श्रीगणेशध्यानदूर्वादिपूजाविधि

श्रीगणेशध्यानदूर्वादिपूजाविधि

॥ श्रीगणेशाय नमः ॥ ऐल उवाच । नमामि विघ्नेश्वरपादपङ्कजं सुचिह्नितं चाखिलदं निजात्मनाम् । ध्वजासिपद्माभयवज्रलाञ्छनैः परश्वधेनैव सुकोमलं परम् ॥ ६॥ सुरक्तपादाङ्गुलकैः सुकोमलैर्नखप्रभाताम्रतया सुराजितम् । सुगुल्फयुक्तं मृदुमांसलं महन् मोहं हरेत् तत्तिमिरं हृदि स्थितम् ॥ ७॥ जङ्घे परे रक्तसुभामये ततो ध्यायामि मांसेन युते सुकोमले । तज्जानुनी मांसलके सुरोमभिराकोमलैर्वक्रशिखैः सुसंवृते ॥ ८॥ ऊरू सुमांसेन समावृतौ परौ रम्भासमानौ सुविराजितौ तथा । रक्तौ हृदा चिन्तनमात्रभावतो भक्तिप्रदौ विघ्नहरस्य चिन्तये ॥ ९॥ कटिं सदा मांसलरक्तरञ्जितां सुवर्तुलां मध्यमभागसंश्रिताम् । गणेश्वरस्यैव तु चिन्तयाम्यहं सदा सुखानन्दकरस्य नित्यदा ॥ १०॥ वस्त्रं सुरक्तं हृदि चिन्तयाम्यहमनन्तमौल्यं कटिभागसंस्थितम् । नाभिं सुवृत्तां परमश्रिया युतां शेषस्य संवासकरीं तु चिन्तये ॥ ११॥ महोदरं मांसलभावसंयुतं सुरोमयुक्तं प्रभया विराजितम् । विचिन्तयेऽहं सकलप्रकाशकं त्रयीप्रमूलं परमव्ययं परम् ॥ १२॥ श्रीवक्रतुण्डस्य विशालरूपकं वक्षस्तथा रक्तमयं सुमांसलम् । रक्तं स्तनाभ्यां हृदयं तु चिन्तये चिन्तामणिं तत्र सुखप्रदं परम् ॥ १३॥ कण्ठं त्रिरेखायुतमेव मांसलं रक्तं गणेशस्य च तेजसा युतम् । स्कन्धौ वृषस्कन्धसमौ सुकोमलौ ध्यायामि चित्ते सततं सुरक्तकौ ॥ १४॥ बाहू सदा मांसलकौ प्रभासितौ स्वानन्दनाथस्य मनोऽतिसौख्यदौ । हस्तौ तथा रक्तसुतेजसा युतौ वामौ हृदा दक्षिणकौ तु चिन्तये ॥ १५॥ कराङ्गुलीर्विंशतिकाः सुवर्तुला नखैः सुरक्तैश्च सुतेजसा युताः । गणेश्वरस्यैव हृदि प्रचिन्तये स्वभक्तरक्षाकरिकाः सुभूषिताः ॥ १६॥ मुखं तु शुण्डायुतमेव चिन्तये त्रिनेत्रयुक्तं परमप्रकाशकम् । सदैकदन्तस्य च तीक्ष्णदन्तकं स्वभक्तकान् प्रेमरसेन सौख्यदम् ॥ १७॥ कर्णौ विशालौ हृदि चिन्तये परौ भक्ताय निष्कामसुकामदौ तथा । शूर्पाकृती चञ्चलभावधारिणौ विघ्नेश्वरस्यैव च वेदरूपिणौ ॥ १८॥ कपोलकौ षट्पदरूपधारिभिर्मुनीश्वरैर्ब्रह्ममदद्रवार्थिभिः । सुसंवृतौ नादयुतैर्निरन्तरं गणेश्वरस्यैव हृदा विचिन्तये ॥ १९॥ भालं सुतेजोयुतमेव चिन्तये श्रीढुण्ढिराजस्य निशाकरस्थलम् । रक्ताष्टगन्धैश्च सुचित्रितं प्रभोर्बिन्दुप्रयुक्तं त्वथ तण्डुलैर्युतम् ॥ २०॥ केशैः समाच्छादितमस्तकं तथा सञ्चिन्तये विघ्नविनाशकारिणः । ब्रह्माण्डमूले प्रभुमस्तकाश्रिते कुम्भस्थले ब्रह्मवरस्य सौख्यदे ॥ २१॥ गणेशदेहं परिचिन्तयाम्यहं सुभूषणैर्भूषितकं विचित्रकैः । अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥ २२॥ विचित्रगन्धैः परिलेपितं तथा सुचित्रितं भक्तवरैः सुयोगिभिः । गणाधिपं साधु हृदि स्थितं सदा विचिन्तयेऽहं निजभक्तिलालसम् ॥ २३॥ पाशाङ्कुशाद्यैश्च सुसंस्तुतं परं ढुण्ढिं प्रमोदादिभिरेव नित्यदा । गणेश्वरं दवेवरैस्तथोन्दुरुराजेन पूज्यं च सुचिन्तये हृदि ॥ २४॥ वेदैः पुराणैः स्मृतिभिश्च शास्त्रकैः स्तोत्रैः स्तुतं देहधरैर्विचिन्तये । ब्रह्मप्रियाद्यैश्च गणैरसङ्ख्यकैर्भक्त्या तथा मुद्गलमुख्यकैः परम् ॥ २५॥ सर्वाङ्गसंशोभनरूपयुक्तया सिद्ध्या गणेशं परिचिन्तये हृदि । संसेवितं वामगया सुशक्तिभिः सिद्ध्यादिभिः संवृतया स्वमायया ॥ २६॥ बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिराराद्गणनायकं हृदि । सर्वाङ्गसंशोभनया स्वमायया सञ्चिन्तये दक्षिणभागभूषया ॥ २७॥ लक्षेण लाभेन च विघ्ननायकं संसेवितं शोभनशोभनेन तु । सञ्चिन्तये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः ॥ २८॥ अनन्तमन्त्रैः कथितं स्वरूपकं विचिन्तये वक्तुमशक्यभावतः । हृदि स्थितं ध्यानसुलोलुपं परं गणेश्वरं ब्रह्ममयागधारिणम् ॥ २९॥ मुद्गल उवाच । एवमैलः स राजर्षिर्गणेशभजने रतः । ध्यानं कृत्वा सदाऽतिष्ठद्गणेशस्य निवृत्तितः ॥ ३०॥ प्रातः काले समुत्थाय सस्त्रीकः स महीपतिः । धर्मयुक्तं चकाराऽपि नित्यं कर्म निरन्तरम् ॥ ३१॥ ततो गणेश्वरं भक्त्याऽपूजयद्भक्तिसंयुतः । यथा गार्ग्येण भो दक्ष शिक्षितः स तथाऽकरोत् ॥ ३२॥ शमीमन्दारदूर्वाश्चापूजयद्भक्तिसंयुतः । प्रार्थ्य पत्राङ्कुराद्यं स पुष्पं चैवाऽऽचिनोन्नृपः ॥ ३३॥ दक्ष उवाच । शमीमन्दारदूर्वाणां पूजनं वद मुद्गल । सिद्धेर्बुद्धेश्च विपेन्द्र सुतयोर्लक्षलाभयोः ॥ ३४॥ शमीमन्दारदूर्वाणां प्रार्थना कीदृशी भवेत् । तां कृत्वा पुष्पपत्रादींश्चिनोम्यहं त्वदाज्ञया ॥ ३५॥ केन मन्त्रेण योगीन्द्र शमीमन्दारकांस्तदा । नरोत्तमो गणेशाय परेशाय समर्पयेत् ॥ ३६॥ मुद्गल उवाच । श‍ृणु दक्ष महाप्राज्ञ गाणपत्यपरायण । सन्तुष्टोऽहं विशेषेण प्रश्नेन च वदामि ते ॥ ३७॥ गणेशस्यैव मन्त्रेण पूजनीया इमे मताः । वस्तुभिर्गाणपत्यैश्च अभवंस्तोषसंयुताः ॥ ३८॥ स्त्रीपुम्भावात्मकं दक्ष नास्ति तत्र विचारतः । गकारः सिद्धिरूपश्च णकारो बुद्धिरुच्यते ॥ ३९॥ तयोः स्वामी गणेशः स त्रेधारूपधरो बभौ । गणास्तस्य तथा पूज्या गाणपत्यैश्च मन्त्रकैः ॥ ४०॥ गकाराद्बिम्बभावाख्यो लक्षः पुत्रः प्रकथ्यते । तथा गकाररूपाद्वै लाभस्तौ तन्मयौ मतौ ॥ ४१॥ शमीमन्दारकौ दक्ष वरदानाद्विशेषतः । गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥ ४२॥ दूर्वां देवीं गणेशस्य मन्त्रेणापूजयेन्नरः । अथवा वैदिकैर्मन्त्रैः काण्डादिभिः प्रपूजयेत् ॥ ४३॥ नाममन्त्रेण शूद्रस्तान् पूजयेत् सर्वभावतः । एतदेव रहस्यं ते कथितं सर्वमञ्जसा ॥ ४४॥ प्रार्थनां ते प्रवक्ष्यामि श‍ृणु दक्ष महामते । स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमन्दिरे ॥ ४५॥ यत्र दूर्वा च मन्दारः शमी तिष्ठति तत्र सः । गत्वा प्रणम्य तानादौ प्रार्थयेद्भक्तिसंयुतः ॥ ४६॥ दूर्वेऽन्नब्रह्मरूपे चामृतरूपे शताङ्कुरे । गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः ॥ ४७॥ शमी सर्वप्रदे देवि गणेशरूपधारिणि । चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहम् ॥ ४८॥ मन्दारवाञ्छितार्थस्य दातर्विघ्नेशरूपक । क्षमस्व प्रीणनार्थाय गणेशस्य चिनोम्यऽहम् ॥ ४९॥ एवं प्रार्थ्य प्रजानाथ शमीमन्दारकौ पुरा । दूर्वापत्राणि पुष्पाणि विभुं ह्यानाय्य पूजयेत् ॥ ५०॥ सहस्रनाममन्त्रैश्च अष्टोत्तरशतैर्नरः । एकविंशतिकैश्चैव नामभिस्ताः समर्पयेत् ॥ ५१॥ अथवा मूलमन्त्रेण नाममन्त्रेण वा तथा । गाणेशैर्विविधैर्मन्त्रैर्दूर्वादीनि समर्पयेत् ॥ ५२॥ इति श्रीगणेशध्यानदूर्वादिपूजाविधि सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः ४४ । ५.४४। ६-५२॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 44 . 5.44. 6-52.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Dhyanadurvadipujavidhi
% File name             : gaNeshadhyAnadUrvAdipUjAvidhi.itx
% itxtitle              : gaNeshadhyAnadUrvAdipUjAvidhi (mudgalapurANAntargatA)
% engtitle              : gaNeshadhyAnadUrvAdipUjAvidhi
% Category              : ganesha, mudgalapurANa, dhyAnam, pUjA
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 44 | 5.44. 6-52||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org