सीतालहरी
श्रियं लब्धुं नित्यां सकलभुवनेशैरपि नुतां
श्रितानां संसाराम्बुधितरणनौतुल्यचरणाम् ।
श्रियः पत्युः कान्तां दशरथसुतत्वं गतवतः
श्रियं वन्दे मन्देतरमहिममान्यां जनकजाम् ॥ १॥
वरं लब्ध्वाऽप्यन्यादृशमहिमवाग्गुम्भनविधौ
विधेर्वाल्मीकिश्चाप्यपटुरभवद्यस्य नवने ।
जडानां मूर्द्धन्यो जननि तमिमं ते गुणगणं
हठात्तुष्टूषेऽहं लघु सफलयेस्साहसमिदम् ॥ २॥
विनिन्दन्त्विष्टा मामलमुपहसन्तु ज्ञनिवहाः
अवज्ञां वा कुर्वन्त्ववनितनये काव्यरसिकाः ।
स्तुतौ ते नो गर्वादपि तु जनिसाफल्यकृतये
प्रवृत्तिर्जातेयं मम दुरपनोद्या कथमपि ॥ ३॥
न विद्यानैपुण्यं न च कुशलता वाङ्मुखविधौ
न वा शिल्पज्ञानं भवति मम नो युक्तिपटुता ।
कथं वा रक्षेयुर्जगति धनिनो मां गुणदृशः
त्वमेवैका जागर्ष्यगतिकगतित्वेन जननि ॥ ४॥
शपन्तं घ्नन्तं वा तनयमकृतज्ञं निकटगं
न तच्चित्रं माता यदवति सदा वत्सलतया ।
इदं चित्रं मन्ये परमविमुखं मन्तुभरितं
त्वमाधावन्ती मामनुपदमवस्यम्ब यदहो ॥ ५॥
मनः कामक्रोधाद्यभिभवमहातङ्ककलुषं
न ते पादाम्भोजं क्षणमपि निषेव्यं कलयते ।
सुखं योगक्षेमं वहसि खलु नित्यं मम तथा-
ऽप्यपूर्वोऽयं मार्गो जननि तव मद्रक्षणविधौ ॥ ६॥
त्वदन्ये ये देवा निजचरणभक्तैकसदयाः
अपि स्मर्तुं तेषां न सरति मनो मे कथमपि ।
अवाग्गम्यां हिंसां तव कृतवती राक्षसवधूः
त्वमेका मे सेव्या पवनतनयाद्रक्षितवती ॥ ७॥
असाधूनां दुःखं यदि निजकृतं भुञ्जत इति
प्रवादोऽयं, सन्तः कति कति न दृष्टा बहुशुचः ।
दयन्ते साधूनामपि तु कृतिनो नैवमसतां
नतं ते पादाब्जे तदिह कुरु मां सत्सु जननि ॥ ८॥
नियन्ता लोकानां निगमवचसां तत्त्वमपि सः
त्वया युक्तो मोदं भवनवनयोस्ते पतिरगात् ।
वियोगात्ते कष्टं समभजत वाचामविषयं
मुदं सान्निद्ध्यं ते दिशति तदभावश्शुचमपि ॥ ९॥
अमन्दैरानन्दैर्धनविलसितैस्तुन्दिलहृदां
समीपे धन्यानामनृतविषयैरम्ब नवनैः ।
कृतः कालक्षेपस्तव पदयुगं तूज्झितमभूत्
क्षमस्वेदानीं त्वं हृदुपगमिता पाहि दयया ॥ १०॥
दुरन्नैर्दुष्टा मे दशमुखरिपुप्रेयसि तनुः
मनः कामक्रोधादिभिरपि हतं वाक्च नृनवैः ।
फलं तस्मान्न स्यात्त्रिविधकरणैरम्ब करणैः
सुखं प्राप्तुं पन्था मम तव विना देवि करुणाम् ॥ ११॥
कृतागस्कत्वं मे भवतु न च काकादवरता
न रक्षःस्त्रीभ्यो वा जननि मम दुष्टत्वमधिकम् ।
कुतो रक्षाहेतोश्चिरमधिकचिन्तां कलयसे
वरे दीनानां मय्यपि किर कटाक्षं सकरुणम् ॥ १२॥
अनागस्कं प्राप्तं शरणवदमेकं निशिचरं
पतिस्ते मन्त्रीन्द्रैः कृतविपुलमन्त्रश्चिरमपात् ।
कृतागस्कं मृत्योरिव हनुमतो भीतिभरितं
गणं रक्षःस्त्रीणां धरणितनये त्वं स्वयमपाः ॥ १३॥
समस्कार्षीत्कङ्कं प्रभुरपि पतिस्ते तव कृते
तताराम्भोराशिं सुहृदमपि शाखामृगमधात् ।
अहो मादृक्षाणां परमसुलभाऽसि श्रितवतां
