लक्ष्मीसौभाग्यव्रतविधिनिरूपणम् १
वसन्तमासमासाद्य तृतीयायां तु शुक्लके ।
पूर्वाह्णे यजमानस्तु तिलैः स्नानं समाचरेत् ॥ ७४॥
सौभाग्या ललिता देवी वव्रे नारायणं तदा ।
तया सहैव मां नारायणं सम्पूजयेत् प्रगे ॥ ७५॥
तृतीयायां फलैः पुष्पैर्धूपैर्दीपैर्निवेदनैः ।
पञ्चगव्येन च तीर्थतोयैः संस्नापयेच्छ्रियम् ॥ ७६॥
नमो लक्ष्म्यै महालक्ष्म्यै ललितायै तु मस्तके ।
नमो देव्यै महादेव्यै ललितायै मुखे नमः ॥ ७७॥
नमो ब्राह्म्यै महाब्राह्म्यै वैष्णव्यै हृदये नमः ।
नमो मात्रे महामात्रे नारायण्यै तथोदरे ॥ ७८॥
नमः श्रियै महाश्रियै वासुदेव्यै कटिस्थले ।
नमो भाग्यै महाभाग्यै सौभाग्यायै उरौ नमः ॥ ७९॥
नमो भूम्न्यै महाशून्यै व्यापिकायै च पादयोः ।
नमोऽनादिकृष्णनारायणपत्न्यै समन्ततः ॥ ८०॥
सौभाग्यभवनायै ते नमः कान्ताविभूतये ।
नमो युगलरूपायै दम्पत्यै ते नमो नमः ॥ ८१॥
सर्वसौभाग्ययुक्तायै ललितायै नमो नमः ।
एवं संस्नाप्य विधिना वस्त्रालङ्कारमर्पयेत् ॥ ८२॥
भूषणानि समस्तानि शृङ्गाराणि समर्पयेत् ।
घृतं सिन्दूरकं क्षीरं कुङ्कुमं लवणं तथा ॥ ८३॥
जीरकं कज्जलं चापि चन्दनं रक्तचन्दनम् ।
हरिद्रां कर्पूरकं च कस्तूरीं कङ्कणानि च ॥ ८४॥
शृङ्खलां नत्थिकां तन्तीं नूपुरोर्मिकसंयुताम् ।
निष्पावान् पत्रिकां पूगीफलं ताम्बूलकं तथा ॥ ८५॥
शर्करां च लवङ्गं च एलां संस्थापयेत् पुरः ।
धूपं दीपं च नैवेद्यं दद्याज्जलं सुगन्धि च ॥ ८६॥
आरार्त्रिकं प्रकुर्याद्वै ललितायाः प्रदक्षिणम् ।
नमस्कारं पुनः कुर्यात् पुष्पाञ्जलिं समर्पयेत् ॥ ८७॥
प्रार्थयेल्ललितां कृष्णं दीयेतां भाग्यमुत्तमम् ।
दम्पतीरूपमेवापि ह्यखण्डितसुखावहम् ॥ ८८॥
रसधान्यादिभोज्यानि मिष्टान्नानि सदा गृहे ।
सूपौदनानि शाकानि दध्योदनानि यानि च ॥ ८९॥
क्षीरोद्भवानि सर्वाणि चेक्षुभवानि यानि च ।
वेशवारादिकं चापि मुखवासादिकानि च ॥ ९०॥
शय्यास्तरणयानानि वेषशृङ्गारकाणि च ।
भूषाम्बराणि सर्वाणि विविधाभूषणानि च ॥ ९१॥
यानवाहनरथका गोवाजिगजसद्वृषाः ।
दासदासीभृत्यसखीवर्गाः स्वर्णालयास्तथा ॥ ९२॥
भवनानि विचित्राणि क्षेत्राणि वाटिकास्तथा ।
महोद्यानानि सर्वाणि वंशः पुत्राः सुतास्तथा ॥ ९३॥
स्नुषाश्च बान्धवाश्चापि यशो कीर्तिश्च सम्पदः ।
ऋद्धिः शान्तिः रत्नगजा आरोग्यं धर्म उत्तमः ॥ ९४॥
भक्तिर्ज्ञानं च दीयन्तां कृष्णौ धामाक्षरं ततः ।
एवमभ्यर्च्य तौ तत्र स्थापयेन्मण्डपे त्वथ ॥ ९५॥
