ललिता त्रिशति
ललितात्रिशतीस्तोत्रम्
॥ श्रीललितात्रिशती पूर्वपीठिका ॥
अगस्त्य उवाच --
हयग्रीव दयासिन्धो भगवन्शिष्यवत्सल ।
त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्तितत् ॥ १॥
रहस्य नाम साहस्रमपि त्वत्तः श्रुतं मय ।
इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥ २॥
तथापि मम चित्तस्य पर्याप्तिर्नैव जायते।
कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ ३॥
किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः ।
अस्ति चेन्मम तद्ब्रूहि ब्रूहीत्युक्ता प्रणम्य तम् ॥ ४॥
सूत उवाच -
समाललम्बे तत्पाद युगळं कलशोद्भवः ।
हयाननो भीतभीतः किमिदं किमिदं त्विति ॥ ५॥
मुञ्चमुञ्चेति तं चोक्का चिन्ताक्रान्तो बभूव सः ।
चिरं विचार्य निश्चिन्वन् वक्तव्यं न मयेत्यसौ ॥ ६॥
तष्णी स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।
प्रणम्य विप्रं समुनिस्तत्पादावत्यजन्स्थितः ॥ ७॥
वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ।
तछृंवन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः ॥ ८॥
तत्र श्रीललितादेवी कामेश्वरसमन्विता ।
प्रादुर्भूता हयग्रीवं रहस्येवमचोदयत् ॥ ९॥
श्रीदेवी उवाच -
आश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ १०॥
स्वमातृ जारवत् गोप्या विद्यैषत्यागमा जगुः ।
ततो ऽतिगोपनिया मे सर्वपूर्तिकरी स्तुतिः ॥ ११॥
मया कामेश्वरेणापि कृता साङ्गोपिता भृशम् ।
मदाज्ञया वचोदेव्यश्चत्ररर्नामसहस्रकम् ॥ १२॥
आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः ।
सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥ १३॥
सर्व पूर्तिकरं तस्मादिदं नाम कृतं मया ।
तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥ १४॥
पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।
अयञ्च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥ १५॥
अमुञ्चमानस्त्वद्वादौ वर्षत्रयमसौ स्थितः ।
एतज्ज्ञातुमतो भक्तया हितमेव निदर्शनम् ॥ १६॥
चित्तपर्याप्तिरेतस्य नान्यथा सम्भविष्यती ।
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७॥
सूत उवाच -
इत्युक्तान्तरधदाम्बा कामेश्वरसमन्विता ।
अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम् ॥ १८॥
संस्थाप्य निकटेवाच उवाच भृश विस्मितः ।
हयग्रीव उवाच --
कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥ १९॥
त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्रये ।
एनागस्त्य स्वयं देवी तववक्तव्यमन्वशात् ॥ २०॥
सच्छिष्येन त्वया चाहं दृष्ट्वानस्मि तां शिवाम् ।
यतन्ते दर्शनार्थाय ब्रह्मविष्ण्वीशपूर्वकाः ॥ २१॥
अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्थवम् ।
यस्य स्मरण मात्रेण पर्याप्तिस्ते भवेद्धृदि ॥ २२॥
रहस्यनाम साह्स्रादपि गुह्यतमं मुने ।
आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥ २३॥
तदहं सम्प्रवक्ष्यामि ललिताम्बानुशासनात् ।
श्रीमत्पञ्चदशाक्षर्याः कादिवर्णान्क्रामन् मुने ॥ २४॥
पृथग्विंशति नामानि कथितानि घटोद्भव ।
आहत्य नाम्नां त्रिशती सर्वसम्पूर्तिकारणी ॥ २५॥
रहस्यादिरहस्यैषा गोपनीया प्रयत्नतः ।
तां शृणुष्व महाभाग सावधानेन चेतसा ॥ २६॥
केवलं नामबुद्धिस्ते न कार्य तेषु कुम्भज।
मन्त्रात्मकं एतेषां नाम्नां नामात्मतापि च ॥ २७॥
तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा ।
सूत उवाच -
इति युक्ता तं हयग्रीवः प्रोचे नामशतत्रयम् ॥ २८॥
॥ इति श्रीललितात्रिशतीस्तोत्रस्य पूर्वपीठिका सम्पूर्णम् ।
॥ न्यासम् ॥
अस्य श्रीललितात्रिशती स्तोत्रनामावलिः महामन्त्रस्य भगवान् हयग्रीव ऋषिः,
अनुष्टुप्छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता,
ऐं बीजम्, सौः शक्तिः, क्लीं कीलकम्,