शिशूनां सौलभ्यं भवति हि सवित्र्या अनुपमम् ॥ १४॥
दधाना सीतेऽब्जं करसरसिजे, काञ्चनमयं
वसाना वासस्त्वं वरमणिविभूषाङ्किततनुः ।
दृशं विन्यस्यन्ती मयि सकरुणां सस्मितमुखी
प्रियोत्सङ्गासीना नयनपथगा स्या मम कदा ॥ १५॥
तरुत्वं ग्रावत्वं मृगपतगभावं च गमितैः
कथञ्चिज्जीवैस्ते कुहचिदुपयोगश्च भवति ।
नरत्वं तत्रापि द्विजनरजनुष्ट्वं गतवता
विवेकित्वाभावाज्जननि न मयाऽर्थोऽस्त्यणुरपि ॥ १६॥
कृतं कामात् क्रोधाद्द्रविणलवलोभाच्च दुरितं
मनः कम्पं धत्ते नरकगतिमुत्प्रेक्ष्य नियताम् ।
न मे प्रायश्चित्तं कथयितुमलं शास्त्रनिवहाः
तवाङ्घ्री सेवे तज्जननि मुनिचित्तैकसदनौ ॥ १७॥
जनित्वा भूलोके जननि परिभोक्तुं स्वदुरितं
वियोगाद्बन्धूनां विषसमनिरर्थभ्रमणतः ।
सदा दारिद्र्येणाप्यनिशमनुतप्तांश्च मनुजान्
अपाङ्गैश्चेत्पश्येरमृतसहजे ते क्षयति किम् ॥ १८॥
चिरं युद्ध्वा श्रान्तोऽप्यथ च विनिकृत्तच्छदपदो
वमन् वक्त्राद्रक्तं जिगमिषुरपि प्रेतपदवीम् ।
जटायुर्दद्ध्रेऽसून् रघुतनययानावधि हि यत्
स एष प्रत्यक्षो जननि तव संस्पर्शमहिमा ॥ १९॥
चलच्छम्पातुल्यां चपलनयनां चारुगमनां
दशास्यो दृष्ट्वा त्वां दमितभुवनोऽपि स्मरवशः ।
मदान्मत्वा भोग्यां विपदमतुलां मातरगमत्
तदीयभ्राताऽगात् सुखमखिलमातेति कलयन् ॥ २०॥
यदि द्रष्टुं साक्षाज्जननि भवतीं सुस्मितवतीं
अहं प्रत्यूही स्यामनुपमकृपे दुष्कृतचयैः ।
अपि स्वप्ने दृश्या भव मकुटकेयूरसुभगा
चिरादाशामेतां चिनुहि परिपूर्णां कथमपि ॥ २१॥
महान् मानो यो मां नमयति न कस्यापि पुरतो
न तं नादान्तस्थे श्लथय करवै ते तु विनतीः ।
दयां यद्यादद्ध्या इतरमथ बुद्ध्या न कलयै
वशस्थे क्षीरोदे जननि गणयेद्गोपमिह कः ॥ २२॥
चतुर्भिः किं वेदैर्विदितपरमार्थैरपि भृशं
समस्तैर्वा शास्त्रैस्सदसि परवाङ्मुद्रणचणैः ।
निषेवे त्वां लब्धुं सततमिह चामुत्र च सुखं
हनूमन्तं दृष्ट्वा मम मतिरियं मातरुदिता ॥ २३॥
सकृन्नत्वा मर्त्यो जननि पदपद्मं तव सुखी-
त्यनुक्रोशन्त्यार्या विदितनिगमान्तार्थगतयः ।
नमाम्यङ्घ्री नित्यं नतबुधजने ते यतमनाः
न मे शान्तं दुःखं तदपि वद हेतुं वरगुणे ॥ २४॥
तव प्रारब्धं त्वं ह्यनुभवसि तन्नाशनविधौ
न शक्तः कोऽपीति प्रतिवचनमम्बार्पयसि चेत् ।
भवेद्व्यर्था सेवा तव चरणयोर्मे किल तदा
यतो मे पापानां न च परमियत्ता फलवताम् ॥ २५॥
विशुद्धं विज्ञानं सहजमिह विप्रान्वयजुषां
रणोत्कर्षो रक्षोऽन्तकगृहिणि राज्ञां च सहभूः ।
द्विजस्सन् लज्जेऽहं भुवि कथयितुं मूढ इति मां
तमोहन्त्र्या दृष्ट्या तरणिकुलभूषे स्नपय माम् ॥ २६॥
कटाक्षास्ते कामान् ददति करुणापूरकलिताः
त एते लभ्यास्स्युस्सकृदपि पदोस्ते प्रणमनात् ।
उपेक्षा चेदत्रापि च न किमिव कुर्यास्त्वमनघे