हवनं तु प्रकुर्याद्वै चाष्टोत्तरशतात्मकम् ।
दक्षिणां च ततो दद्याद् भोजयेद्विप्रसज्जनान् ॥ ९६॥
दीनाऽनाथान् भोजयेच्च दद्याद्दानानि वै ततः ।
परिहारं प्रकुर्वीत मध्याह्ने पुनरेव च ॥ ९७॥
भोजयेद्विविधं भोज्यं जलं ताम्बूलकं दिशेत् ।
स्वापयेद्घटिकामुत्थापयेत् कृष्णां नरायणम् ॥ ९८॥
जलं फलं प्रदद्याच्च सायं रात्रौ प्रपूजयेत् ।
आरार्त्रिकं सोत्सवं च कारयेद्भोजयेत्ततः ॥ ९९॥
स्वापयेद्भगवन्तौ तौ शयने मृदुले शुभे ।
सहैव शयनं चैतत् सौभाग्यशयनं व्रतम् ॥ १००॥
प्रातरुत्थापयेद्देवौ पूजयेद्विधिना ततः ।
तथा च द्विजदाम्पत्यं पूजयेद्वस्त्रभूषणैः ॥ १०१॥
सौभाग्याऽष्टकसंयुक्तं सुवर्णचरणद्वयम् ।
द्वयोश्चतुष्टयं दद्याद्विप्राय साधवे तदा ॥ १०२॥
ललितां गुरवे दद्यात् कृष्णं दद्यात्तु साधवे ।
युगलं साधवे दद्यात् सौभाग्यचिरताऽऽप्तये ॥ १०३॥
एवं संवत्सरं यावत् तृतीयायां समाचरेत् ।
वत्सरान्ते प्रकुर्याच्च सूद्यापनं महत्तमम् ॥ १०४॥
चैत्रे शृङ्गाटकं दद्याद्वैशाखे घृतपायसम् ।
ज्येष्ठे मन्दारकुसुमं वृन्दापत्रं शुचौ तथा ॥ १०५॥
श्रावणे दधि दद्याच्च नभस्ये तु कुशोदकम् ।
क्षीरमाश्वयुजे मासि कार्तिके नवनीतकम् ॥ १०६॥
मार्गे मासे द्विदलां च पौषे घृतं सशर्करम् ।
माघे कृष्णातिलान् दद्यात् पञ्चगव्यं तु फाल्गुने ॥ १०७॥
तुलसीकमलादीनि सर्वमासे मतानि वै ।
एवं कृत्वा व्रतं नारी कुमारी विधवाऽपि वा ॥ १०८॥
व्रतान्ते शयनं दद्यात् सर्वोपस्करसंयुतम् ।
लक्ष्मीनारायणौ हैमौ शयने स्थापयेत्ततः ॥ १०९॥
दानं दद्याद्ब्राह्मणाय साधवे वा सुपूजिने ।
धान्यालङ्कारगोदानं धनं दद्याद्द्विजातये ॥ ११ ०॥
एवं करोति यः सम्यक् सौभाग्यशयनव्रतम् ।
सर्वान् कामानवाप्नोति पदं चानन्तमश्नुते ॥ १११॥
यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम् ।
करोति स्त्री नरो वापि देव्यनुग्रहलालितौ ॥ ११२॥
पूज्यमानौ वसेतां स्वः यावत्कल्पाऽयुतत्रयम् ।
शृणुयाद्वा पठेद्वापि प्रदद्यादथ वा मतिम् ॥ ११३॥
सोऽपि देवेश्वरो भूत्वा स्वर्गे वसेन्न संशयः ।
भुक्तिं मुक्तिमवाप्नोति शाश्वतानन्दसम्पदः ॥ ११४॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य
तृतीयखण्डे १३७-अध्यायान्तर्गतं
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३६/७४-११४॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 136/74-114..
Proofread by PSA Easwaran