गङ्गा महिमा अथवा गङ्गायात्रा विधि
गङ्गायात्रां चरेन्मर्त्यो मन उत्कण्ठते यदा ।
स्नात्वा देवानृषींश्चैव पितॄंश्चैव यमर्च्चयेत् ॥ १॥
पिधाय वाससी शुक्ले प्राणायामं समाचरेत् ।
मैथुनं कलहं हिंसां वर्जयेद्गाङ्गयात्रया ॥ २॥
वासश्च मलिनं नैव गृह्णीयाद्गाङ्गयात्रिकः ।
गुरुं गणेशं विष्णुञ्च शिवं दुर्गां सरस्वतीम् ॥ ३॥
गोब्राह्मणसतीश्चैव प्रणमेद्गाङ्गयात्रिकः ।
गुरवः पितरो देवा दिक्पालाश्च ग्रहास्तथा ॥ ४॥
ऋषयश्चारणाः सिद्धाः गन्धर्वाः किन्नरास्तथा ।
सर्वा देव्यश्च देवानां प्रणम्यन्ते मयाधुना ॥ ५॥
गङ्गास्नानार्थचात्राया भवन्तु मम साधकाः ।
इत्येवं मन्त्रमुच्चार्य्य गङ्गायात्रां समाचरेत् ॥ ६॥
गङ्गे देवि लोकमातर्विघ्नोत्सारिणि ते नमः ।
त्वद्दर्शनाय सद्यात्रां करोम्यत्रानुमोदय ॥ ७॥
इत्येवं मन्त्रमुच्चार्य्य गङ्गायात्रां समाचरेत् ।
विल्वञ्च तुलसीञ्चैव प्रणम्य भक्तिसंयुतः ॥ ८॥
विल्वपत्रमुपाघ्नाय गङ्गायात्रां समाचरेत् ।
शयने भोजने दाने पथि रात्रौ दिवा तथा ॥ ९॥
गङ्गा गङ्गेति संस्मृत्य कालं संयापयेन्नरः ।
गङ्गायात्रां समासाद्य पथि चेन्म्रियते जनः ॥ १०॥
गङ्गामृत्युफलं तस्य भवत्येव न संशयः ।
गङ्गाया दर्शने देवा आचरन्ति विरोधनम् ॥ ११॥
येनासाववगाह्यैनां नास्माभिः समतामियात् ।
कृतगङ्गार्थयात्रस्य शरीरे पापसञ्चयाः ॥ १२॥
भवन्ति विकलाः सर्वे तमांसीव क्षपात्यये ।
ते पि विघ्नानाचरन्ति येनासौ नैव गच्छतु ॥ १३॥
गङ्गाया वायुसंसर्गं प्राप्य पापैर्विमुच्यते ।
तदा विरोधं वै देवा आचरन्त्यस्य गच्छतः ॥ १४॥
गङ्गावायोस्तु संसर्गे पठेत्स्तवमिमं नरः ।
सर्वदेवेश्वरो येन परितुष्यति केशवः ॥ १५॥
स्वे महिम्नि स्थितं देवमप्रमेयमजं विमुम् ।
शोकमोहविनिर्मुक्तं ध्याये विष्णुं सनातनम् ॥ १६॥
आसनाद्यैरसंस्पृष्टं सेवितं योगिभिः सदा ।
निर्गुणं सर्वगं शान्तं ध्याये विष्णुं सनातनम् ॥ १७॥
सर्वदोषविनिर्मुक्तं सुप्रभावं सुनिर्मलम् ।
निष्कलं शाश्वतं देवं ध्याये विष्णुं सनातनम् ॥ १८॥
अतुलं सुखधर्माणां व्योमदेहं सनातनम् ।
धर्माधर्मसमायुक्तं ध्याये विष्णुं सनातनम् ॥ १९॥
क्षराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जनम् ।
अभयं सत्यसङ्कल्पं ध्याये विष्णुं सनातनम् ।
अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः ॥ २०॥
ज्ञेयाख्यं परमात्मानं ध्याये विष्णुं सनातनम् ।
व्यासाद्यैरृषिभिः सर्वैर्ध्यानयोगपरायणैः ॥ २१॥
अर्च्चितं भावकुसुमैर्ध्याये विष्णुं सनातनम् ।
विष्ण्वष्टकमिदं पुण्यं योगीनां हर्षदायकम् ॥ २२॥
यः पठेत्परया भक्त्या स विष्णुतुल्यतामियात् ।
विष्णुतुल्यस्तदा भूत्वा गङ्गां पश्येदनन्यथा ॥ २३॥
दृष्ट्वा गङ्गां महापुण्यां प्रणमेद्दण्डवन्मुदा ।
गङ्गे देवि जगन्मातः शिवशीर्षकृतालये ॥ २४॥
जन्मैतत्सफलम्मेऽस्तु भवतीं प्रणमाम्यहम् ।
