सकारादिश्रीसीतासहस्रनामस्तोत्रम्
(श्रीरुद्रयामलतन्त्रोक्तम्)
सुरालये प्रधाने तु देवदेवं महेश्वरम् ।
दशैलाधिपस्यतनया सङ्गे हरसुवाच हि ॥ १॥
श्रीदेव्युवाच ।
परमेश परन्धाम प्रधानपुरुषेश्वर ।
नाम्नां सहस्रं सीतायाः विस्तरातू वद शङ्कर ! ॥ २॥
श्रीमहादेव उवाच ।
शृणु देवि प्रवक्ष्यामि नाममध्येसहस्रकम् ।
परन्धामप्रदाविद्या चतुर्वर्गफलप्रदा ॥ ३॥
गुह्यात् गुह्यतमं देवि ! सर्वसिद्ध्येकवन्दिता ।
अतिगुह्यतराविद्या सर्वतन्त्रेषु वेदिता ॥ ४॥
विशेषतः कलियुगे महासिद्व्यौघदायिनी ।
गोपनीया प्रयत्नेन कस्मैचिन्नप्रकाशयेत् ॥ ५॥
विनाध्यान-विनापूजा-विनाहोम-विनाजपम् ।
विनापुष्प-विनागन्धं विनादानं विनामखम् ॥ ६॥
सकृदुच्चरिताविद्या ब्रह्महत्यां व्यपोहति ।
एतद्विज्ञानमात्रेण सर्वसिद्धीश्वरोभवेत् ॥ ७॥
अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते ।
रोधिनी विघ्नसङ्घानां मोहिनीपरयोषिताम् ॥ ८॥
स्तम्भिनि राजसैन्यानां वादिनी परवादिनाम् ।
कलौ पापसमाकीर्णे पठनान्मुक्तकिल्विषाम् ॥ ९॥
तस्मात्त्वं पठ देवेशि ! स्वर्गमोक्षप्रदायकम् ।
न्यासविद्यां प्रवक्ष्यामि शृणु पर्वतनन्दिनी ॥ १०॥
अस्य सहस्रनामस्य ऋषिर्ब्रह्मा प्रकीर्तितः ।
छन्दोऽनुष्टुप् प्रोक्तश्च सीतादेवी प्रकीर्तिता ॥ ११॥
सौरभं बीजमाख्यातं कमलाशक्तिरीरिता ।
कीलकं पाशबीजेन विनियोगस्ततः परम् ॥ १२॥
अथ ध्यानं प्रवक्ष्यामि सीतायाः परमाद्भुतम् ।
सर्वपापहरं दिव्यं सर्वकामफलप्रदम् ॥ १३॥
आयुः कीर्तिकरं पुण्यं सर्वाघौघविनाशनम् ।
ज्ञात्वा सम्यक्विधानेन न्यासजालं समाचरेत् ॥ १४॥
ॐ अस्य श्रीसीतासहस्रनाममन्त्रस्य ब्रह्माऋषिः
अनुष्टुप् छन्दः श्रीसीतादेवतायैनमः ।
ह्रीं ह्रीं क्लीं बीजाय नमः श्रीशक्तये नमः
आं कीलकाय नमः ममसकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
अथ ध्यानम् ।
ध्यायेज्जानकी रम्यां मुक्ताहारसुशोभिताम् ।
अनन्तरत्नरचितां सिंहासनविराजिताम् ॥
उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् ।
सुवृत्तनिविडोत्तुङ्गकुचमण्डलराजिताम् ॥
अनर्घ्य मौक्तिकस्फार हारभारविराजिताम् ।
नवरत्नप्रभाराजि ग्रैवेयवरभूषणाम् ॥
श्रुतिभूषामनोरम्यां सुगण्डस्थलभूषणान् ।
नमामि परमां देवीं रामवामाङ्कगां शिवाम् ॥
इति ध्यात्वा हृद्युपचारैस्सम्पूज्य स्तोत्रकं पठेत् ।
अथ सहस्रनामस्तोत्रम् ।
ॐ सीता सीमन्तिनी सीमा सन्मन्त्रफलदायिनी ॥ १॥
सत्या सत्यवती सामा सात्विकी सर्वमङ्गला ।
सत्प्रभावा सतीसाध्वी सत्कला सकलेष्टदा ॥ २॥
समस्ता समदा सान्द्रा सान्द्रनीलसमप्रभा ।
सौभाग्यजननी सेव्या सौम्या सुन्दररूपिणीम् ॥ ३॥
सम्भ्रमा सम्भ्रमातीता सन्तुष्टफलदायिनी ।
सर्वोत्तुङ्गकला सर्वा सर्वेष्टा सङ्गमप्रिया ॥ ४॥
शान्तिप्रिया शान्तिमती सीमन्तमणिभूषणा ।
सावित्री सन्मुखी सिद्धा शारदा च समप्रभा ॥ ५॥
स्वतन्त्रा सत्यसङ्कल्पा समदृष्टिफलप्रदा ।
