सप्तशतीध्यानात्मकं स्तोत्रम्
श्रीगणेशाय नमः ॥
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रदरालिखेटविशिखाँश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ १॥
मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे
हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।
निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसिनि सहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २॥
या देवी मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डशमनी या रक्तबीजाशिनी ।
या शुम्भादिनिशुम्भदैत्यदमनी या सिद्धलक्ष्मी परा
सा चण्डी नवकोटिशक्तिसहिता मां पातु विश्वेश्वरी ॥ ३॥
दुर्गां ध्यायतु दुर्गतिप्रशमनीं दूर्वादलश्यामलां
चन्द्रार्धोज्ज्वलशेखरां त्रिनयनामापीतवासोवसम् ।
चक्रं शङ्खमिषुं धनुश्च दधतीं कोदण्डबाणाशयो-
र्मुद्रेवाभयकामदे सकटिबन्धाभीष्टदां वानयोः ॥ ४॥
भावोद्भेदवृता सहाभयवरा विस्रस्तनीलालका
बिम्बोष्ठी तरुणाऽरुणाब्जचरणा रक्तान्तनेत्रत्रया ।
पीनोरुस्तनभारभङ्गुरतनुः श्यामा प्रसन्नानना
देवी वस्त्वरिता तनोतु विभवानानन्दयन्ती मनः ॥ ५॥
मुक्ताविद्युत्पयोदस्फटिकनवजपाभास्वरैः पञ्चवक्त्रैः
शीतांशूल्लासिचूडैस्त्रिनयनलसितैर्भासुरामच्छवर्णाम् ।
चक्रं शङ्खं कपालं गुणपरशुसुधाकुम्भवेदाक्षमाला
विद्यापद्मान्वहन्तीं नमत मुनिनतां भारतीं पद्मसंस्थाम् ॥ ६॥
हंसारूढा हरहसितहारेन्दुकुन्दावदाता
वाणी मन्दस्मिततरमुखी मौलिबद्धेन्दुलेखा ।
विद्यावीणाऽमृतमयघटाक्षस्रजादीप्तहस्ता
श्वेताब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ ७॥
सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां
शङ्खं चक्रवराभयं च दधतीमिन्दोः कलां बिभ्रतीम् ।
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां
ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ ८॥
शङ्खं चक्रमथो धनुश्च दधतीं बिभ्रामितां तर्जनीं
वामे शक्तिमसिं शरान्कलयतीं तिर्यक् त्रिशूलं भुजैः ।
सन्नद्धां विविधायुधैः परिवृतां मन्त्री कुमारीजनै-
र्ध्यायेदिष्टवरप्रदां त्रिनयनां सिंहाधिरूढां शिवाम् ॥ ९॥
शङ्खासिचापशरभिन्नकरां त्रिनेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम् ।
सिंहस्थितां ससुरसिद्धनुतां च दुर्गां
दूर्वानिभां दुरितवर्गहरां नमामि ॥ १०॥
प्रकाशमध्यस्थितचित्स्वरूपां वराभये सन्दधतीं त्रिनेत्राम् ।
सिन्दूरवर्णामतिकोमलाङ्गीं मायामयीं तत्त्वमयीं नमामि ॥ ११॥
शोणप्रभां सोमकलावतंसां पाणिस्फुरत्पञ्चशरेषुचापाम् ।
प्राणप्रियां नौमि पिनाकपाणेः कोणत्रयस्थां कुलदेवतां मे ॥ १२॥
खड्गोद्भिन्नेन्दुबिम्बस्रवदमृतरसाप्लाविताङ्गी त्रिनेत्रा
सव्ये पाणौ कपालाद्गलदमृतमथो मुक्तकेशी पिबन्ती ।
दिग्वस्त्राबद्धकाञ्चीमणिमयमुकुटाद्यैर्युता दीप्तजिह्वा