एतेन खलु मन्त्रेण ह्यष्टाङ्गैः प्रणमेच्छिवाम् ॥ २५॥
स्मृतासि गङ्गे दृष्टासि स्पृशामि त्वां महेश्वरीम् ।
विष्णुदेहद्रवाकारे प्रसीद जगदम्बिके ॥ २६॥
एतेन खलु मन्त्रेण स्पृशेद्देवीं सनातनीम् ।
ततो द्विवासाः स्नायाच्च इष्टदेवप्रियार्थकः ॥ २७॥
मज्जन्ति येऽस्मिन्किल देहभाजो न ते निमज्जन्ति पुनर्भवाब्धौ ।
सोऽयं पुरस्तात्पयसां प्रभावो गङ्गेति यं गायति वेदवर्गः ॥ २८॥
आवाहनञ्च तीर्थानां नापेक्ष्यं जाह्नवीजले ।
निःसङ्कल्पोऽपियः स्नायात्स च पापैर्विमुच्यते ॥ २९॥
देवर्षिपितृलोकानां तर्पणं विधितश्चरेत् ।
सम्पूजयेदिष्टदेवं चिन्तान्तरपराङ्मुखः ॥ ३०॥
गङ्गातीरे वसेन्मर्त्यस्त्रिरात्रमपि नान्यथा ।
यं क्षणं तत्र वसति स एव सार्थकः क्षणः ॥ ३१॥
गमने प्रार्थयेद्देवीं पुनर्दर्शनकाम्यया ।
मात्रा पित्रा दुहित्रा वा भार्य्यापुत्रधनादिभिः ॥ ३२॥
त्यक्तस्य न तथा दुःखं यथा गङ्गावियोगजम् ।
नैव स स्यात्क्षणो ब्रह्मन्यत्र गङ्गा न विद्यते ॥ ३३॥
न गम्यते च देशोऽसौ यत्र गङ्गा न विद्यते ।
एकपादस्थितो यस्तु तपत्ययुतवत्सरान् ॥ ३४॥
दण्डमात्रन्तु गङ्गायां वसेत्स तु विशिष्यते ।
एवन्तु दण्डसङ्ख्याभिर्मासपक्षादिवासतः ॥ ३५॥
फलं दत्ते भगवती गङ्गावासिजनाय वै ।
यान्कालान्स्वर्धूनीतीरे वसेन्मर्त्यः समाहितः ॥ ३६॥
तावदेवास्य पितरो देवाश्च परितोषिताः ।
तावत्तु ब्रह्मचर्य्येण कालं संयापयेद्विज ॥ ३७॥
तावदेव परस्यान्नं न भुञ्जीत कदाचन ।
तैर्दत्तञ्च न गृह्णीयात्परनिन्दां न चाचरेत् ॥ ३८॥
गङ्गातीरस्थितो यस्तु परनिन्दां समाचरेत् ।
सर्वभूतमयो विष्णुस्तस्मै क्रुद्धेऽत् पराङ्मुखः ॥ ३९॥
गङ्गास्नानार्थमागत्य यो गृह्णाति गृहीजनः ।
तण्डुलं वा सुवर्णं वा वस्त्रादिं वा कदाचन ॥ ४०॥
न तस्य फलसिद्धिः स्यात्सम्यग्गङ्गा प्रयोजनम् ।
स पङ्गुः स सदा काणः स एव पापराशिमान् ॥ ४१॥
यो गङ्गानिकटं प्राप्य गङ्गास्नानमुपेक्षते ।
सायं प्रातश्च मध्याह्ने द्रष्टव्या तीरवासिभिः ॥ ४२॥
गङ्गातीराद्गतो दूरं न स्नात्वा यस्तु जाह्नवीम् ।
ब्रह्महयादिभिः पापैस्तत्क्षणात् स प्रलिप्यते ॥ ४३॥
गङ्गास्नानरतं मर्त्यं गङ्गातीरनिवासिनम् ।
पूजयित्वा यथान्यायमश्वमेधफलं लभेत् ॥ ४४॥
अगङ्गदेशवासी यो भग्नरागो द्विजर्षभ ।
न गङ्गामाश्रयेद्देवीं परः स विधिवञ्चितः ॥ ४५॥
ग्रामजनपदाः शैला आश्रमाः शुचयो हिते ।
येषां भागीरथी गङ्गा मध्ये याति सरिद्वरा ॥ ४६॥
मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ।
गङ्गां यः सेवते सोऽत्र बुद्धेः पारं परं गतः ॥ ४७॥
कृतपुण्या महात्मानो देवलोकप्रपूजिताः ।
सहस्रसूर्य्यप्रतिमां गङ्गां पश्यन्ति ते भुवि ॥ ४८॥
साधारणजलापूर्णां साधारणनदीमिव ।
पश्यन्ति नास्तिका गङ्गां पापोपहतलोचनाः ॥ ४९॥
अगङ्गवासं सन्त्यज्य यो गङ्गावासमाव्रजेत् ।
स हि बुद्धिमतां श्रेष्ठो देवैरपि सुदुर्लभः ॥ ५०॥