सारङ्गसदृशा श्यामा सरसा शशिशेखरा ॥ ६॥
समाना सामगा शुद्धा समस्तसुरसम्मुखी ।
सर्वसम्पत्प्रदात्री च शमदा सिन्धुसेविनी ॥ ७॥
सरसीरुहमध्यस्था सरोवरविहारिणी ।
सरस्वती सुवह्निश्री श्रीजया शुभदायिनी ॥ ८॥
सर्वमाङ्गल्यजननी सार्वभौमप्रदायिनी ।
साम्राज्यकारिणी साम्रा साम्राज्यफलदायिनी ॥ ९॥
सत्यव्रता सत्यपरा सद्भावा सत्परायणा ।
सन्मार्गकर्त्री सम्मान्या सम्मानसुखदायिनी ॥ १०॥
सत्यज्ञानप्रदात्री च सुमनाराध्यपादुका ।
स्वर्णकान्ति समप्रख्या स्वर्णाभरणभूषिता ॥ ११॥
सत्सङ्कल्पप्रदा सज्या सुखी सौख्यवरप्रदा ।
संसारसागरारूढा संसारभयनाशिनी ॥ १२॥
सर्वार्थसाधिनी सर्वा शर्वाणी शङ्करप्रिया ।
शाश्वतस्थानफलदा शासना शासनप्रिया ॥ १३॥
समता समतासारा सारस्वतफलप्रदा ।
सिञ्जानमणिमञ्जिरा सस्मिताऽधरपल्लवा ॥ १४॥
सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी ।
सञ्जनानन्दनिलया सत्कर्मफलदायिनी ॥ १५॥
सूक्ष्मा सूक्ष्मगतिस्स्तुत्या सूक्ष्मज्ञानप्रदायिनी ।
सौदामिनी सुधादेवी सिन्धुरूपा च साम्बिका ॥ १६॥
सिद्धिप्रदा सिद्धिबन्धु सिद्धेशी सिद्धसुन्दरी ।
सन्ध्येयत्री सन्ध्यञ्जरा सन्ध्यातारुण्यलालिता ॥ १७॥
शमदा शाङ्करी सेतु सुकोला सरसीरुहा ।
सोमेश्वरी सोमकला सोमपानसुसम्मता ॥ १८॥
सौम्यानना सौम्यरूपा सोमस्या सोमसुन्दरी ।
सूर्यप्रभा सूर्यमुखी सूर्यजा सूर्यसुन्दरी ॥ १९॥
सूर्यकोटिप्रतीकाशा सूर्यतेजोमयी सती ।
सोमकोटिप्रभा शोभा सोममण्डलवासिनी ॥ २०॥
शतानन्दा श्रुतिधरा सुषुम्ना शोभनप्रिया ।
शोभावती सुशोभाढ्या शोभना सुभगा सुखा ॥ २१॥
शताक्षी शम्बरध्वंसी सहस्राक्षी सहोदरी ।
सहस्रशीर्षा सर्वेशी सहस्रपदसंयुता ॥ २२॥
सहस्राक्षी सुवस्त्राढ्या सहस्रभुजवल्लिका ।
शुभवस्त्रप्रिया सुन्दा शत्रुघ्नी शन्तनुप्रिया ॥ २३॥
शतानना च शबरी सहस्रपदपङ्कजा ।
शिशुपावृक्षनिलया शम्बरारि सुखप्रदा ॥ २४॥
श्रान्तिहा सन्ततिः सत्या सन्तानफलदायिनी ।
श्रीङ्काररूपिणी श्रद्धा श्रेयदा श्रमनाशिनी ॥ २५॥
श्रेष्ठा श्रेष्ठकरी श्रेया श्रुतिरूपा श्रुतिप्रिया ।
श्रेणीपति समाराध्या सुष्टुङ्गानप्रियङ्करी ॥ २६॥
स्थाणुपत्नि स्थितिकरा स्थितिस्था स्थितिवर्द्धिनि ।
श्रद्धावती च श्रमदा श्रद्धाभक्तिसमन्विता ॥ २७॥
श्रीविद्या षोडशी षोढा षोढान्यासफलप्रदा ।
शुक्लाम्बरपरीधाना शुक्लगन्धानुलेपना ॥ २८॥
शुक्लपुष्पप्रिया शुक्ला शुक्लाभरणभूषिता ।
स्वयञ्ज्योतिः स्वयङ्कर्त्री स्वयमानन्दविग्रहा ॥ २९॥
शेषादिशायिनी शेषा श्रीधरार्चितपादुका ।
सङ्कर्षणप्रिया सभ्या सभामण्डलवासिनी ॥ ३०॥
सर्वेन्द्रिया-सर्वगतिः-सर्वसाक्षी-समुन्नता ।
सङ्ग्रामकारिणी-शैवा-सरयूतीरवासिनी ॥ ३१॥
सद्ब्राह्मणकुलोत्पन्ना-सच्चिदानन्दरूपिणी ।
सुगमा-सुगमप्रीता-सुगमध्यानतत्परा ॥ ३२॥
सोमपानरता-सोमा-शाम्भवी-शम्भुवल्लभा ।
समय-समयाचारा-संविज्ञानपरायणा ॥ ३३॥
