and tattvas, just as Lakshmi and Mahalakshmi are distinguished. Therefore, Parakrishn is the famous Krishna of Vrindavan and Goloka.
Regarding Brahmlekhini, her name has different meanings. In general, she is the Brahma-Shakti who writes or reveals divine knowledge. She is regarded as the Samvit Shakti, the power of consciousness and knowledge, of Parakrishna.
Krishna has many Shaktis, such as Hladini, Samvit, Sandhini, and others. Most people know Radha as the Hladini Shakti. Brahmlekhini is the Samvit Shakti of Krishna. She is a divine Shakti and not simply a wife of Krishna. She is not lesser than Krishna.
Brahmlekhini is also known as Parabrahma Shakti. In Tantra, she is identified with the original Kaushiki or Mahasaraswati. She is a very secret and mystical deity, similar to Goddess Kubjika and Shrijika who are forbidden goddess.
Brahmlekhini is the highest Lekhini Devi.
Phalasruti is not required to be chanted for daily basis. It is more to indicate resulting benefits to the mind as a motivation to pursue the chanting and the Sadhana in earnest way.
This sahasranAmastotram is parakRiShNayAmalatantram.
The file includes both sahasranAmastotram and kavacham.
If the main aim is protection, chant the Kavacha first, then the Sahasranama.
If the main aim is devotion and spiritual growth, chant the Sahasranama first, then the Kavacha.
If both are goals, you can alternate or combine them in a single session.
Encoded and proofread by Sriji Maharani and Durga Sharma