मम चतुर्विधफलपुरुषार्थे जपे (वा) पारायणे विनियोगः ॥
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ॥
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुं ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
॥ ध्यानम्॥
अतिमधुरचापहस्तामपरिमितामोदसौभाग्याम् ।
अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ॥
॥ लं इत्यादि पञ्चपूजा ॥
लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै श्रीललिताम्बिकायै कुङ्कुमं आवाहयामि ।
रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि ॥
॥ अथ श्रीललितात्रिशती स्तोत्रम् ॥
ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥ १॥
कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ २॥
कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा ।
कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटा ॥ ३॥
कलिदोषहरा कञ्जलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ ४॥
एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५॥
एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।
एकाग्रचित्तनिर्ध्याता चैषणा रहिताद्दृता ॥ ६॥
एलासुगन्धिचिकुरा चैनः कूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ ७॥
एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८॥
एकवीरादिसंसेव्या चैकप्राभवशालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ ९॥
ईद्दृगित्यविनिर्देश्या चेश्वरत्वविधायिनी ।
ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ १०॥
ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा ।
ईडिता चेश्वरार्धाङ्गशरीरेशाधिदेवता ॥ ११॥
ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी ।
ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ १२॥
ईहाविराहिता चेशशक्तिरीषत्स्मितानना ।
लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ १३॥
लाकिनी ललनारूपा लसद्दाडिमपाटला ।
ललन्तिकालसत्फाला ललाटनयनार्चिता ॥ १४॥
लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका ।
लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ १५॥
ललामराजदलिका लम्बिमुक्तालताञ्चिता ।
लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ १६॥
ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया ।
ह्रींकारबीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ॥ १७॥
ह्रींकारजपसुप्रीता ह्रींमती ह्रींविभूषणा ।
ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥ १८॥
ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका ।
ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ॥ १९॥
हकाररूपा हलधृत्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥ २०॥
हयारूढा सेवितांघ्रिर्हयमेधसमर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥ २१॥
हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुम्भोत्तुङ्ककुचा हस्तिकृत्तिप्रियाङ्गना ॥ २२॥
हरिद्राकुङ्कुमा दिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदोल्लसा ॥ २३॥
सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥ २४॥
सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ २५॥
सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥ २६॥
ककारार्था कालहन्त्री कामेशी कामितार्थदा ।
कामसञ्जीविनी कल्या कठिनस्तनमण्डला ॥ २७॥
करभोरुः कलानाथमुखी कचजिताम्भुदा ।
कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥ २८॥
कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः ।
कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥ २९॥