सनातनप्रिया-शूरा-शूरश्रेणीविराजिता ।
श्रुतिस्मृतिप्रदात्रीच-श्रावणी-श्रावणप्रिया ॥ ३४॥
शतपत्रप्रिया-स्वैरा-सामन्तकुसुमार्चिता ।
सुबोधा-सुमतिः स्वेच्छा-सुरेशवरदायिनी ॥ ३५॥
सङ्गीतगानरसिका सदास्वरविराजिता ।
सरिगमज्ञानफलदा सदासन्तोषकारिणी ॥ ३६॥
सामवेदकृतोत्सङ्गा-सामगानप्रियङ्करी ।
श्रीवैष्णवसमाराध्या स्वेच्छाविभवदायिनी ॥ ३७॥
स्वच्छन्दाचारनिलया-स्वेष्टा -स्वेष्टफलप्रदा ।
स्वच्छन्दा-सानुरूपस्था-साम्याधिकवरप्रदा ॥ ३८॥
शाकम्भरी-शिवाराध्या सिंहाचलनिवासिनी ।
शिवङ्करी -शिवाङ्कस्था-शिवध्यानपरायणा ॥ ३९॥
सम्पादनप्रिया सभ्या-सम्पूर्णफलदायिनी ।
शङ्खपत्राशिनी शङ्खस्वना-शङ्खगलाशशी ॥ ४०॥
शङ्खिनी-शङ्खवलया-शङ्खमालावती-समी ।
शम्बरी शाम्बरी शम्बू-शम्बुकी-शबराशिनी ॥ ४१॥
शङ्खी-शङ्खवती-शङ्खा-श्यामाङ्गी-श्यामलोचना ।
श्मशानस्था -श्मशाना च श्मसानस्थलभूषणा ॥ ४२॥
शिवदाऽशिवहन्त्री च शकुनी -शङ्खशेखरा ।
सुमुखी-शोषिणी-शोषी-सौरी सौर्या सरासरी ॥ ४३॥
शम्पहा शापहा शम्पा सम्पत् -सम्पत्तिदायिनी ।
शृङ्गिणी -शृङ्गीफलभुक् शान्तिनी-शङ्करप्रिया ॥ ४४॥
शङ्का-शङ्कापहासंस्था शाश्वता शीतला-शिवा ।
शिवस्था -शिवभुक् शाली -शिवाकरा शिवोदरी ॥ ४५॥
शायिनी शयनी-शिंसा शिशुपा -शिशुपायिनी ।
शवकुण्डलिनी श्वेता शीकरी-शशिलोचना ॥ ४६॥
शिवकाञ्ची -शिवश्रीका शिवमाला शिवाकृति ।
सम्पातिः शङ्कुवसतिः शन्तनुः शीलदायिनी ॥ ४७॥
सिन्धुः स्वैरगतः सैन्ध्री सुन्दरी सुन्दरानना ।
साधुः सिद्धा सिद्धिदात्री सिद्धासिद्धस्वरूपिणी ॥ ४८॥
सरः समा समाना च समाराध्या समस्तदा ।
समृद्धा समदा सस्प्रा सम्मोहारूपदर्शना ॥ ४९॥
समितिः समिधा स्नेहा सुधारससमन्विता ।
समीरा सन्तता सप्ता साध्वी साधुसहायिनी ॥ ५०॥
शाद्वली सङ्कृतिः शाढ्या सम्प्रदायप्रसादिनी ।
सुवना सुमनाचारा समाना सामसी शुभा ॥ ५१॥
श्रीमतां श्रीमती श्रीमा श्रीशा श्रीपद्मवासिनी ।
सालङ्कृता शालुवेशी शालुवेशप्रियङ्करी ॥ ५२॥
सुलभा सुलभाराध्या सुश्रावा सुष्ठुमल्लिका ।
शुचिज्ञा सुमना शुद्धा शुचिध्यानसमाश्रिता ॥ ५३॥
शुचिकर्मपरा शुत्री शुचिनी सूचनप्रिया ।
सुज्ञाननिलया सुज्ञा सुबुद्धि सन्निवेशना ॥ ५४॥
सत्कालगामिनी स्पर्शा शिवमौलिकृताश्रया ।
स्तुत्यर्था सर्वदोषघ्नी सम्पक्वफलदायिनी ॥ ५५॥
संसर्गा संस्पृशा स्तुत्या स्तोकस्तोत्रप्रियङ्करी ।
सदा सर्वदास्तुत्या सुधिया सर्वदेवता ॥ ५६॥
सुरालया सुष्ठुरता सुपर्णा सुमनार्चिता ।
सद्बोधनिरता सस्या सव्यपाणिः सुरद्युतिः ॥ ५७॥
साङ्ख्ययनमुनिस्तुत्या सङ्ख्यासाहित्यदायिनी ।
शाल्मलीकुसुमप्रख्या शोण्डीमेमार्जनीकर ॥ ५८॥
स्कन्दपुत्री स्कन्दमाता स्कन्दा स्कन्दवरप्रदा ।
स्फुटार्थफलदा स्फोटा स्फुटवक्त्रा स्फुटप्रिया ॥ ५९॥
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
सानिध्यदायिनी सन्धिः सुदशा सुमनोहरा ॥ ६०॥
