विशोकाललिताव्रतनिरूपणम्

विशोकाललिताव्रतनिरूपणम्

श्रीनारायणीश्रीरुवाच । आगतानां हि शोकानामपनोदार्थमेव यत् । व्रतं स्यात्तत्कथयाऽत्र दयया मे हरे प्रभो ॥ १॥ श्रीपुरुषोत्तम उवाच । पुण्ये चाश्वयुजे मासि शुक्ले द्वादशिकाव्रतम् । शोकनाशार्थमेवाऽस्ति विशोकद्वादशीव्रतम् ॥ २॥ दशम्यां लघुभुग्भूत्वा पृथ्वीशयनमाचरेत् । ब्रह्मचारी भवेच्चापि प्रातरुत्थाय मां स्मरेत् ॥ ३॥ स्नात्वा सम्पूजयेन्मां चैकादश्यां व्रतमाचरन् । निराहारः फलाहारश्चैकभोजी च वा भवेत् ॥ ४॥ अशोकललितां स्वर्णमयीं श्रीकृष्णशोभिताम् । कारयित्वा पूजयित्वा भोजयित्वा गजासने ॥ ५॥ स्वापयेज्जागरं कुर्यान्मण्डपे कदलीकृते । द्वादश्यां प्रातरुत्थाय स्नात्वा सम्पूजयेत्पुनः ॥ ६॥ स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजलैरपि । पीताम्बरधरो लक्ष्मीं पूजयेच्छ्रीशमुत्पलैः ॥ ७॥ विशोकायै नमः पादौ वरदायै तु जङ्घयोः । जान्वोः श्रियै नमश्चापि सक्थ्नोरब्धिजयोषिते ॥ ८॥ गुप्ते विशोककर्त्र्यै च कट्यां मायै नमो नमः । उदरे पोषयित्र्यै च नमो भायै च पार्श्वयोः ॥ ९॥ नाभौ नमः सर्वधार्त्र्यै हृदयेऽर्धाश्रियै नमः । कण्ठे वाण्यै नमो वक्षःस्थले कान्ताश्रियै नमः ॥ १०॥ बाह्वोर्नमो रक्षयित्र्यै ललितायै तु हस्तयोः । चान्द्र्यै मुखे नमश्चापि कमलायै तु नेत्रयोः ॥ ११॥ नासायां सुरभिदेव्यै ललाटे मोहिनीश्रियै । कर्णयोर्व्यापिकायै ते नमो मूर्ध्नि महाश्रियै ॥ १२॥ मण्डले स्थण्डिले लक्ष्मीप्रतिमासन्निधौ हरिम् । स्वर्णमूर्तिं पूजयेच्च श्रीपतिं मां विशोकिनम् ॥ १३॥ नमोऽनादिकृष्णनारायणाय पादयोर्नमः । नमः कृष्णाय कान्ताय जङ्घयोस्ते नमो नमः ॥ १४॥ नमः श्रीवासुदेवाय जान्वोस्ते च नमो नमः । नमो नारायणायेति सक्थ्नोस्ते भगवन्नमः ॥ १५॥ नमश्चानन्दरूपाय मेढ्रे ते च नमो नमः । नमः कट्यां नरनारायणाय ते नमो नमः ॥ १६॥ उदरे ते नमो विश्वम्भराय भगवन्नमः । पार्श्वयोः रामकृष्णाभ्यां नमो नमः नमो नमः ॥ १७॥ नाभौ ते पद्मनाभाय हृदये हंसयोगिने । कण्ठे ते नीलकण्ठाय वक्षसि ब्रह्मणे नमः ॥ १८॥ बाह्वोश्चक्रधरायाऽपि करयोः शङ्खधारिणे । मुखे रूपाभिरूपाय नेत्रयोः कमलाक्षिणे ॥ १९॥ नासायां सर्वगन्धाय ललाटे गुरुरूपिणे । कर्णयोः श्रुतिकर्त्रे ते नमो मूर्ध्नि शिखावते ॥ २०॥ इत्यभ्यर्च्याऽपि गोविन्दं फलमाल्यानुलेपनैः । शूर्पं संस्थाप्य पुरतो लक्ष्मीं मां तत्र सन्न्यसेत् ॥ २१॥ नमो मोक्षप्रमोदानां दातृभ्यां सर्वसम्पदाम् । नमः शोकपरिहारकर्तृभ्यां सर्वदा नमः ॥ २२॥ विशोकौ दुःखनाशाय विशोकौ वरदौ च मे । विशोकौ मम सम्पत्त्यै विशोकौ सर्वसिद्धये ॥ २३॥ भवतां मम शोकानां सर्वेषां नाशकौ प्रभू । शुक्लाम्बरैः समावेष्ट्य शूर्पं सम्पूजयेत् फलैः ॥ २४॥ वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च । पूजयित्वा भोजयेच्च दुग्धपाकादिकं शुभम् ॥ २५॥ त्रिकालं पूजयेच्चापि कमलैर्भोजयेदपि । रजन्यां च व्रती शीतं दर्भोदकं पिबेच्छुचि ॥ २६॥ ततस्तु जागरं गीतनृत्यवाद्यान्वितं चरेत् । प्रातः प्रपूजयेल्लक्ष्मीमशोकां श्रीपतिं तथा ॥ २७॥ दम्पतीं पूजयेच्चापि विप्राणां विधिना ततः । वस्त्रभूषाभोज्यपात्रश‍ृङ्गारशाटिका दिशेत् ॥ २८॥ धनदानानि रत्नानां धेनूनामर्पणानि च । यथाशक्ति प्रकुर्याच्च भोजयेद्बालबालिकाः ॥ २९॥ साधून् साध्वीर्भोजयेच्च दद्यादन्नानि सर्वतः । परिहारं प्रकुर्याच्च दक्षिणः प्रदिशेत्तथा ॥ ३०॥ अनेन विधिना कुर्याद्विशोकाललिताव्रतम् । विशोकाद्वादशीरूपं शोका नश्यन्ति तस्य वै ॥ ३१॥ धेनुदानं सोपधानशय्यादानं धनार्पणम् । प्रकुर्याच्च ललिताश्रीलक्ष्मीं स्तुवीत भावतः ॥ ३२॥ यथा न लक्ष्मीः सम्पच्च मां परित्यज्य गच्छति । तथा सुरूपताऽऽरोग्यमशोकः सन्तु मे सदा ॥ ३३॥ यथा भक्तिर्भवेदग्र्या श्रीकृष्णवल्लभे मम । यथा कृष्णो बालकृष्णः सलक्ष्मीको मम गृहे ॥ ३४॥ सदा वसेत्तथा शूर्पलक्ष्मीदानं करोमि च । सुवर्णकमलं रम्यं करवीरं च कुङ्कुमम् ॥ ३५॥ केतकीं सिन्दुवारं च मल्लिकां केसरं तथा । कज्जलं चाऽलक्तकं च चन्दनं च कदम्बकम् ॥ ३६॥ रञ्जनं गन्धितैलं च गन्धसारं ददामि च । सर्वश‍ृङ्गारपुष्पाणि ददामि सौख्यहेतवे ॥ ३७॥ पठनाच्छ्रवणाच्चापि स्मरणात्करणादपि । भुक्तिर्मुक्तिर्भवेदेव विशोकललिताव्रतात् ॥ ३८॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १३९-अध्यायान्तर्गतं विशोकाललिताव्रतनिरूपणं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३९/१-३८॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 139/1-38.. Proofread by PSA Easwaran
% Text title            : Vishokalalitavratanirupanam
% File name             : vishokAlalitAvratanirUpaNam.itx
% itxtitle              : lalitAvratanirUpaNam (vishokAlalitA lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : vishokAlalitA vratanirUpaNam
% Category              : devii, devI, lakShmInArAyaNIyasaMhitA, lalitA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lalitA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 139/1-38||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : April 12, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org