कल्पवल्ली समभुजा कस्तूरी तिलकाञ्चिता ।
हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥ ३०॥
हारहारिकुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ ३१॥
हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा ।
हल्लीसलास्यसन्तुष्टा हंसमन्त्रार्थरूपिणी ॥ ३२॥
हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ ३३॥
हय्यङ्गवीनहृदया हरिकोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ ३४॥
लास्यदर्शनसन्तुष्टा लाभालाभविवर्जिता ।
लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ ३५॥
लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता ।
लभ्यतरा लब्धभक्तिसुलभा लाङ्गलायुधा ॥ ३६॥
लग्नचामरहस्त श्रीशारदा परिवीजिता ।
लज्जापदसमाराध्या लम्पटा लकुलेश्वरी ॥ ३७॥
लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः ।
ह्रींकारिणी च ह्रींकारी ह्रींमध्या ह्रींशिखामणिः ॥ ३८॥
ह्रींकारकुण्डाग्निशिखा ह्रींकारशशिचन्द्रिका ।
ह्रींकारभास्कररुचिर्ह्रींकारांभोदचञ्चला ॥ ३९॥
ह्रींकारकन्दाङ्कुरिका ह्रींकारैकपरायणाम् ।
ह्रींकारदीर्घिकाहंसी ह्रींकारोद्यानकेकिनी ॥ ४०॥
ह्रींकारारण्यहरिणी ह्रींकारावालवल्लरी ।
ह्रींकारपञ्जरशुकी ह्रींकाराङ्गणदीपिका ॥ ४१॥
ह्रींकारकन्दरा सिंही ह्रींकाराम्भोजभृङ्गिका ।
ह्रींकारसुमनो माध्वी ह्रींकारतरुमञ्जरी ॥ ४२॥
सकाराख्या समरसा सकलागमसंस्तुता ।
सर्ववेदान्त तात्पर्यभूमिः सदसदाश्रया ॥ ४३॥
सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिवकुटुम्बिनी ॥ ४४॥
सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः ।
सर्वप्रपञ्चनिर्मात्री समनाधिकवर्जिता ॥ ४५॥
सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा । var सकलेश्वरी
ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ ४६॥
कामेश्वरप्रणानाडी कामेशोत्सङ्गवासिनी ।
कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ॥ ४७॥
कामेश्वरप्रणयिनी कामेश्वरविलासिनी ।
कामेश्वरतपः सिद्धिः कामेश्वरमनःप्रिया ॥ ४८॥
कामेश्वरप्राणनाथा कामेश्वरविमोहिनी ।
कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ ४९॥
कामेश्वराह्लादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥ ५०॥
लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्चिता ।
लब्धपापमनोदूरा लब्धाहङ्कारदुर्गमा ॥ ५१॥
लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः ।
लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ ५२॥ var लब्धबुधिः
लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा ।
लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ ५३॥ var लब्धगति
लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । पूजिता
ह्रींकारमूर्तिर्ह्रींकारसौधशृङ्गकपोतिका ॥ ५४॥
ह्रींकारदुग्धाब्धिसुधा ह्रींकारकमलेन्दिरा ।
ह्रींकारमणिदीपार्चिर्ह्रींकारतरुशारिका ॥ ५५॥
ह्रींकारपेटकमणिर्ह्रींकारदर्शबिम्बिता ।
ह्रींकारकोशासिलता ह्रींकारास्थाननर्तकी ॥ ५६॥
ह्रींकारशुक्तिका मुक्तामणिर्ह्रींकारबोधिता ।
ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका ॥ ५७॥
ह्रींकारवेदोपनिषद् ह्रींकाराध्वरदक्षिणा ।
ह्रींकारनन्दनारामनवकल्पक वल्लरी ॥ ५८॥
ह्रींकारहिमवद्गङ्गा ह्रींकारार्णवकौस्तुभा ।
ह्रींकारमन्त्रसर्वस्वा ह्रींकारपरसौख्यदा ॥ ५९॥
॥ इति श्रीललितात्रिशतीस्तोत्रं सम्पूर्णम् ॥
॥ श्रीललिता त्रिशती उत्तरपीठिका ॥
हयग्रीव उवाच -
इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् ।
रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ १॥
शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।
शक्तयक्षराणि नामानि कामेशकथितानि च ॥ २॥
उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै ।
तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ३॥
नानेन सदृशं स्तोत्रं श्रीदेवी प्रीतिदायकम् ।
लोकत्रयेऽपि कल्याणं सम्भवेन्नात्र संशयः॥ ४॥
सूत उवाच -
इति हयमुखगीतं स्तोत्रराजं निशम्य
प्रगलित कलुषोऽभृच्चित्तपर्याप्तिमेत्य ।
निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं
पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ ५॥
अगस्त्य उवाच --
अश्वानन महाभाग रहस्यमपि मे वद ।
शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ ६॥
उभयोरपि वर्णानि कानि वा वद देशिक।
इति पृष्टः कुम्भजेन हयग्रीवोऽवदत्युनः ॥ ७॥
हयग्रीव उवाच -
तव गोप्यं किमस्तीह साक्षादम्बानुशासनात् ।
इदं त्वतिरहस्यं ते वक्ष्यामि कुम्भज ॥ ८॥
एतद्विज्ञनमात्रेण श्रीविद्या सिद्धिदा भवेत् ।
कत्रयं हद्बयं चैव शैवो भागः प्रकीर्तितः ॥ ९॥
शक्तयक्षराणि शेषाणिह्रीङ्कार उभयात्मकः ।
एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ १०॥
न तेशां सिद्धिदा विद्या कल्पकोटिशतैरपि ।
चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ॥ ११॥
नव चक्रैश्ल संसिद्धं श्रीचक्रं शिवयोर्वपुः ।
त्रिकोणमष्टकोनं च दशकोणद्बयं तथा ॥ १२॥
चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ।
बिन्दुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ १३॥
चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।
त्रिकोणे बैन्दवं श्लिष्टं अष्टारेष्टदलाम्बुजम् ॥ १४॥
दशारयोः षोडशारं भूगृहं भुवनाश्रके ।
शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥ १५॥
अविनाभावसम्बन्धं यो जानाति स चक्रवित् ।
त्रिकोणरूपिणि शक्तिर्बिन्दुरूपपरः शिवः ॥ १६॥
अविनाभावसम्बन्धं तस्माद्विन्दुत्रिकोणयोः ।
एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ १७॥
न तत्फलमवाप्नोति ललिताम्बा न तुष्यति ।
ये च जानन्ति लोकेऽस्मिन्श्रीविद्याचक्रवेदिनः ॥ १८॥
सामन्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः ।
स्वयं विद्या विशेषज्ञो विशेषज्ञ समर्चयेत् ॥ १९॥
तस्मैः देयं ततो ग्राह्यमशक्तस्तव्यदापयेत्।
अन्धम्तमः प्रविशन्ति ये ऽविद्यां समुपासते ॥ २०॥
इति श्रुतिरपाहैतानविद्योपासकान्पुनः ।
विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥ २१॥
अश्रुता सश्रुतासश्व यज्चानों येऽप्ययञ्जनः ।
सवर्यन्तो नापेक्षन्ते इन्द्रमग्निश्च ये विदुः ॥ २२॥
सिकता इव संयन्ति रश्मिभिः समुदीरिताः ।
अस्माल्लोकादमुष्माच्चेत्याह चारण्यक श्रुतिः ॥ २३॥
यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम्।
तेनैव लभ्यते विद्या श्रीमत्पच्चदशाक्षरी ॥ २४॥
इति मन्त्रेषु बहुधा विद्याया महिमोच्यते ।
मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ २५॥
न शिल्पदि ज्ञानयुक्ते विद्वच्छव्धः प्रयुज्यते ।
मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ २६॥
तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते ।
स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ २७॥
स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यमवेद्यपि
विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥ २८॥
प्रसङ्गादिदमुक्तं ते प्रकृतं शृणु कुम्भज ।
यः कीर्तयेत्सकृत्भक्तया दिव्यनामशतत्रयम् ॥ २९॥
तस्य पुण्यमहं वक्ष्ये द्वं कुम्भसम्भव ।
रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ ३०॥
तत्फलं कोटिगुणितमेकनामजपाद्भवेत् ।
कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ ३१॥
नान्येन तुलयेदेतत्स्तोत्रेणान्य कृतेन च ।
श्रियः परम्परा यस्य भावि वा चोत्तरोत्तरम् ॥ ३२॥
तेनैव लभ्यते चैतत्पश्चाच्छेयः परीक्षयेत् ।
अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्णयते ॥ ३३॥
या स्वयं शिवयोर्वक्तपद्माभ्यां परिनिःसृता ।
नित्यं षोडशसङ्ख्याकान्विप्रानादौ तु भोजयेत् ॥ ३४॥
अभ्यक्तांसितिलतैलेन स्नातानुष्णेन वारिणा ।
अभ्यर्च गन्धपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ ३५॥
सूपापूपैः शर्कराद्मैः पायसैः फलसंयुतैः ।
विद्याविदो विशेषेण भोजयेत्पोडश द्विजान् ॥ ३६॥
एवं नित्यार्चनं कुर्यातादौ ब्राह्मण भोजनम् ।
त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ॥ ३७॥
तैलाभ्यङ्गातिकं दत्वा विभवे सति भक्तितः ।
शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ ३८॥
दिवसे दिवसे विप्रा भोज्या विंशतीसङ्ख्यया ।
दशभिः पञ्चभिर्वापि त्रीभिरेकनवा दिनैः ॥ ३९॥
त्रिंशत्पष्टिः शतं विप्राः सम्भोज्यस्तिशतं क्रमात् ।
एवं यः कुरुते भक्तया जन्ममध्ये सकृन्नरः ॥ ४०॥
तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिराः ।
रहस्यनाम साहस्त्र भोजनेऽप्येव्मेवहि ॥ ४१॥
आदौ नित्यबलिं कुर्यात्पश्चाद्वाह्मणभोजनम् ।
रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ ४२॥
सशिकराणुरत्रैकनामप्नो महिमवारिधेः ।
वाग्देवीरचिते नामसाहस्ने यद्यदीरितम् ॥ ४३॥
तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् ।
एतन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४॥
तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् ।
वाग्देविरचितास्तोत्रे तादृशो महिमा यदि ॥ ४५॥
साक्षात्कामेशकामेशी कृते ऽस्मिन्गृहृतामिति ।
सकृत्सन्कीर्तनादेव नाम्नाम्नस्मिव्शतत्रये ॥ ४६॥
भवेच्चित्तस्य पर्यप्तिर्न्यूनमन्यानपेक्षिणी ।
न ज्ञातव्यमितोऽप्यन्यत्र जप्तव्यश्च कुम्भज ॥ ४७॥
यद्यत्साध्यतमं कार्य तत्तदर्थमिदञ्जपेत् ।
तत्तत्फलमवाप्नोति पश्चात्कार्य परीक्षयेत् ॥ ४८॥
ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् ।
तत्सर्व सिद्धयति क्षिप्रं नामत्रिशतकीर्तनात् ॥ ४९॥
आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् ।
विद्याप्रदं कीर्तिकरं सुखवित्वप्रदायकम् ॥ ५०॥
सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् ।
सर्वाभिष्टप्रदं चैव देव्या नामशतत्रयम् ॥ ५१॥
एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन ।
एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका ॥ ५२॥
भक्तस्य यद्यदिष्टं स्यात्तत्तत्यूरयते ध्रुवम् ।
तस्मात्कुभोद्भवमुने कीर्तय त्वमिदम् सदा ॥ ५३॥
नापरं किञ्चिदपि ते बोद्धव्यं नावशिष्यते ।
इति ते कथितं स्तोत्र ललिता प्रीतिदायकम् ॥ ५४॥
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
न शठाय न दुष्टाय नाविश्वासाय कहिर्चित्॥ ५६॥
यो ब्रूयात्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् ।
इत्याज्ञा शाङ्करी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ ५७॥
ललिता प्रेरितेनैव मयोक्तम् स्तोत्रमुत्तमम् ।
रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ ५८॥
सूत उवाच -
एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् ।
स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरी ॥
आनन्दलहरीमग्नरमानसः समवर्तत ॥ ५९॥
॥ इति श्री ब्रह्माण्डपुराणे उत्तराखण्डे
श्री हयग्रीवागस्त्यसंवादे
श्रीललितात्रिशती स्तोत्र कथनं सम्पूर्णम् ॥
Three hundred names of Goddess Lalita
Introduction
This introduction deals with the background of lalitAtrishatIstotram.
Among the 18 purANas, brahmANDa-purANa is well known for the
extolling of Lalita. It explains in detail the appearance of
the Goddess Lalita to save the world from the clutches of the
demon bhaNDAsura.