सम्यकसमुच्चरी सस्या स्वर्भानुःफलदायिनी ।
शसका सस्मिता सस्मा सुमेरू शुचिभूषणा ॥ ६१॥
शुचिस्मिता सुनेत्रा च सुकोमला सुलक्षणा ।
शुण्डप्रिया शुण्डमाता शुण्डादण्डविराजिता ॥ ६२॥
सञ्चिता सञ्चरी सैवा सत्याभूपालसेविता ।
सुमेखला सुगुप्ता च स-गिरा च सुविस्तरा ॥ ६३॥
सकुन्तलाच सद्गुण्या शठदर्पापहारिणी ।
स्मरपत्नीसमाराध्या स्मरारि सुखदायिनी ॥ ६४॥
सम्पूज्यदेवतारूपा सनकादिमुनिस्तुता ।
स्वभावचञ्चलापाङ्गी सनन्दनवरप्रदा ॥ ६५॥
साष्टाङ्गनमनप्रीता सम्मीलनपरायणा ।
शान्तोदरी स्वयन्धामा शरणागतवत्सला ॥ ६६॥
शोभावती शुभाकारा शङ्कररीर्धशारिणी ।
श्रोणा शुभ्रजला सुश्रू शरसन्धानकारिणी ॥ ६७॥
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
शलभा शूलिनी श्रोता सुनम्ना शुक्लवाहना ॥ ६८॥
सुभ्रूर्वारिष्यैवा षडृतुश्च षडानना ।
षडाधारस्थिता शस्ना षडञ्जा षण्मुखप्रिया ॥ ६९॥
सन्यासधारिणी सैन्या सुधन्या सुष्ठुगोचरा ।
षडङ्गरूपसुरता सुरासुरनमस्कृता ॥ ७०॥
सर्ववासा सदोन्मत्ता सुस्तनी सागराम्बरा ।
सुव्यवस्था च सुरभिः सूर्यमण्डलमध्यगा ॥ ७१॥
सत्यार्थनिलया सत्या सत्यजिह्वाग्रवासिनी ।
सहस्रद्वयजिह्वाग्रशेषपर्य्यङ्कशायिनी ॥ ७२॥
सत्यार्चिमण्डलगता सव्या सूर्यविभूषणा ।
सारिका श्यामला स्मेरा स्मेरवक्त्रा शुकप्रिया ॥ ७३॥
शुकाध्ययनसम्पन्ना शुकी शुकवरप्रिया ।
शुक्राचार्यप्रियाऽशोका शोकसन्तापहारिणी ॥ ७४॥
स्वर्गमोक्षसुखद्वारा सर्वकामसुखप्रदा ।
सप्तद्वीपात्मकाधारा सप्तसागरधारिणी ॥ ७५॥
सर्वपर्वा च पर्वाग्रा सप्तर्षि सुरसेविता ।
सद्योजीवा सर्वसन्ध्या सर्वलोकसमाश्रया ॥ ७६॥
सुधावक्त्रा सौमनस्या सम्भूता सुकृतालया ।
सर्वा सर्वजगत्पूज्या सर्वद्वन्दविनाशिनी ॥ ७७॥
संसारपाशविछिन्ना सर्वमन्त्रमयी सुरा ।
सुधासम्पृष्टसर्वाङ्गी सुधापङ्कजमालिनी ॥ ७८॥
सूर्याङ्गुली सुनक्षत्रा सौरीकेशीस्वलङ्कृता ।
सर्वदेवसमुत्पन्ना सर्वदेवमयीश्वरी ॥ ७९॥
सूर्यजालांशुमध्यस्था सङ्क्रमा सङ्क्रमप्रिया ।
सर्वपौरुषवल्ली च सर्वधर्माधिकारिणी ॥ ८०॥
सप्तकोटीश्वरीविद्या संसारार्णवतारिणी ।
श्रीकण्ठा शितिकण्ठा च सुधाधाराम्बुवर्षिणी ॥ ८१॥
समुत्तीर्णा शक्तिरूपा सुशक्तिश्च सुधावती ।
सकलाख्यानसन्तुष्टा सोमसूर्याग्निमध्यगा ॥ ८२॥
सूक्ष्मसूत्रा सूक्ष्मरूपा सूसूत्रा सूत्ररूपिणी ।
सहस्रादित्यसङ्काशा सहस्रनयनोज्ज्वला ॥ ८३॥
सहस्रमूला सहस्रेशी सर्वविघ्नविनाशिनी ।
सर्ववादित्रहस्ता च सर्वप्रहरणोद्यता ॥ ८४॥
सुरभी सौरभेयी च सुधाधारा सुधावहा ।
सर्वबन्धनसङ्क्षेत्री सर्वाभिचारनाशिनी ॥ ८५॥
सर्वसिद्धिमहामाया सर्वार्थकसाधिका ।
सर्वसङ्ग्रामजननी सर्वशत्रुविनाशिनी ॥ ८६॥
सर्वेश्वर्यसमुत्पत्तिः सर्वलोकैकदीपिका ।
सर्वलोकसुखोत्पन्ना सर्वतःसुखदायिनी ॥ ८७॥
सर्वदुःखान्तकरणी सुभद्रा सर्वसात्विका ।
सहस्रशाखाफलिनी सर्वरोगनिषूदिनी ॥ ८८॥