पायान्नीलोत्पलाभा रविशशिविलसत्कुण्डलालीढपादा ॥ १३॥
सद्यश्छिन्नशिरःकृपाणमभयं हस्तैर्वरैर्बिभ्रतीं
घोरास्यां शिरसाऽस्रजासुरुचिरामुन्मुक्तकेशावलिम् ।
सृक्कासृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं
श्यामाङ्गीं कृतमेखलाशवकरां देवीं भजे कालिकाम् ॥ १४॥
सर्वाद्यामगुणामलक्ष्यवपुषं व्याप्याखिलं संस्तुतां
लक्ष्यां च त्रिगुणात्मिकां कनकभां सौवर्णभूषान्विताम् ।
बीजापूरगदे च खेटकसुधापात्रे करैर्बिभ्रतीं
योनिं लिङ्गमहिं च मूर्ध्नि दधतीं चण्डीं भजे चिन्मयीम् ॥ १५॥
धृत्वा श्रीर्मातुलिङ्गं तदुपरि च गदां खेटकं पानपात्रं
नागं लिङ्गं च योनिं शिरसि धृतवती राजते हेमवर्णा ।
आद्या शक्तिस्त्रिरूपा त्रिगुणपरिवृता ब्रह्मणो हेतुभूता
विश्वाद्या सृष्टिकर्त्री वसतु मम गृहे सर्वदा सुप्रसन्ना ॥ १६॥
या सा पद्मासनस्था विपुलकटितटीपद्मपत्रायताक्षी
गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुभै-
र्नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ १७॥
लक्ष्मीं कोल्हापुरस्थां भुवि गणपतिनाऽग्रे च पार्श्वद्वये तां
काल्या वाण्याऽऽसमन्तात्परिजननिकरैः सेवितां देवताभिः ।
नागं लिङ्गं च योनिं स्वशिरसि दधतीं मातुलिङ्गं गदां तत्
खेटं श्रीपानपात्रं त्रिभुवनजननीं नौमि दोर्भिश्चतुर्भिः ॥ १८॥
हस्तैः पद्मं रथाङ्ग गुणमथ हरिणं पुस्तकं वर्णमालां
टङ्कं शूलं कपालं दरममृतलसद्धेमकुम्भं वहन्तीम् ।
मुक्ताविद्युत्पयोधेः स्फटिकनवजपाबन्धुरैः पञ्चवक्त्रै-
स्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां मातृकां तां नमामि ॥ १९॥
ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा
चामुण्डा गणनाथरुद्रसहिता रक्षन्तु मां मातरः ॥ २०॥
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाभीतियुग्माम्बुजा च ।
मणिमुकुटविचित्राऽलङ्कृता कल्पजालै-
र्भवतु भुवनमाता सन्ततं श्रीः श्रिये नः ॥ २१॥
हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिनेत्राम् ।
हेमाब्जस्थां पीतवर्णां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ २२॥
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्-
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामतिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ २३॥
बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान् कराब्जै-
र्मेघश्यामा किरीटोल्लसितशशिकला भीषणा भूषणाढ्या ।
सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता
कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥ २४॥
अष्टौभुजाङ्गीन् महिषस्य मर्दिनीं सशङ्खचक्रां शरशूलधारिणीम् ।
तां दिव्यरूपां सह जातवेदसीं दुर्गां सदा शरणमहं प्रपद्ये ॥ २५॥
महिषमस्तकनृत्तविनोदनस्फुटरणन्मणिनूपुरमेखला ।