फलं रस्यं वृक्षा अपि ददति पादाश्रयवते ॥ २७॥
मुनीन् देवान् प्राज्ञानवसि यदि कस्तेन गरिमा
स्वयं ते सम्प्राप्तास्त्वदवनदशां स्वैः प्रयतनैः ।
अमूदृक्षं कञ्चिद्गतिविकलमज्ञातसुकृतं
स्वयं रक्षित्वाऽम्ब प्रथय करुणां ते त्रिभुवने ॥ २८॥
प्रचारो यावान् मे प्रतिधनिकगेहं प्रकलितः
तदर्धं ते दिव्यालयमनु समाधास्यमिह चेत् ।
प्रसन्ना त्वं मातर्नियतमभविष्यो मम दृढं
दशामेतां नावाप्स्यमपि दयिते दूषणरिपोः ॥ २९॥
खलानां धुर्याय स्वरदित विराधाय भवती
महामन्तुं कृत्वा मघवतनयस्ते सुखमगात् ।
अमूदृक्षां ज्ञात्वा जननि करुणां ते निरुपमां
मनो मे नो सेवाकरणविधयेऽन्यं मृगयते ॥ ३०॥
न लभ्यो योगो मे ह्यविजितमरुत्त्वादवनिजे
न च द्रव्यालाभाज्जननि तव पूजाऽपि सुकरा ।
ब्रवीमि त्वन्नामान्यवनितनये रामदयिते
जगन्मातर्देवीत्यव सुकृततोऽस्मादपि च माम् ॥ ३१॥
जगज्जन्मस्थेमप्रळयकरणेच्छे जनकजे
जरामृत्युव्याधिप्रतिभयभवान्ताङ्घ्रिनमने ।
जयख्याते दानैर्जितसुरतरो जङ्गमसुधे ।
जडानामग्र्यं मां जय जय नयन्ती निजपदम् ॥ ३२॥
मनस्ते पादाब्जे चरतु महनीये मम सतां
चरित्रं वाङ्नित्यं पठतु तव रामायणमपि ।
करो मे शीर्षे ते सततमपि पुष्पाञ्जलिकिरः
प्रसीदेमं दातुं वरमपि च वाल्मीकिविनुते ॥ ३३॥
अनन्तान् मे मन्तूनखिलभुवनेशो रघुपतिः
कथं वा क्षाम्येदित्यतिशयितभीतिस्तव पदौ ।
श्रितोऽस्मि त्वं रक्षिष्यसि नियतमित्येव दृढ़धीः
सवित्र्या वात्सल्यं पितुरधिकमम्बास्ति हि शिशौ ॥ ३४॥
अशिष्टः पापात्मा न खलु दयनीयः कथमपी-
त्यमूं चेत् बुद्धिं त्वं मदवनविधौ देवि कुरुषे ।
अनेके मादृक्षा अपि मदवरास्त्वामधिगताः
सुखं सम्प्राप्ता मां परमिह तु मा मातरतिगाः ॥ ३५॥
विराधः स्वः प्रापद्विहितपरमागाः सुरपते-
स्तनूजो ब्रह्मास्त्रादपि किल विभोर्मुक्तिमगमत् ।
दशास्योऽप्युक्तोऽभूत् सुत इव हितं वत्सलतया
ततो निश्चेतव्याऽस्यमितकरुणेत्येव जननि ॥ ३६॥
न वैकुण्ठं याचे न च विधिपदं नापि च दिवं
न वा भूपत्वाय स्पृहयति मनो मे कथमपि ।
कटाक्षं ते मातः कलय करुणार्द्रं मयि परं
विधत्से चोपेक्षामिह च यदि किं नाम करवै ॥ ३७॥
पिशाच्या तृष्णाख्यां समधिगतया भ्रान्तमनसा
निषेव्यासेव्यानप्यहह जननीं विस्मृतवता ।
मया को वा धर्मो भवतु फलदानाय रचितो
विनष्टे मूले किं भवति फलपुष्पादिगरिमा ॥ ३८॥
अरिं ते हन्तुं त्वामपि समधिगन्तुं कृतमतौ
विभौ सिन्धुर्नैसर्गिकमपि चलत्वं समजहात् ।
अपि ग्रावाणः स्वं जननि विजहुर्गौरवगुणं
गिरां पारे दूरे जयति तव माहात्म्यगरिमा ॥ ३९॥
अशुद्धः शुद्धो वा जठरपरिपूर्तिं विरचयन्
अयाच्यान् याचित्वा मम जननि मानं च गळयन् ।
अपि स्वप्ने सत्तां तव न कलयन् सन्ततमतन्
विना ते कारुण्यं सुखमिह परत्रापि किमियाम् ॥ ४०॥
तरेदम्भोराशिं गिरिमपि हरेदेककरतो