शत्रुद्वेष्टी शत्रुहन्त्री शत्रुनामनिकन्दिनी ।
सकलंहास्वरूपस्था सोऽहं-शब्दस्वरूपिणी ॥ ८९॥
श्रीमन्त्रराजसदृशा श्रीशैलपदगामिनी ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ ९०॥
सुवासिन्यर्चनप्रीता सुकुमारप्रियङ्करी ।
सदोन्मत्ता सदातुष्टा शर्मदा शम्भुगेहिनी ॥ ९१॥
स्वस्था स्वभावमधुरा सदाशिवकुटुम्बिनी ।
सव्यापसव्यमार्गस्था सव्यसात्री सहायिनी ॥ ९२॥
सुदक्षिणा सुकौमारी सुमेना च सुरम्भिका ।
सर्वोपनिषदस्तुत्या समीरतनयस्तुता ॥ ९३॥
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
सर्वोपाधिविनिमुर्मुक्ता सदाशिवपतिव्रता ॥ ९४॥
सर्वतन्त्रेश्वरी शक्ति सर्वगा सर्वमोहिनी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रुपधारिणी ॥ ९५॥
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
शुभाचारा समावाणी सवीदक्षिणविराजिता ॥ ९६॥
सर्वादनेप्रीतचित्ता सिन्दूरतिलकाङ्किता ।
सहस्रदलमध्यस्था सर्ववर्णोपशोभिता ॥ ९७॥
सर्वायुधधरा शुक्रा संस्थिता सर्वतोमुखी ।
स्वाहा स्वधा सहस्रारा सर्वमृत्युनिवारिणी ॥ ९८॥
सश्लाघायुधसम्पन्ना स्वाधिष्टाम्बुजसंस्थिता ।
समस्तभक्तसुखदा शाकिन्येवास्वरूपिणी ॥ ९९॥
शिवदूती शिवाराध्या शिष्टेष्टा शिष्टपूजिता ।
संहृताशेषपाखण्डा सदाचारप्रवर्तिनी ॥ १००॥
स्वात्मानन्दलयीसूक्ष्मा शुभाह्लादनचन्द्रिका ।
सद्यःप्रसादिनी साक्षी साक्षिणी साक्षिवर्जिता ॥ १०१॥
षडङ्गदेवतायुक्ता षाड्गुण्ययरिपूजिता ।
श्रुतिसीमन्तसिन्दूरी सदाशिवगृहस्थिता ॥ १०२॥
सकलागमसन्दोहा शुक्तिसम्पुटमौक्तिका ।
सहस्रवदनप्रीता सर्वश्रमनिवारिणी ॥ १०३॥
सत्यप्राज्ञापिका सत्या सर्वावस्थाविवर्जिता ।
संहारिणी सृष्टिरूपा सृष्टिकर्त्री शिवालया ॥ १०४॥
सकल-ह्रीं-बीजरूपात्मा सौंबीजनिलयात्मिका ।
सहौं-बीजसुसर्वाङ्गी सम्मोहनऋषिप्रिया ॥ १०५॥
सफल-ह्रीं-महाविद्या शुक्राचार्यहृदिस्थिता ।
साक्षमौलैकबीजस्था सच्छूद्रसमुपाश्रिता ॥ १०६॥
सदसद्रामनिलया शतरुद्राशतानना ।
श्रीरामहृदयानन्ददशधाननविघातिनी ॥ १०७॥
ख्यौं-बीजा श्रीं-बीजा श्रींश्रींश्रींह्रीनिकेतना ।
स्वरन्यासस्वरूपस्था शुक्रान्ता शुक्रतर्पणा ॥ १०८॥
सुकर्पूरनिभासात्मा शुभस्थलनिवासिनी ।
सन्ध्याग्ररूपिणी सन्ध्या संहिता संहितात्मना ॥ १०९॥
सृन्नासमेदोस्थिगता सुकुक्षा सुहृदिस्थिता ।
फिंसुलो च भासौफासक्रौं समदलात्मिका ॥ ११०॥
सक्रीं-हंसस्वरूपस्था स-क्लौंविहगरूपिणी ।
सुवर्णीवर्णसर्वाङ्गी स्त्रीरूपा शास्त्रशालिनी ॥ १११॥
सक्रमान्यासवेणी च स्वामिनी शिवपोषिणी ।
श्वेतातपत्रधरिणी सिद्धार्थी शीलभूषणा ॥ ११२॥
सत्यार्थिनी सन्ध्याभा च शची सिंही सहङ्करी ।
सङ्कोचार्थप्रदर्शी च सुहृदबन्धुविहारिणी ॥ ११३॥
शिपिविष्टप्रियाश्लोका सुकामा सज्जनाश्रया ।
सूक्ष्मेलवरघुरुषां स्थारलौरूपधारिणी ॥ ११४॥
शिवशक्तिसमाश्लिष्टा स्फुरद्व्योमान्तरस्थिता ।