There are three important sub-texts in this purANa. The first
of these texts is LalitopAkhyAna, consisting of 45 chapters
and is found in the last chapter of the purANa. The last five
chapters are especially well known. They extol the the Divine
mother, explain the significance of the mantra of the goddess
(shoDashAkSharI-vidyA), the various mudras and postures to
be practiced, meditations, initiations etc., and the mystical
placement of the deities involved in Shri Chakra. The next text
is the celebrated LalitA sahasranAma, which consists of 320
verses in three chapters. The third text is the lalitA trishati
in which 300 names of the goddess is featured.There is a well
known commentary on this work attributed to Adi ShankarAchArya.
Lalita trishati and lalitA sahasranAma are dialogues
between the sage Agastya and the god Hayagriva (Pronounced as
hayagrIva). Hayagriva is the incarnation of ViShNu who assumed
the form of a horse to kill a demon by the same name. Agastya
was a sage of great renown, who is immortalized as a star in the
celestial heavens(one of the seven Rishi-s, saptarShi or Ursa
Major). He is the patron saint of Tamilnadu being a founder of
a system of medicine called Siddha, and also having drunk the
whole ocean in his kamaNDalum. According to yAska's Nirukta,
Agastya is the half-brother of the great sage, VasishTha.
The story of the meeting of Agastya and Hayagriva is given
in the lalitopAkhyAna and is quite interesting. Agastya was
visiting several places of pilgrimage and was sad to see many
people steeped in ignorance and involved in only sensual
pleasures. He came to kA~nchi and worshiped kAmAkShI and
sought a solution for the masses. Pleased with the devotion
and his caring for the society, Lord ViShNu appeared before
Agastya and provided the sage Agastya with the solution of
`curing' the worldly folk from ignorance. He explained that
He is the primordial principle, and the source and the end of
everything. Though He is above forms and guNas, He involves
himself in them. He goes on to explain that a person should
recognize that He is the pradhhAna (primordial) transformed into
the universe, and that He is also the puruSha (conscious spirit)
who is transcendental and beyond all qualities(guNa-s) and forms.
However to recognize this, one has to perform severe penance,
self-discipline etc. If (since) this is difficult, Lord ViShNu
advises that the worship of the goddess will achieve the purpose
of life, given as liberation from bondage, very easily. He
points out that even other Gods like Shiva and Brahma have
worshiped the goddess TripurA. ViShNu concludes his discourse
saying that this was revealed to Agastya so that he (Agastya)
can spread the message to gods, sages, and humans. ViShNu
requests Agastya to approach his incarnation, Hayagriva and
disappears from Agastya's sight. Agastya approaches Hayagriva
with devotion and reverence. Hayagriva reveals to Agastya that
the great Goddess, lalitA, is without beginning or end and
is the foundation of the entire universe. The great goddess
abides in everyone and can be realized only in meditation.
The worship of goddess is done with the lalitA sahasranamA
(1000 names) and Hayagriva teaches him this great sahasranAmA.
After this Agastya thanks Hayagriva and tells him that though he
has heard about Sri Chakra upAsana and the sahasranAma he lacks
the satisfaction of knowing all the secrets and catches hold
of Hayagriva's feet. Hayagriva is taken aback and keeps quiet.
At this time Goddess Lalita appears to Hayagriva and tells him
that both Agastya and his wife Lopamudra are very dear to her,
and that Agastya is worthy of receiving the secret Lalita
trishatI and then disappears.
Hayagriva lifts up Agastya and tells him that he is indeed a
great man since Lalita herself had commanded him to impart the
trishatI to Agastya. He also tells him that he is fortunate to
have Agastya as a disciple since he had the vision of Lalita
due to Agastya. He then gives him the following trishatI.
Encoded and proofread by Rama Balasubramanian
rbalasub at ecn.purdue.edu
pUrva bhAga and uttara bhAga added from pdf on ambaa.org
on 26-4-2017 and need proofreading.