जननरक्षणमोक्षविधायिनी जयतु शुम्भनिशुम्भनिषूदनी ॥ २६॥
उद्धतौ मधुकैटभौ महिषासुरं च निहत्य तं
धूम्रलोचन चण्ड मुण्ड रक्तबीजमुखांश्च तान् ।
दुष्टशुम्भनिशुम्भमर्दिनि नन्दिताऽमरवन्दिते
विष्टपत्रयतुष्टिकारिणि भद्रकालि नमोऽस्तु ते ॥ २७॥
लक्ष्मीप्रदानसमये नवविद्रुमाभां
विद्याप्रदानसमये शरदिन्दुशुभ्राम् ।
विद्वेषिवर्गविजयेऽपि तमालनीलां
देवीं त्रिलोकजननीं शरणं प्रपद्ये ॥ २८॥
चन्द्रहासं त्रिशूलं च शङ्खचक्रगदास्तथा ।
धनुर्बाणं च मुसलं पिङ्गलं मुष्टिमेव च ॥ २९॥
पाशाङ्कुशभुसुण्ठीश्च मुद्गरं परशुं तथा ।
वज्रायुधं च कुन्तं च खट्वाङ्गं च हलायुधम् ॥ ३०॥
तूणीरं क्षुरिकां मुद्रां तोमरं पानपात्रकम् ।
पट्टसन्दण्डनागं च कुन्तदन्तौ तथैव च ॥ ३१॥
दर्पणं रुद्रवीणां च बिभ्रद्वात्रिंशदोस्तलाम् ।
पद्मरागप्रभां देवीं बालार्ककिरणारुणाम् ॥ ३२॥
रक्तवस्त्रपरीधानां रक्तमाल्यानुलेपनाम् ।
दशपादाम्बुजां देवीं दशमण्डलपूरिताम् ॥ ३३॥
दशाननां त्रिनेत्रां च समुन्नतपयोधराम् ।
एवं ध्यायेन्महाज्वालां महिषासुरमर्दिनीम् ॥ ३४॥
सर्वदारिद्र्यशमनीं सर्वदुःखनिवारिणीम् ।
ब्रह्माण्डमध्यजिह्वां तां महावक्त्रकरालिनीम् ॥ ३५॥
दशसाहस्रदोर्दण्डां नानाशस्त्रास्त्रधारिणीम् ।
विचित्रायुधसन्नद्धां विश्वरूपां शिवात्मिकाम् ॥ ३६॥
दानवान्तकरीं देवीं रक्तबीजवधोद्यताम् ।
रक्तवस्त्रधरां चण्डीं भीषणामतिभैरवाम् ॥ ३७॥
सम्पूर्णयौवनां लक्ष्मीं कालिकां कमलाननाम् ।
मधुकैटभसहर्त्रीं महिषासुरमर्दिनीम् ॥ ३८॥
चण्डमुण्डशिरश्छेत्त्रीं सर्वदैत्यनिषूदिनीम् ।
रक्तबीजस्य सहर्त्रीमशेषासुरभक्षिणीम् ॥ ३९॥
निशुम्भशुम्भमथिनीमशेषायुधभीषणाम् ।
महाब्रह्माण्डमालाङ्गीं सर्वाभरणभूषिताम् ॥ ४०॥
वेतालवाहनारूढां सिंहव्याघ्रादिवाहनाम् ।
नररक्तप्रियां मायां मधुमांसोपहारिणीम् ॥ ४१॥
य इदं शृणुयान्नित्यं त्रिसन्ध्यं यः पठेन्नरः ।
ऋणकोट्यपहरणं रोगदारिद्र्यनाशनम् ॥ ४२॥
सर्वसिद्धिकरं पुण्यं सर्वकामफलप्रदम् ।
भक्तानन्दकरीं देवीं परब्रह्मस्वरूपिणीम् ॥ ४३॥
तामष्टादशपीठस्थां त्रिपुरामधिदेवताम् ।
वन्दे विश्वेश्वरीं देवीं भुक्तिमुक्तिफलप्रदाम् ॥ ४४॥
हदं सप्तशतीध्यानं सर्वरक्षाकरं नृणाम् ।
रसं रसायनं सिद्ध्येद्गुलिकाञ्जनसिद्धिदम् ॥ ४५॥
पादुकायुगुलं सिद्ध्येन्मन्त्रसिद्धिकरं नृणाम् ।
सौन्दर्यराजसम्मानपुत्रपौत्राभिवर्धनम् ॥ ४६॥
ऐश्वर्यलाभविजयभुक्तिमुक्तिफलप्रदम् ।
सदासन्निहितां लक्ष्मीं चण्डिकां मम देवताम् ॥ ४७॥
स्मरेन्नित्यं प्रयत्नेन षण्मासात्प्राप्यते फलम् ।
महाभयापहरणं शत्रुक्षयकरं तथा ॥ ४८॥
अचलां श्रियमाप्नोति सर्वव्याधिविनाशनम् ।
अन्ते स्वर्गं च मोक्षं च सत्यमेव न संशयः ।
इति श्रीकाशीकर अनन्तभट्टसुतरामकृष्णभट्टसम्पादित-
सप्तशतीध्यानात्मकस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com