सर्वरोगहराख्या च सौरभाचौरसंस्तुता ॥ ११५॥
सम्पुटब्रह्ममध्यस्था सर्वसम्पुटमालिका ।
सर्वाशापूरणीश्लाघ्या श्लींबीजा श्लीम्पराशिला ॥ ११६॥
शिलास्वरूपतरणीं शुक्लाङ्गी शुक्लभाषिणी ।
सदा शृङ्गनिवासी च सावर्णीतनयस्तुता ॥ ११७॥
सुरथ्या सुरथारूढा सुरथज्ञानदायिनी ।
स्त्रौम्बीजवासिनी श्रान्ता श्रान्तसन्तापहारिणी ॥ ११८॥
श्मशानकाली सागुह्या श्मशानागारभूषणा ।
शाक्तप्रिया शक्तिकला शाक्ता शक्तिपरायणा ॥ ११९॥
सखीवृन्दनिवासा च सखिगोष्ठीप्रियङ्करी ।
शुभभोगाद्यसन्तुष्टा सर्वज्ञानाक्षमालिनी ॥ १२०॥
श्वेतद्वीपनिवासा च शुभ्रजाम्बूनदस्थिता ।
समश्लेषातुरात्मा च सविद्युत्तेजरूपिणी ॥ १२१॥
साकारनिलया साका साकेतपुरवासिनी ।
सप्तव्याहृतिसंयुक्ता स्नुषा सुव्यक्तमालिका ॥ १२२॥
साम्बालया साम्बरूपा सुनागमणिभूषणा ।
सुजटा सौकला सौख्या सर्पमालविभूषणा ॥ १२३॥
संहारभैरवस्तुत्या स्मार्तहोमप्रियङ्करी ।
सर्वप्रिया समृद्धा सा सद्वैद्यभिषजप्रिया ॥ १२४॥
सौराष्ट्रदेशमध्यस्था सोमनाथेश्वराङ्गा ।
स्वयंवरोत्सवप्रीता सौमित्रिप्रियभाषिणी ॥ १२५॥
शक्तिसङ्गमसन्तुष्टा शरत्ताराङ्गणस्थिता ।
सप्ताश्वरथसंस्था च श्वेतकुञ्जरवाहिनी ॥ १२६॥
श्रीमद्भगवती श्वासा सुकुमारी सुकन्यका ।
श्रीसागानन्ददमना श्रीमज्जनकनन्दिनी ॥ १२७॥
सदाद्वैतस्वरुपा च सुकर्णा च सुकुण्डला ।
सम्भाषकारिणीं श्वासा चातुरी शान्तरोहिणी ॥ १२८॥
सैरावती सरोन्मादा सरावणनिकन्दिनी ।
सहस्राननधाती च सपट्टिशकरायुधा ॥ १२९॥
सक्रींकालीस्वरूपस्था स-ल्हौं-भेदस्वरूपिणी ।
सग्लौं-पञ्चास्त्ररूपस्था सध्वं-पञ्चस्वरूपिणी ॥ १३०॥
सल्वं-पञ्चमुद्राधिगता सच्छीध्रश्च मधुव्रता ।
सनातनप्रेतसंस्था स-पञ्चामृतभक्षिणी ॥ १३१॥
सकौलिकगृहान्तस्था सवामां च सदक्षिणा ।
स-पञ्चवाणव्यथिता सदादेवप्रसादिनो ॥ १३२॥
सघना च सुगन्धा च सतडित्कान्ति सन्निभा ।
सर्वकालमयीरूपा सबिम्बा शीललङ्घना ॥ १३३॥
सेन्द्रायुधसमुत्कण्ठा सुराचार्यवरप्रदा ।
सुगन्धवल्लीकान्तस्था समुद्या सान्द्रमालिका ॥ १३४॥
सत्यज्योतिस्वरूपस्था सजुहोमितभाषिणी ।
शुनिसेफः ऋषिस्तुत्या श्वेतवर्णा समुज्ज्वला ॥ १३५॥
श्रीकृष्णाङ्कनिवासिनी शुभगा शुभमङ्गला ।
स्नानोदकप्रिया स्नाता समुद्रा सिन्धुवासिनी ॥ १३६॥
सच्छिष्यबोधिनी शिष्या शतजन्मा शताकृतिः ।
सद्वनाश्रितपादाब्जा सदानन्दविहारिणी ॥ १३७॥
सर्वतीर्थाऽवगाहिनी संशोभनसच्चकुका ।
श्रीं ह्रीं क्रीं भैरवीसाद्या श्रीं क्रीं ह्रीं ह्रूं समन्विता ॥ १३८॥
शब्दब्रह्मसमुत्पन्ना शङ्करोत्पत्तिकारिणी ।
शत्रुनाशा शत्रुदाता शत्रुनाशनतत्परा ॥ १३९॥
श्रीं ह्रीं स्त्री शुक्लभैरवी शुं शुं शक्तिस्वरूपिणी ।
शालाक्षी शालरूपा च शालपानपरायणा ॥ १४०॥
शूं शूं शूंगतिस्वरूपिणी सकाराक्षरभूषिता ।
शीघ्ररूपा च शीघ्रा च शीघ्रतत्त्वविमोहिनी ॥ १४१॥
शूकरस्थाः शूकरेज्या शूकराकृतिलालना ।