व्रजेद्दूरे व्योमाध्वनि च लभतां गिर्यतिथिताम् ।
बहूनेको हन्यादमितबलयुक्तानपि रिपून्
समस्तोऽयं मातस्तव चरणदास्यस्य महिमा ॥ ४१॥
मयि क्रीडालोले मनुकुलशुभादृष्टसरणे
कृतान्तं विस्मृत्य प्रचरति यथेच्छं हतमतौ ।
विना त्वां क्षेमं मे जननि भुवने चिन्तयतु कः
शिशून्मातैवैका सुपथि कुरुते खल्वपथगान् ॥ ४२॥
दयन्ते न श्रोतुं कति, कति निशम्याप्यवचसः
तिरस्कुर्वन्त्येके मम हि विभवो दैन्यविभवम् ।
अतो निर्विण्णोऽहं जननि तव पादान्तिकमगां
स्वयं ज्ञात्वा दैन्यं लघु मम विदद्ध्या यदुचितम् ॥ ४३॥
विदित्वा वाल्मीकिर्विधिविनुतपादे वचनतो
दयां निस्सीमां ते त्वयि परिगतेनार्थिपदवीम् ।
मया दुःखाम्भोधौ महितनुभवे लुठ्यत इति
श्रुतं यावन्नान्यैरवतु भवती तावदिह माम् ॥ ४४॥
प्रबुद्ध्येतातोद्यै रुचिरतरनादैः प्रतिदिनं
प्रजल्पेद्भृत्यानां धुरि च गिरमाज्ञापनमयीम् ।
रथैर्वा घोटैर्वा गजपरिबृढैर्वा बहिरियात्
य आसीत्ते दृष्टेर्जननि सकृदप्यध्वनि पुमान् ॥ ४५॥
दरिद्रो वाऽऽढ्यो वा भवतु भवतापप्रशमनि
त्वदीयाङ्घ्रौ नम्रस्तव चरितपीयूषसुहितः ।
य आस्ते तस्यामुं कुरु सहचरं जानकि जनं
धनाढ्यैस्संवासात्सुविदितसुखं नास्तिकवरैः ॥ ४६॥
क्षणाल्लोकान् सर्वानटितुमतिशक्तं पवनजं
न्यधास्त्वं दास्यार्थं क्षितिपतिसुता राजमहिषी ।
कपीन्द्रो रक्षोराडपि तव पदाब्जैकशरणौ
जनोऽयं शुश्रूषां तव जननि कां वा रचयताम् ॥ ४७॥
पदोर्नत्या श्रुत्या तव च चरितस्यामृतजितो
गुणस्तुत्या दैन्यं गतवति दयां नैव कुरुषे ।
हताऽसि त्वां खादाम्यलमिति गदित्वा जननि ते
वधायोद्युक्तानां प्रथयसि कृपां ते निरुपधिम् ॥ ४८॥
मनोस्ते मान्याङ्घ्रे तव जनक एवैष जनको
बभूवर्षिर्मैत्रावरुणिरुपदेष्टाऽस्य मुनिराट् ।
स पुत्रीमाराद्ध्यां जननि जनकस्ते स्म मनुते
न जाने मादृक्षैस्त्वयि कथमु भाव्यं कथय मे ॥ ४९॥
प्रवाळात् पुष्पाद्वा तव पदयुगं कोमळतरं
निधेहीत्याख्यातुं मम मनसि जिह्रेमि कठिने ।
पुनश्चिन्ताऽभून्मे गिरिशधनुरारोपणपणे
न किं भ्रान्ताऽसि त्वं वन इति ततो यामि च धृतिम् ॥ ५०॥
मनः कम्पं धत्ते महितमहिळाजन्मसुभगे
कृतं पापं स्मृत्वा कृतदुरितिशिक्षस्तव पतिः ।
रहो ब्रूया नाथं जननि मम मुक्तिं प्रति वचः
स नूनं श्रद्धाळुस्तव वचसि मायामृगवधात् ॥ ५१॥
न शब्दाः पुष्टार्था विलसति न चालङ्कृतिगणः
रसो वा नो कश्चिज्जननि न चमत्कारि च वचः ।
तथाऽपि श्रुत्वा मत्प्रलपितमिदं स्निह्य परमं
हृदब्जं मातॄणां विकसति शिशूनां हि वचनैः ॥ ५२॥
इति श्रीवलङ्गिमान् ग्रामाभिजनेन शास्त्ररत्नाकर श्रीस्वामिशास्त्रिणां
प्रियान्तेवासिना ``कविमणि, कवितल्लज'' बिरुदभाजा
पण्डित सुब्रह्मण्यशास्त्रिणा प्रणीता सीतालहरी समाप्ता ॥
Proofread by Aruna Narayanan