पैतृकी वसतिर्यस्य गङ्गातीरे द्विजर्षभ ।
मनुष्यचर्म्मणा नद्धः स शिवो नात्र संशयः ॥ ५१॥
गङ्गातीरनिवासाय कन्यां दत्ते तु यः शुभाम् ।
प्रत्यहं पितरस्तस्य गयाश्राद्धस्य भोगिनः ॥ ५२॥
गङ्गातीरनिवासाय यो भूमिं प्रददाति वै ।
स्वर्गराज्यं स भुङ्क्ते वै यावदिन्द्राश्चतुर्द्दश ॥ ५३॥
कृतापराधञ्च नरं गङ्गातीरनिवासिनम् ।
यस्ताड़येद्वचोदण्डैस्तस्य पापफलं शृणु ॥ ५४॥
विमुखास्तस्य वै देवाः पितरश्चाप्युपोषिताः ।
गङ्गा परित्यजेत्तं वै सोऽगतिश्चिरनारकी ॥ ५५॥
गङ्गातीरालयं मर्त्यं सूर्य्यतुल्यं य ईक्षते ।
तस्यैव विमलं चक्षुर्देवदर्शनसाधनम् ॥ ५६॥
गङ्गातीरालयान्लोकान्गङ्गालोकान्वदेत यः ।
स एवानुगृहीतः स्याद्गङ्गया द्विजपुङ्गव ॥ ५७॥
गङ्गातीरालयान्मर्त्यान्देवैरर्यान्कुधीर्जनः ।
मनुष्यबुद्ध्या पापिन्या जैमिने ह्यवमन्यते ॥ ५८॥
देवा मनुष्यरूपेण गङ्गातीरे चरन्ति वै ।
तस्मात्तान्नावमन्येत श्रेयोर्थी न कदाचन ॥ ५९॥
गङ्गातीरद्वये विप्र पिशाचाश्च शिवाज्ञया ।
कोटयः पञ्चलक्षाणि तिष्ठन्ति वायुरूपिणः ॥ ६०॥
शृणु तेषाञ्च कर्म्माणि यदर्थे ते निरूपिताः ।
ये तत्र पापकर्म्माणो गङ्गातीरे द्विजर्षभ ॥ ६१॥
त्यजन्ति विष्ठामूत्राणि श्लेष्मकेशनखादि च ।
तत्रैव तांस्ते सर्वाणि भोजयन्त्यनुरूपतः ॥ ६२॥
ये मिथ्यावादिनो दुष्टा गुरुसेवापराङ्मुखाः ।
वृथा हिंसारताः क्रूरा विश्वासघातिनस्तथा ॥ ६३॥
तांस्ते गङ्गापिशाचा वै मुमूर्षून्गाङ्गरोधसि ।
क्षेत्रान्नारायणान्नीत्वा स्थापयन्ति नभःस्थले ॥ ६४॥
शून्ये सन्त्यज्य प्राणांस्ते यान्ति दुर्गतिमुत्तमाम् ।
तन्न पश्यन्ति पापिष्ठाः पश्यन्ति दिव्यचक्षुषः ॥ ६५॥
जैमिने वर्णयाम्यस्य लक्षणानि निबोध मे ।
शनिमङ्गलवारे वा निशीथे लुप्तबोधनः ॥ ६६॥
विष्ठामूत्रं त्यजन्भूरि चिररोगी बहूनपि ।
वासरान्लुप्तसङ्गश्च सदाघूर्णितलोचनः ॥ ६७॥
ऊद्धर्वश्वासो हृष्टदेहो गतसर्वेन्द्रियाशयः ।
यो म्रियेत स एवायं पिशाचैर्यस्तु क्षिप्यते ॥ ६८॥
गङ्गाभैरवनामनः सन्त्यन्ये शिवकिङ्कराः ।
ते रक्षन्ति सदा गङ्गां नानारूपविहारिणः ॥ ६९॥
ते तु कुर्वन्ति कर्म्माणि तानि विप्र निबोध मे ।
यान्यदत्तानि पुष्पाणि नैवेद्यादीनि यानि च ॥ ७०॥
गङ्गाप्रवाहस्पृष्टानि गृहीत्वा तानि ते शिवाम् ।
पूजयन्ति महाभाग शिवविष्ण्वादिकानपि ॥ ७१॥
वस्त्रनिष्पीड़ैतं वारि त्यक्तं चाधोऽंशुकं जले ।
गृह्णन्ति शिरमा ते वै गङ्गापाताभिशङ्कया ॥ ७२॥
मदमात्सर्य्यहिंसादियुक्तान्दुष्टधियो जनान् ।
दूरीकुर्वन्ति ते देवा यत्ते स्युरन्यतो मृताः ॥ ७३॥
॥ इति गङ्गाज्ञानम् ॥
॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः ५५ - गङ्गाधर्मः ॥
Note: The text is about do-s and don't-s of
Ganga Yatra and also about phala of doing
certain karma there (mahimA).
Proofread by Ruma Dewan