शत्रोरशनसन्तुष्टा शैलस्नेहप्रियङ्करी ॥ १४२॥
शमीपूजारतप्रीता शान्तिस्तोत्रपरायणी ।
शववाहनसन्तुष्टा शवरूपा शवेश्वरी ॥ १४३॥
श्रीमद्रूपा च सद्वाला शेषचण्डपरायणा ।
श्रीगुणा श्रीशरन्माया शारदानन्दकारिणी ॥ १४४॥
श्रीपार्वति शक्तिमेधा श्रीकमला च सुगर्भिणी ।
शीतोष्मसमदुःखघ्नी शिवमुद्राप्रदर्शिनी ॥ १४५॥
सुकाली सुतारा च सुछिन्ना च सुसुन्दरी ।
श्रीमद्भुवनेश्वरी च श्री श्रीमाया च सुसिद्धिदा ॥ १४६॥
श्रीबगला श्रीघूमा श्रीमहालक्ष्मी च शालिका ।
स्वकीयार्चनसन्तुष्टी शिवाबलिप्रियात्मिका ॥ १४७॥
सुरम्या चित्रकूटस्था सुदर्शनसहायिनी ।
सभयाऽभीष्टवरदा सक्रोधा सभयङ्करी ॥ १४८॥
सुग्रीवादिहरिस्तुत्या सुष्टुग्रीवा सुसागरा ।
सप्तपातालचरणा सप्ततालप्रभेदिनी ॥ १४९॥
सुरक्तमणिभूषाङ्गी शुम्भासुरनिकृन्तिनी ।
शुद्धस्फटिकसङ्काशा सुताम्बूलधरप्रिया ॥ १५०॥
सुसर्वज्ञा सर्वशक्ति सर्वैश्वर्यप्रदायिनी ।
सर्वश्रीशाङ्करी सर्वोन्मादिनी च महाङ्कुशा ॥ १५१॥
सां सी सर्वांशपूरणी श्रैं-श्रैं-श्रैं-श्रीचक्रस्वामिनी ।
शापानुग्रहसामर्थ्या स्वचक्रायुधरक्षिणी ॥ १५२॥
सगरात्मजसन्दग्धा शुक्रकर्त्री च सप्तमी ।
संवत्सरप्रिया षष्ठी सत्यगृहस्वरूपिणी ॥ १५३॥
सुप्तस्य सरितस्नाता सरितानांशिरोमणिः ।
सहजानन्दलहरी स्वर्णाकर्षणभैरवी ॥ १५४॥
सुभोजनप्रीतिचित्ता षड्रसस्वादनप्रिया ।
सौधात्मिका सौधरूपा सुसौधा सैन्धवप्रिया ॥ १५५॥
शोधना शोधकृत् सौधा शोधनप्रियमानसा ।
सुदृष्टिश्च सुलज्जा च सुभ्रूनासा समौक्तिका ॥ १५६॥
सुबाहुमददर्पघ्नी सूर्यघ्नी सूर्यकृन्तनी ।
सर्वप्रयोगकुशला सर्वस्तम्भनकारिणी ॥ १५७॥
सुश्रूपालनसन्तुष्टा शुश्रूवेषा शुश्रुप्रिया ।
सुदामादुःखसंहर्त्री सुभद्राशोकनाशिनी ॥ १५८॥
शल्यप्रतिज्ञापहृता सहदेवप्रियङ्करी ।
शक्तिकल्याणदार्त्री च शक्तवैरीविनाशिनी ॥ १५९॥
श्रीकूर्चबीजसहिता शशिविघ्नविनाशिनी ।
श्रीं क्लीं विघ्नविनाशिन्यै शम्भुभोगपरायणा ॥ १६०॥
सम्पूर्णचन्द्रवदना शोकमार्गविनाशिनी ।
शत्रुच्चाटनमार्गस्था शत्रुमोहनकारिणी ॥ १६१॥
शृङ्गीवादनसन्तुष्टा सारात्सारतरास्मृता ।
सारस्वतमुनिस्तुल्या साधिताऽखिलवैभवा ॥ १६२॥
सुपुष्पिता सुवेलाद्रिसमीपा सर्वकामिनी ।
सर्वभूतान्तनिरता श्लोकतत्वार्थदर्शिनी ॥ १६३॥
सञ्जयप्रियकर्त्री च सुयोधनवधोद्यता ।
सर्वभूतपतिस्स्तुत्या सात्विकी सर्वरक्षिणी ॥ १६४॥
सामीप्यफलदायी च सारूप्यफलभोगिनी ।
सालोक्यफलसिद्धयर्था सायुज्यपददायिनी ॥ १६५॥
अथ फलश्रुतिः ।
इति ते कथितं देवि ! दिव्यनामसहस्रकम् ।
सीतादेव्याः परं गुह्यं महापातकनाशनम् ॥ १॥
अष्टम्यां च चतुर्दश्यां सङ्क्रान्तौ मङ्गले दिने ।
अमायां च तथा रात्रौ नवम्यां च शुभेदिने ॥ २॥
पूजाकाले व्यतीपाते सन्ध्ययोरुभयोरपि ।
यः पठेद् पाठयेद् वापि शृणोति श्रावयेदपि ॥ ३॥
लभते गाणपत्यं सः यः पठेत् साधकोत्तमः ।
सर्वपापविनिर्मुक्तः सयाति परमाङ्गतिम् ॥ ४॥
श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः पठेत् ।
दुर्गतिं तरते घोरां सयाति विष्णुमन्दिरम् ॥ ५॥
सवन्ध्या वा काकवन्ध्या वा मृत्वत्सा च याङ्गना ।
स्तुत्वा स्तोत्रमिदं पुत्राँल्लभते चिरजीविनः ॥ ६॥
यं यं चिन्तयते कामी पठेत्स्तोत्रमनुत्तमम् ।
सीतावरप्रसादेन तं तं प्राप्नोति मानवः ॥ ७॥
पञ्चोपचारै नैवेद्यं बलिभिर्बहुशोभितैः ।
धूपदीपैर्महादेवीं पूजयित्वा मनोरमे ॥ ८॥
षडक्षरं महामन्त्रं यद्वा लक्षपठेत्सुधी ।
अनन्यचेता स्थिरधीर्विशुद्धासनसंस्थितः ॥ ९॥
वायुतुल्यं वलो लोके दुर्जयः शत्रुमर्द्दनः ।
सर्वविद्यावतां श्रेष्ठो धनेन च धनाधिपः ॥ १०॥
सर्वसङ्कटमुत्तीर्णः सर्वसिद्धिसमन्वितः ।
श्रीसीतोत्कृष्टदेव्याश्च सेव्यमानोस्मरोपमः ॥ ११॥
महेशवत् योगीन्द्रः भूतैःसहप्रपूजितः ।
कामतुल्यस्वरूपोऽसौ सर्वाकर्षणकारकः ॥ १२॥
सूर्येन्दुजलवायूनां स्तम्भको राजवल्लभः ।
यशस्वी सत्कविर्धीमान् समन्त्री कोकिलस्वरः ॥ १३॥
बहुपुत्रो जगत्स्वामी नरेशोधार्मिकः सुखीम् ।
मार्कण्डेय इवायुष्मान् जरापलितवर्जितः ॥ १४॥
नवयौवनयुक्तः स्यादपिवर्षसहस्रभाक् ।
बहु किं कथनात्तस्य पठेत्स्तवमनुत्तनम् ॥ १५॥
न किञ्चिद् दुर्लभं लोके यद्यद् मनसि वर्तते ।
तत्सर्वं स्वल्पकालेन भविष्यति वरानने ॥ १६॥
सुरापानं ब्रह्महत्या स्तेयं गुर्वङ्गनागमः ।
सर्वमाशुतरत्येव स्तवस्यास्यप्रसादतः ॥ १७॥
स्तवेनानेनसंस्तुत्वा साधकः किन्नसाधयेत् ।
मूलमष्टोत्तरं जप्त्वा पठेन्नामसहस्रकम् ॥ १८॥
दर्शनं च भवेदाशु देवगन्धर्वसेवितः ।
येनकेनप्रकारेण सीताभक्तिः समन्वितः ॥ १९॥
स्तम्भयेदखिलान् कामान् राजानमपिमोहयेत् ।
परनिन्दा-परद्रोह-परवाद-परायणः ॥ २०॥
खलाय परतन्त्राय भ्रष्टाय च दुरात्मने ।
न देयं भक्तिहीनाय शिवद्रोहकराय च ॥ २१॥
रामभक्ति विहीनाय परदाररताय च ।
जपपूजाविहीनाय द्विज-स्त्री-निन्दकाय च ॥ २२॥
न स्तवं दर्शयेद्दिव्यं दर्शनाच्छिवहाभवेत् ।
कुलीनाय सुशीलाय रामभक्ति पराय च ॥ २३॥
वैष्णवाय विशुद्धाय भक्तेर्भक्ताय मन्त्रिणे ।
देयं सहस्रनामेदमश्वमेधफलं लभेत् ॥ २४॥
देव्यै र्निवेदितं यत्-तत् तस्यांशं भक्षयेन्नरः ।
दिव्यदेहधरोभूत्वा देव्याः पार्श्वचरोभवेत् ॥ २५॥
नैवेद्यनिन्दकं दृष्ट्वा नृत्यन्तियोगिनीगणाः ।
रक्तपानौद्यतासर्वा मांसास्थिचर्मणोद्यताः ॥ २६॥
तस्यै निवेदितं देव्यै दृष्ट्वा स्तुत्वा च मानवम् ।
न निन्देन्मनसावाचा सर्वव्याधिपराङ्मुखः ॥ २७॥
यस्यालयेतिष्ठतिनूनमेतत् स्तोत्रं सुरम्यं लिखितं विधिज्ञैः ।
गोरोचनालङ्कृत-कुङ्कुमाक्तं कर्पूर-सिन्दूर-मदद्रवेन ॥ २८॥
न तत्र चौरस्य भयं न शत्रुतो न वाशने वह्नि न व्याधिभीतिः ।
उत्पातवातैरपि नात्रशङ्का लक्ष्मी स्वयं तत्र वसेदलोला ॥ २९॥
इति श्रीरुद्रयामले उमामहेश्वरसंवादे सकारादि
श्रीसीतासहस्रनामस्तोत्रं सम्पूर्णम् ॥
Proofread by Prabhav Tengse, NA